Ṛgveda · Maṇḍala 2 · Sūkta 40

Ṛk 2.40.6

Pūṣan, Soma · Indra, Pūṣan, Soma · Soma, Pūṣan (A) · Aditi (B) · Gṛtsamada Bhārgava Śaunaka

The whole sūkta Link

Saṃhitā

धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु ।
अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

धियम् पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर् दधातु |
अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ||

dhíyam pūṣā́ jinvatu viśvaminvó rayím sómo rayipátirdadhātu ǀ
ávatu devyáditiranarvā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu |
avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ ||

Padapāṭha

धिय॑म् । पू॒षा । जि॒न्व॒तु॒ । वि॒श्व॒म्ऽइ॒न्वः । र॒यिम् । सोमः॑ । र॒यि॒ऽपतिः॑ । द॒धा॒तु॒ ।
अव॑तु । दे॒वी । अदि॑तिः । अ॒न॒र्वा । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

धियम् । पूषा । जिन्वतु । विश्वम्ऽइन्वः । रयिम् । सोमः । रयिऽपतिः । दधातु ।
अवतु । देवी । अदितिः । अनर्वा । बृहत् । वदेम । विदथे । सुऽवीराः ॥

dhíyam ǀ pūṣā́ ǀ jinvatu ǀ viśvam-inváḥ ǀ rayím ǀ sómaḥ ǀ rayi-pátiḥ ǀ dadhātu ǀ
ávatu ǀ devī́ ǀ áditiḥ ǀ anarvā́ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

dhiyam ǀ pūṣā ǀ jinvatu ǀ viśvam-invaḥ ǀ rayim ǀ somaḥ ǀ rayi-patiḥ ǀ dadhātu ǀ
avatu ǀ devī ǀ aditiḥ ǀ anarvā ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
02.040.06
Aṣṭaka · Adhyāya · Varga · Ṛk
2.8.06.06
Maṇḍala · Anuvāka · Ṛk
02.04.082
Devatā देवता
1, 3-5: Pūṣan, Soma; 2: Indra, Pūṣan, Soma; 6: Soma, Pūṣan (A); Aditi (B)
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.40.6

Interpretations

Sāyaṇa

वायोयेतइत्येकविंशत्यृचंनवमंसूक्तंगार्त्समदंगायत्रं अंबितमइतिषष्ठस्य तृचस्य आदितोद्वेअनु ष्टुभौ तृतीयाबृहती वायोयेतेइत्यादिकेद्वेऋचौवायव्यौ शुक्रस्याद्येत्येषैन्द्रवायवी अयं वामित्रावरु णेतिपञ्चानांमित्रावरुणावश्विनाविन्द्रोविश्वेदेवाः सरस्वतीतिक्रमेणदेवताः प्रेतांयज्ञस्येत्यन्त्यस्तृचो ब्राह्मणसूत्रयोर्हविर्धानप्रवर्तनेद्यावापृथिव्यनिविद्धानत्वेनचविनियुक्तत्वात् द्यावापृथिव्योहविर्धान देवत्योवा अग्निंचहव्यवाहनमितिपादोग्निदेवत्योवा तथाचानुक्रान्तं—वायोसैकागायत्रमुक्तादेवताः प्रउगेणाद्येतुतृचेन्त्यैन्द्रवायवीद्यावापृथिव्योन्त्यस्तृचोहाविर्धानोवातृतीयःपादोवाग्नेयोंबितमेनुष्टुभौ बहुतीचेति पृष्ठ्याभिप्लवषडहयोर्द्वितीयेहनि प्रउगेन्त्यतृचवर्जमेतत्सूक्तं वायव्यतृचस्यवायोयेते सहस्रिणइत्याद्येद्वेऋचौ ऎन्द्रवायवतृचस्यश्रुक्रस्याद्येत्येषातृतीया तथाचसूत्रितं—वायोयेतेसहस्रिण इतिद्वेतीव्राः सोमासआगहीत्येकोभादेवादिविस्पृशेतिद्वेशुक्रस्याद्यगवाशिरइत्येकाअयंवांमित्रावरुणे तिपञ्चतृचाइति चातुर्विंशिकेहनि प्रातः सवने मैत्रावरुणशस्त्रे अयंवांमित्रावरुणेतिषळहस्तोत्रिय संज्ञकः चतुर्विंशेहोताजनिष्टेतिखण्डेसूत्रितं—अयंवांमित्रावरुणापुरूरुणाचिद्भ्यस्तीति आभिप्लविके ष्वहस्सु प्रातःसवने मैत्रावरुणशस्त्रे अयमेवतृचः पञ्चदशादिस्तोमनिमित्तमावापनीयः अयंवांमि त्रावरुणाआनोमित्रावरुणेतितृचाइतिसूत्रितत्वात् आद्यामैत्रावरुणग्रहस्यानुवाक्या सूत्रितंच—मैत्रा वरुणस्य अयंवांमित्रावरुणेतिप्रातरनुवाकाश्विनशस्त्रयोर्ग्फ़ायत्रेछन्दसिगोमदूष्वितितृचोविनियुक्तः गोमदूषु नासत्येतितृचाइतिसूत्रितत्वात् अतिरात्रे प्रथमेपर्याये ब्राह्मणाच्छंसिशस्त्रे इन्द्रोअङ्गमह द्भयमितितृचः अतिरात्रेपर्यायाणामितिखण्डेसूत्रितं—इन्द्रोअङ्गमहद्भयमभिन्युषुवाचमिति आग्र यणेवैश्वदेवस्यहविषोविश्वेदेवासइत्यनुवाक्या आग्रयणमितिखण्डेसूत्रितं—इन्द्रोअङ्गमहद्भयमभि न्यूषुवाचमिति आग्रयणेवैश्वदेवस्यहविषोविश्वेदेवासइत्यनुवाक्या आग्रयणमितिखण्डेसूत्रितं— विश्वेदेवासआगतयेकेचज्ममहिनोअहिमायाइति दशरात्रेप्रथमेहनिप्रउगशस्त्रे अंबितमेनदीतमइति सारस्वतः सप्तमस्तृचः चतुर्थेहनीतिखण्डेसूत्रितं—अंबितमेनदीतमइत्यानुष्टुभंप्रउगमिति सूत्रितंच- व्यूढेदशरात्रे प्रथमेछन्दोमेवैश्वदेवशस्त्रे प्रेतांयज्ञस्यशंभुवेतिद्यावापृथिव्यनिविद्धानीयस्तृचः अथ छन्दोमाइतिखण्डेसूत्रितं—प्रेतांयज्ञस्यशंभुवायंदेवायजन्मनइतितृचाइति हविर्धानप्रवर्तनेप्ययंतृचो विनियुक्तः सूत्रितंच—प्रेतांयज्ञस्यशंभुवायुवांयमेइवयतमानेयदैतमिति ।