Ṛk 2.18.2
Saṃhitā
सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता॑ ।
अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनंत॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा॑ ॥
सास्मा अरम् प्रथमं स द्वितीयम् उतो तृतीयम् मनुषः स होता |
अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ||
sā́smā áram prathamám sá dvitī́yamutó tṛtī́yam mánuṣaḥ sá hótā ǀ
anyásyā gárbhamanyá ū jananta só anyébhiḥ sacate jényo vṛ́ṣā ǁ
sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā |
anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā ||
Padapāṭha
सः । अ॒स्मै॒ । अर॑म् । प्र॒थ॒मम् । सः । द्वि॒तीय॑म् । उ॒तो इति॑ । तृ॒तीय॑म् । मनु॑षः । सः । होता॑ ।
अ॒न्यस्याः॑ । गर्भ॑म् । अ॒न्ये । ऊं॒ इति॑ । ज॒न॒न्त॒ । सः । अ॒न्येभिः॑ । स॒च॒ते॒ । जेन्यः॑ । वृषा॑ ॥
सः । अस्मै । अरम् । प्रथमम् । सः । द्वितीयम् । उतो इति । तृतीयम् । मनुषः । सः । होता ।
अन्यस्याः । गर्भम् । अन्ये । ऊं इति । जनन्त । सः । अन्येभिः । सचते । जेन्यः । वृषा ॥
sáḥ ǀ asmai ǀ áram ǀ prathamám ǀ sáḥ ǀ dvitī́yam ǀ utó íti ǀ tṛtī́yam ǀ mánuṣaḥ ǀ sáḥ ǀ hótā ǀ
anyásyāḥ ǀ gárbham ǀ anyé ǀ ūṃ íti ǀ jananta ǀ sáḥ ǀ anyébhiḥ ǀ sacate ǀ jényaḥ ǀ vṛ́ṣā ǁ
saḥ ǀ asmai ǀ aram ǀ prathamam ǀ saḥ ǀ dvitīyam ǀ uto iti ǀ tṛtīyam ǀ manuṣaḥ ǀ saḥ ǀ hotā ǀ
anyasyāḥ ǀ garbham ǀ anye ǀ ūṃ iti ǀ jananta ǀ saḥ ǀ anyebhiḥ ǀ sacate ǀ jenyaḥ ǀ vṛṣā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.018.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.21.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.070
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.