Ṛk 2.38.1
Saṃhitā
उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् ।
नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥
उद् उ ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निर् अस्थात् |
नूनं देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रं स्वस्तौ ||
údu ṣyá deváḥ savitā́ savā́ya śaśvattamám tádapā váhnirasthāt ǀ
nūnám devébhyo ví hí dhā́ti rátnamáthā́bhajadvītíhotram svastáu ǁ
ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt |
nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau ||
Padapāṭha
उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । स॒वाय॑ । श॒श्व॒त्ऽत॒मम् । तत्ऽअ॑पाः । वह्निः॑ । अ॒स्था॒त् ।
नू॒नम् । दे॒वेभ्यः॑ । वि । हि । धाति॑ । रत्न॑म् । अथ॑ । आ । अ॒भ॒ज॒त् । वी॒तिऽहो॑त्रम् । स्व॒स्तौ ॥
उत् । ऊं इति । स्यः । देवः । सविता । सवाय । शश्वत्ऽतमम् । तत्ऽअपाः । वह्निः । अस्थात् ।
नूनम् । देवेभ्यः । वि । हि । धाति । रत्नम् । अथ । आ । अभजत् । वीतिऽहोत्रम् । स्वस्तौ ॥
út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ savā́ya ǀ śaśvat-tamám ǀ tát-apāḥ ǀ váhniḥ ǀ asthāt ǀ
nūnám ǀ devébhyaḥ ǀ ví ǀ hí ǀ dhā́ti ǀ rátnam ǀ átha ǀ ā́ ǀ abhajat ǀ vītí-hotram ǀ svastáu ǁ
ut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ savāya ǀ śaśvat-tamam ǀ tat-apāḥ ǀ vahniḥ ǀ asthāt ǀ
nūnam ǀ devebhyaḥ ǀ vi ǀ hi ǀ dhāti ǀ ratnam ǀ atha ǀ ā ǀ abhajat ǀ vīti-hotram ǀ svastau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.038.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.02.01
- Maṇḍala · Anuvāka · Ṛk
- 02.04.058
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.