Ṛk 2.6.5
Saṃhitā
स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाणं॑ ।
स नः॑ सह॒स्रिणी॒रिषः॑ ॥
स नो वृष्टिं दिवस् परि स नो वाजम् अनर्वाणम् |
स नः सहस्रिणीर् इषः ||
sá no vṛṣṭím diváspári sá no vā́jamanarvā́ṇam ǀ
sá naḥ sahasríṇīríṣaḥ ǁ
sa no vṛṣṭiṃ divas pari sa no vājam anarvāṇam |
sa naḥ sahasriṇīr iṣaḥ ||
Padapāṭha
सः । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । सः । नः॒ । वाज॑म् । अ॒न॒र्वाण॑म् ।
सः । नः॒ । स॒ह॒स्रिणीः॑ । इषः॑ ॥
सः । नः । वृष्टिम् । दिवः । परि । सः । नः । वाजम् । अनर्वाणम् ।
सः । नः । सहस्रिणीः । इषः ॥
sáḥ ǀ naḥ ǀ vṛṣṭím ǀ diváḥ ǀ pári ǀ sáḥ ǀ naḥ ǀ vā́jam ǀ anarvā́ṇam ǀ
sáḥ ǀ naḥ ǀ sahasríṇīḥ ǀ íṣaḥ ǁ
saḥ ǀ naḥ ǀ vṛṣṭim ǀ divaḥ ǀ pari ǀ saḥ ǀ naḥ ǀ vājam ǀ anarvāṇam ǀ
saḥ ǀ naḥ ǀ sahasriṇīḥ ǀ iṣaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.006.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.27.05
- Maṇḍala · Anuvāka · Ṛk
- 02.01.062
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Somahūti Bhārgava
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.