Ṛk 2.26.4
Saṃhitā
यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ ।
उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षो॒३॒॑ऽंहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥
यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति ब्रह्मणस् पतिः |
उरुष्यतीम् अंहसो रक्षती रिषो ऽंहोश् चिद् अस्मा उरुचक्रिर् अद्भुतः ||
yó asmai havyáirghṛtávadbhirávidhatprá tám prācā́ nayati bráhmaṇaspátiḥ ǀ
uruṣyátīmáṃhaso rákṣatī riṣó’ṃhóścidasmā urucákrirádbhutaḥ ǁ
yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇas patiḥ |
uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ ||
Padapāṭha
यः । अ॒स्मै॒ । ह॒व्यैः । घृ॒तव॑त्ऽभिः । अवि॑धत् । प्र । तम् । प्रा॒चा । न॒य॒ति॒ । ब्रह्म॑णः । पतिः॑ ।
उ॒रु॒ष्यति॑ । ई॒म् । अंह॑सः । रक्ष॑ति । रि॒षः । अं॒होः । चि॒त् । अ॒स्मै॒ । उ॒रु॒ऽचक्रिः॑ । अद्भु॑तः ॥
यः । अस्मै । हव्यैः । घृतवत्ऽभिः । अविधत् । प्र । तम् । प्राचा । नयति । ब्रह्मणः । पतिः ।
उरुष्यति । ईम् । अंहसः । रक्षति । रिषः । अंहोः । चित् । अस्मै । उरुऽचक्रिः । अद्भुतः ॥
yáḥ ǀ asmai ǀ havyáiḥ ǀ ghṛtávat-bhiḥ ǀ ávidhat ǀ prá ǀ tám ǀ prācā́ ǀ nayati ǀ bráhmaṇaḥ ǀ pátiḥ ǀ
uruṣyáti ǀ īm ǀ áṃhasaḥ ǀ rákṣati ǀ riṣáḥ ǀ aṃhóḥ ǀ cit ǀ asmai ǀ uru-cákriḥ ǀ ádbhutaḥ ǁ
yaḥ ǀ asmai ǀ havyaiḥ ǀ ghṛtavat-bhiḥ ǀ avidhat ǀ pra ǀ tam ǀ prācā ǀ nayati ǀ brahmaṇaḥ ǀ patiḥ ǀ
uruṣyati ǀ īm ǀ aṃhasaḥ ǀ rakṣati ǀ riṣaḥ ǀ aṃhoḥ ǀ cit ǀ asmai ǀ uru-cakriḥ ǀ adbhutaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.026.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.05.04
- Maṇḍala · Anuvāka · Ṛk
- 02.03.044
- Devatā देवता
- Brahmaṇaspati
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.