Ṛk 2.9.4
Saṃhitā
अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑यांछ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ ।
त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥
अग्ने यजस्व हविषा यजीयाञ् छ्रुष्टी देष्णम् अभि गृणीहि राधः |
त्वं ह्य् असि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ||
ágne yájasva havíṣā yájīyāñchruṣṭī́ deṣṇámabhí gṛṇīhi rā́dhaḥ ǀ
tvám hyási rayipátī rayīṇā́m tvám śukrásya vácaso manótā ǁ
agne yajasva haviṣā yajīyāñ chruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ |
tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā ||
Padapāṭha
अग्ने॑ । यज॑स्व । ह॒विषा॑ । यजी॑यान् । श्रु॒ष्टी । दे॒ष्णम् । अ॒भि । गृ॒णी॒हि॒ । राधः॑ ।
त्वम् । हि । असि॑ । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य॑ । वच॑सः । म॒नोता॑ ॥
अग्ने । यजस्व । हविषा । यजीयान् । श्रुष्टी । देष्णम् । अभि । गृणीहि । राधः ।
त्वम् । हि । असि । रयिऽपतिः । रयीणाम् । त्वम् । शुक्रस्य । वचसः । मनोता ॥
ágne ǀ yájasva ǀ havíṣā ǀ yájīyān ǀ śruṣṭī́ ǀ deṣṇám ǀ abhí ǀ gṛṇīhi ǀ rā́dhaḥ ǀ
tvám ǀ hí ǀ ási ǀ rayi-pátiḥ ǀ rayīṇā́m ǀ tvám ǀ śukrásya ǀ vácasaḥ ǀ manótā ǁ
agne ǀ yajasva ǀ haviṣā ǀ yajīyān ǀ śruṣṭī ǀ deṣṇam ǀ abhi ǀ gṛṇīhi ǀ rādhaḥ ǀ
tvam ǀ hi ǀ asi ǀ rayi-patiḥ ǀ rayīṇām ǀ tvam ǀ śukrasya ǀ vacasaḥ ǀ manotā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.009.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.01.04
- Maṇḍala · Anuvāka · Ṛk
- 02.01.081
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.