Ṛk 2.33.2
Saṃhitā
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।
व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥
त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः |
व्य् अस्मद् द्वेषो वितरं व्य् अंहो व्य् अमीवाश् चातयस्वा विषूचीः ||
tvā́dattebhī rudra śáṃtamebhiḥ śatám hímā aśīya bheṣajébhiḥ ǀ
vyásmáddvéṣo vitarám vyáṃho vyámīvāścātayasvā víṣūcīḥ ǁ
tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ |
vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ ||
Padapāṭha
त्वाऽद॑त्तेभिः । रु॒द्र॒ । शम्ऽत॑मेभिः । श॒तम् । हिमाः॑ । अ॒शी॒य॒ । भे॒ष॒जेभिः॑ ।
वि । अ॒स्मत् । द्वेषः॑ । वि॒ऽत॒रम् । वि । अंहः॑ । वि । अमी॑वाः । चा॒त॒य॒स्व॒ । विषू॑चीः ॥
त्वाऽदत्तेभिः । रुद्र । शम्ऽतमेभिः । शतम् । हिमाः । अशीय । भेषजेभिः ।
वि । अस्मत् । द्वेषः । विऽतरम् । वि । अंहः । वि । अमीवाः । चातयस्व । विषूचीः ॥
tvā́-dattebhiḥ ǀ rudra ǀ śám-tamebhiḥ ǀ śatám ǀ hímāḥ ǀ aśīya ǀ bheṣajébhiḥ ǀ
ví ǀ asmát ǀ dvéṣaḥ ǀ vi-tarám ǀ ví ǀ áṃhaḥ ǀ ví ǀ ámīvāḥ ǀ cātayasva ǀ víṣūcīḥ ǁ
tvā-dattebhiḥ ǀ rudra ǀ śam-tamebhiḥ ǀ śatam ǀ himāḥ ǀ aśīya ǀ bheṣajebhiḥ ǀ
vi ǀ asmat ǀ dveṣaḥ ǀ vi-taram ǀ vi ǀ aṃhaḥ ǀ vi ǀ amīvāḥ ǀ cātayasva ǀ viṣūcīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.033.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.16.02
- Maṇḍala · Anuvāka · Ṛk
- 02.04.002
- Devatā देवता
- Rudra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.