Ṛk 2.38.2
Saṃhitā
विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णिः॒ सिस॑र्ति ।
आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥
विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति |
आपश् चिद् अस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् ||
víśvasya hí śruṣṭáye devá ūrdhváḥ prá bāhávā pṛthúpāṇiḥ sísarti ǀ
ā́paścidasya vratá ā́ nímṛgrā ayám cidvā́to ramate párijman ǁ
viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti |
āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman ||
Padapāṭha
विश्व॑स्य । हि । श्रु॒ष्टये॑ । दे॒वः । ऊ॒र्ध्वः । प्र । बा॒हवा॑ । पृ॒थुऽपा॑णिः । सिस॑र्ति ।
आपः॑ । चि॒त् । अ॒स्य॒ । व्र॒ते । आ । निऽमृ॑ग्राः । अ॒यम् । चि॒त् । वातः॑ । र॒म॒ते॒ । परि॑ऽज्मन् ॥
विश्वस्य । हि । श्रुष्टये । देवः । ऊर्ध्वः । प्र । बाहवा । पृथुऽपाणिः । सिसर्ति ।
आपः । चित् । अस्य । व्रते । आ । निऽमृग्राः । अयम् । चित् । वातः । रमते । परिऽज्मन् ॥
víśvasya ǀ hí ǀ śruṣṭáye ǀ deváḥ ǀ ūrdhváḥ ǀ prá ǀ bāhávā ǀ pṛthú-pāṇiḥ ǀ sísarti ǀ
ā́paḥ ǀ cit ǀ asya ǀ vraté ǀ ā́ ǀ ní-mṛgrāḥ ǀ ayám ǀ cit ǀ vā́taḥ ǀ ramate ǀ pári-jman ǁ
viśvasya ǀ hi ǀ śruṣṭaye ǀ devaḥ ǀ ūrdhvaḥ ǀ pra ǀ bāhavā ǀ pṛthu-pāṇiḥ ǀ sisarti ǀ
āpaḥ ǀ cit ǀ asya ǀ vrate ǀ ā ǀ ni-mṛgrāḥ ǀ ayam ǀ cit ǀ vātaḥ ǀ ramate ǀ pari-jman ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.038.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.02.02
- Maṇḍala · Anuvāka · Ṛk
- 02.04.059
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.