Ṛk 2.19.5
Saṃhitā
स सु॑न्व॒त इंद्रः॒ सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान् ।
आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ॥
स सुन्वत इन्द्रः सूर्यम् आ देवो रिणङ् मर्त्याय स्तवान् |
आ यद् रयिं गुहदवद्यम् अस्मै भरद् अंशं नैतशो दशस्यन् ||
sá sunvatá índraḥ sū́ryamā́ devó riṇaṅmártyāya stavā́n ǀ
ā́ yádrayím guhádavadyamasmai bháradáṃśam náitaśo daśasyán ǁ
sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān |
ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan ||
Padapāṭha
सः । सु॒न्व॒ते । इन्द्रः॑ । सूर्य॑म् । आ । दे॒वः । रि॒ण॒क् । मर्त्या॑य । स्त॒वान् ।
आ । यत् । र॒यिम् । गु॒हत्ऽअ॑वद्यम् । अ॒स्मै॒ । भर॑त् । अंश॑म् । न । एत॑शः । द॒श॒स्यन् ॥
सः । सुन्वते । इन्द्रः । सूर्यम् । आ । देवः । रिणक् । मर्त्याय । स्तवान् ।
आ । यत् । रयिम् । गुहत्ऽअवद्यम् । अस्मै । भरत् । अंशम् । न । एतशः । दशस्यन् ॥
sáḥ ǀ sunvaté ǀ índraḥ ǀ sū́ryam ǀ ā́ ǀ deváḥ ǀ riṇak ǀ mártyāya ǀ stavā́n ǀ
ā́ ǀ yát ǀ rayím ǀ guhát-avadyam ǀ asmai ǀ bhárat ǀ áṃśam ǀ ná ǀ étaśaḥ ǀ daśasyán ǁ
saḥ ǀ sunvate ǀ indraḥ ǀ sūryam ǀ ā ǀ devaḥ ǀ riṇak ǀ martyāya ǀ stavān ǀ
ā ǀ yat ǀ rayim ǀ guhat-avadyam ǀ asmai ǀ bharat ǀ aṃśam ǀ na ǀ etaśaḥ ǀ daśasyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.019.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.23.05
- Maṇḍala · Anuvāka · Ṛk
- 02.02.082
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.