Ṛk 2.19.3
Saṃhitā
स माहि॑न॒ इंद्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रं ।
अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत् ॥
स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाच्छा समुद्रम् |
अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् ||
sá mā́hina índro árṇo apā́m práirayadahihā́cchā samudrám ǀ
ájanayatsū́ryam vidádgā́ aktúnā́hnām vayúnāni sādhat ǁ
sa māhina indro arṇo apām prairayad ahihācchā samudram |
ajanayat sūryaṃ vidad gā aktunāhnāṃ vayunāni sādhat ||
Padapāṭha
सः । माहि॑नः । इन्द्रः॑ । अर्णः॑ । अ॒पाम् । प्र । ऐ॒र॒य॒त् । अ॒हि॒ऽहा । अच्छ॑ । स॒मु॒द्रम् ।
अज॑नयत् । सूर्य॑म् । वि॒दत् । गाः । अ॒क्तुना॑ । अह्ना॑म् । व॒युना॑नि । सा॒ध॒त् ॥
सः । माहिनः । इन्द्रः । अर्णः । अपाम् । प्र । ऐरयत् । अहिऽहा । अच्छ । समुद्रम् ।
अजनयत् । सूर्यम् । विदत् । गाः । अक्तुना । अह्नाम् । वयुनानि । साधत् ॥
sáḥ ǀ mā́hinaḥ ǀ índraḥ ǀ árṇaḥ ǀ apā́m ǀ prá ǀ airayat ǀ ahi-hā́ ǀ áccha ǀ samudrám ǀ
ájanayat ǀ sū́ryam ǀ vidát ǀ gā́ḥ ǀ aktúnā ǀ áhnām ǀ vayúnāni ǀ sādhat ǁ
saḥ ǀ māhinaḥ ǀ indraḥ ǀ arṇaḥ ǀ apām ǀ pra ǀ airayat ǀ ahi-hā ǀ accha ǀ samudram ǀ
ajanayat ǀ sūryam ǀ vidat ǀ gāḥ ǀ aktunā ǀ ahnām ǀ vayunāni ǀ sādhat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.019.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.23.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.080
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.