Ṛk 2.38.8
Saṃhitā
या॒द्रा॒ध्यं१॒॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः ।
विश्वो॑ मार्तां॒डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याकः॑ ॥
याद्राध्यं वरुणो योनिम् अप्यम् अनिशितं निमिषि जर्भुराणः |
विश्वो मार्ताण्डो व्रजम् आ पशुर् गात् स्थशो जन्मानि सविता व्य् आकः ||
yādrādhyám váruṇo yónimápyamániśitam nimíṣi járbhurāṇaḥ ǀ
víśvo mārtāṇḍó vrajámā́ paśúrgātsthaśó jánmāni savitā́ vyā́kaḥ ǁ
yādrādhyaṃ varuṇo yonim apyam aniśitaṃ nimiṣi jarbhurāṇaḥ |
viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ ||
Padapāṭha
या॒त्ऽरा॒ध्य॑म् । वरु॑णः । योनि॑म् । अप्य॑म् । अनि॑ऽशितम् । नि॒ऽमिषि॑ । जर्भु॑राणः ।
विश्वः॑ । मा॒र्ता॒ण्डः । व्र॒जम् । आ । प॒शुः । गा॒त् । स्थ॒ऽशः । जन्मा॑नि । स॒वि॒ता । वि । आ । अ॒क॒रित्य॑कः ॥
यात्ऽराध्यम् । वरुणः । योनिम् । अप्यम् । अनिऽशितम् । निऽमिषि । जर्भुराणः ।
विश्वः । मार्ताण्डः । व्रजम् । आ । पशुः । गात् । स्थऽशः । जन्मानि । सविता । वि । आ । अकरित्यकः ॥
yāt-rādhyám ǀ váruṇaḥ ǀ yónim ǀ ápyam ǀ áni-śitam ǀ ni-míṣi ǀ járbhurāṇaḥ ǀ
víśvaḥ ǀ mārtāṇḍáḥ ǀ vrajám ǀ ā́ ǀ paśúḥ ǀ gāt ǀ stha-śáḥ ǀ jánmāni ǀ savitā́ ǀ ví ǀ ā́ ǀ akarítyakaḥ ǁ
yāt-rādhyam ǀ varuṇaḥ ǀ yonim ǀ apyam ǀ ani-śitam ǀ ni-miṣi ǀ jarbhurāṇaḥ ǀ
viśvaḥ ǀ mārtāṇḍaḥ ǀ vrajam ǀ ā ǀ paśuḥ ǀ gāt ǀ stha-śaḥ ǀ janmāni ǀ savitā ǀ vi ǀ ā ǀ akarityakaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.038.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.03.03
- Maṇḍala · Anuvāka · Ṛk
- 02.04.065
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.