Ṛk 2.35.9
Saṃhitā
अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः ।
तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वहं॑ती॒र्हिर॑ण्यवर्णाः॒ परि॑ यंति य॒ह्वीः ॥
अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः |
तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः ||
apā́m nápādā́ hyásthādupástham jihmā́nāmūrdhvó vidyútam vásānaḥ ǀ
tásya jyéṣṭham mahimā́nam váhantīrhíraṇyavarṇāḥ pári yanti yahvī́ḥ ǁ
apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ |
tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ ||
Padapāṭha
अ॒पाम् । नपा॑त् । आ । हि । अस्था॑त् । उ॒पऽस्थ॑म् । जि॒ह्माना॑म् । ऊ॒र्ध्वः । वि॒ऽद्युत॑म् । वसा॑नः ।
तस्य॑ । ज्येष्ठ॑म् । म॒हि॒मान॑म् । वह॑न्तीः । हिर॑ण्यऽवर्णाः । परि॑ । य॒न्ति॒ । य॒ह्वीः ॥
अपाम् । नपात् । आ । हि । अस्थात् । उपऽस्थम् । जिह्मानाम् । ऊर्ध्वः । विऽद्युतम् । वसानः ।
तस्य । ज्येष्ठम् । महिमानम् । वहन्तीः । हिरण्यऽवर्णाः । परि । यन्ति । यह्वीः ॥
apā́m ǀ nápāt ǀ ā́ ǀ hí ǀ ásthāt ǀ upá-stham ǀ jihmā́nām ǀ ūrdhváḥ ǀ vi-dyútam ǀ vásānaḥ ǀ
tásya ǀ jyéṣṭham ǀ mahimā́nam ǀ váhantīḥ ǀ híraṇya-varṇāḥ ǀ pári ǀ yanti ǀ yahvī́ḥ ǁ
apām ǀ napāt ǀ ā ǀ hi ǀ asthāt ǀ upa-stham ǀ jihmānām ǀ ūrdhvaḥ ǀ vi-dyutam ǀ vasānaḥ ǀ
tasya ǀ jyeṣṭham ǀ mahimānam ǀ vahantīḥ ǀ hiraṇya-varṇāḥ ǀ pari ǀ yanti ǀ yahvīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.035.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.23.04
- Maṇḍala · Anuvāka · Ṛk
- 02.04.039
- Devatā देवता
- Apām Napād
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.