Ṛk 2.13.4
Saṃhitā
प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भजं॑त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भवं॑तमाय॒ते ।
असि॑न्वं॒दंष्ट्रैः॑ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥
प्रजाभ्यः पुष्टिं विभजन्त आसते रयिम् इव पृष्ठम् प्रभवन्तम् आयते |
असिन्वन् दंष्ट्रैः पितुर् अत्ति भोजनं यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ||
prajā́bhyaḥ puṣṭím vibhájanta āsate rayímiva pṛṣṭhám prabhávantamāyaté ǀ
ásinvandáṃṣṭraiḥ pitúratti bhójanam yástā́kṛṇoḥ prathamám sā́syukthyáḥ ǁ
prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate |
asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||
Padapāṭha
प्र॒ऽजाभ्यः॑ । पु॒ष्टिम् । वि॒ऽभज॑न्तः । आ॒स॒ते॒ । र॒यिम्ऽइ॑व । पृ॒ष्ठम् । प्र॒ऽभव॑न्तम् । आ॒ऽय॒ते ।
असि॑न्वन् । दंष्ट्रैः॑ । पि॒तुः । अ॒त्ति॒ । भोज॑नम् । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
प्रऽजाभ्यः । पुष्टिम् । विऽभजन्तः । आसते । रयिम्ऽइव । पृष्ठम् । प्रऽभवन्तम् । आऽयते ।
असिन्वन् । दंष्ट्रैः । पितुः । अत्ति । भोजनम् । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥
pra-jā́bhyaḥ ǀ puṣṭím ǀ vi-bhájantaḥ ǀ āsate ǀ rayím-iva ǀ pṛṣṭhám ǀ pra-bhávantam ǀ ā-yaté ǀ
ásinvan ǀ dáṃṣṭraiḥ ǀ pitúḥ ǀ atti ǀ bhójanam ǀ yáḥ ǀ tā́ ǀ ákṛṇoḥ ǀ prathamám ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ
pra-jābhyaḥ ǀ puṣṭim ǀ vi-bhajantaḥ ǀ āsate ǀ rayim-iva ǀ pṛṣṭham ǀ pra-bhavantam ǀ ā-yate ǀ
asinvan ǀ daṃṣṭraiḥ ǀ pituḥ ǀ atti ǀ bhojanam ǀ yaḥ ǀ tā ǀ akṛṇoḥ ǀ prathamam ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.013.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.10.04
- Maṇḍala · Anuvāka · Ṛk
- 02.02.019
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.