Ṛk 2.35.10
Saṃhitā
हिर॑ण्यरूपः॒ स हिर॑ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः ।
हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥
हिरण्यरूपः स हिरण्यसंदृग् अपां नपात् सेद् उ हिरण्यवर्णः |
हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै ||
híraṇyarūpaḥ sá híraṇyasaṃdṛgapā́m nápātsédu híraṇyavarṇaḥ ǀ
hiraṇyáyātpári yónerniṣádyā hiraṇyadā́ dadatyánnamasmai ǁ
hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ |
hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai ||
Padapāṭha
हिर॑ण्यऽरूपः । सः । हिर॑ण्यऽसन्दृक् । अ॒पाम् । नपा॑त् । सः । इत् । ऊं॒ इति॑ । हिर॑ण्यऽवर्णः ।
हि॒र॒ण्यया॑त् । परि॑ । योनेः॑ । नि॒ऽसद्य॑ । हि॒र॒ण्य॒ऽदाः । द॒द॒ति॒ । अन्न॑म् । अ॒स्मै॒ ॥
हिरण्यऽरूपः । सः । हिरण्यऽसन्दृक् । अपाम् । नपात् । सः । इत् । ऊं इति । हिरण्यऽवर्णः ।
हिरण्ययात् । परि । योनेः । निऽसद्य । हिरण्यऽदाः । ददति । अन्नम् । अस्मै ॥
híraṇya-rūpaḥ ǀ sáḥ ǀ híraṇya-sandṛk ǀ apā́m ǀ nápāt ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ híraṇya-varṇaḥ ǀ
hiraṇyáyāt ǀ pári ǀ yóneḥ ǀ ni-sádya ǀ hiraṇya-dā́ḥ ǀ dadati ǀ ánnam ǀ asmai ǁ
hiraṇya-rūpaḥ ǀ saḥ ǀ hiraṇya-sandṛk ǀ apām ǀ napāt ǀ saḥ ǀ it ǀ ūṃ iti ǀ hiraṇya-varṇaḥ ǀ
hiraṇyayāt ǀ pari ǀ yoneḥ ǀ ni-sadya ǀ hiraṇya-dāḥ ǀ dadati ǀ annam ǀ asmai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.035.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.23.05
- Maṇḍala · Anuvāka · Ṛk
- 02.04.040
- Devatā देवता
- Apām Napād
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.