Ṛk 2.4.5
Saṃhitā
आ यन्मे॒ अभ्वं॑ व॒नदः॒ पनं॑तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्णं॑ ।
स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥
आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् |
स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुर् आ युवा भूत् ||
ā́ yánme ábhvam vanádaḥ pánantośígbhyo nā́mimīta várṇam ǀ
sá citréṇa cikite ráṃsu bhāsā́ jujurvā́m̐ yó múhurā́ yúvā bhū́t ǁ
ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam |
sa citreṇa cikite raṃsu bhāsā jujurvāṃ yo muhur ā yuvā bhūt ||
Padapāṭha
आ । यत् । मे॒ । अभ्व॑म् । व॒नदः॑ । पन॑न्त । उ॒शिक्ऽभ्यः॑ । न । अ॒मि॒मी॒त॒ । वर्ण॑म् ।
सः । चि॒त्रेण॑ । चि॒कि॒ते॒ । रम्ऽसु॑ । भा॒सा । जु॒जु॒र्वान् । यः । मुहुः॑ । आ । युवा॑ । भूत् ॥
आ । यत् । मे । अभ्वम् । वनदः । पनन्त । उशिक्ऽभ्यः । न । अमिमीत । वर्णम् ।
सः । चित्रेण । चिकिते । रम्ऽसु । भासा । जुजुर्वान् । यः । मुहुः । आ । युवा । भूत् ॥
ā́ ǀ yát ǀ me ǀ ábhvam ǀ vanádaḥ ǀ pánanta ǀ uśík-bhyaḥ ǀ ná ǀ amimīta ǀ várṇam ǀ
sáḥ ǀ citréṇa ǀ cikite ǀ rám-su ǀ bhāsā́ ǀ jujurvā́n ǀ yáḥ ǀ múhuḥ ǀ ā́ ǀ yúvā ǀ bhū́t ǁ
ā ǀ yat ǀ me ǀ abhvam ǀ vanadaḥ ǀ pananta ǀ uśik-bhyaḥ ǀ na ǀ amimīta ǀ varṇam ǀ
saḥ ǀ citreṇa ǀ cikite ǀ ram-su ǀ bhāsā ǀ jujurvān ǀ yaḥ ǀ muhuḥ ǀ ā ǀ yuvā ǀ bhūt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.004.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.24.05
- Maṇḍala · Anuvāka · Ṛk
- 02.01.045
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Somahūti Bhārgava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.