Ṛk 2.15.8
Saṃhitā
भि॒नद्व॒लमंगि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् ।
रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् |
रिणग् रोधांसि कृत्रिमाण्य् एषां सोमस्य ता मद इन्द्रश् चकार ||
bhinádvalámáṅgirobhirgṛṇānó ví párvatasya dṛṃhitā́nyairat ǀ
riṇágródhāṃsi kṛtrímāṇyeṣām sómasya tā́ máda índraścakāra ǁ
bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat |
riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra ||
Padapāṭha
भि॒नत् । व॒लम् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । वि । पर्व॑तस्य । दृं॒हि॒तानि॑ । ऐ॒र॒त् ।
रि॒णक् । रोधां॑सि । कृ॒त्रिमा॑णि । ए॒षा॒म् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥
भिनत् । वलम् । अङ्गिरःऽभिः । गृणानः । वि । पर्वतस्य । दृंहितानि । ऐरत् ।
रिणक् । रोधांसि । कृत्रिमाणि । एषाम् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥
bhinát ǀ valám ǀ áṅgiraḥ-bhiḥ ǀ gṛṇānáḥ ǀ ví ǀ párvatasya ǀ dṛṃhitā́ni ǀ airat ǀ
riṇák ǀ ródhāṃsi ǀ kṛtrímāṇi ǀ eṣām ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ
bhinat ǀ valam ǀ aṅgiraḥ-bhiḥ ǀ gṛṇānaḥ ǀ vi ǀ parvatasya ǀ dṛṃhitāni ǀ airat ǀ
riṇak ǀ rodhāṃsi ǀ kṛtrimāṇi ǀ eṣām ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.015.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.16.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.048
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.