Ṛk 2.33.11
Saṃhitā
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रं ।
मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पंतु॒ सेनाः॑ ॥
स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् |
मृऌआ जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः ||
stuhí śrutám gartasádam yúvānam mṛgám ná bhīmámupahatnúmugrám ǀ
mṛḷā́ jaritré rudra stávāno’nyám te asmánní vapantu sénāḥ ǁ
stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram |
mṛḷā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ ||
Padapāṭha
स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् ।
मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥
स्तुहि । श्रुतम् । गर्तऽसदम् । युवानम् । मृगम् । न । भीमम् । उपऽहत्नुम् । उग्रम् ।
मृळ । जरित्रे । रुद्र । स्तवानः । अन्यम् । ते । अस्मत् । नि । वपन्तु । सेनाः ॥
stuhí ǀ śrutám ǀ garta-sádam ǀ yúvānam ǀ mṛgám ǀ ná ǀ bhīmám ǀ upa-hatnúm ǀ ugrám ǀ
mṛḷá ǀ jaritré ǀ rudra ǀ stávānaḥ ǀ anyám ǀ te ǀ asmát ǀ ní ǀ vapantu ǀ sénāḥ ǁ
stuhi ǀ śrutam ǀ garta-sadam ǀ yuvānam ǀ mṛgam ǀ na ǀ bhīmam ǀ upa-hatnum ǀ ugram ǀ
mṛḷa ǀ jaritre ǀ rudra ǀ stavānaḥ ǀ anyam ǀ te ǀ asmat ǀ ni ǀ vapantu ǀ senāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.033.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.18.01
- Maṇḍala · Anuvāka · Ṛk
- 02.04.011
- Devatā देवता
- Rudra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.