Ṛk 2.23.5
Saṃhitā
न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विनः॑ ।
विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥
न तम् अंहो न दुरितं कुतश् चन नारातयस् तितिरुर् न द्वयाविनः |
विश्वा इद् अस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते ||
ná támáṃho ná duritám kútaścaná nā́rātayastitirurná dvayāvínaḥ ǀ
víśvā ídasmāddhvaráso ví bādhase yám sugopā́ rákṣasi brahmaṇaspate ǁ
na tam aṃho na duritaṃ kutaś cana nārātayas titirur na dvayāvinaḥ |
viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇas pate ||
Padapāṭha
न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । कुतः॑ । च॒न । न । अरा॑तयः । ति॒ति॒रुः॒ । न । द्व॒या॒विनः॑ ।
विश्वाः॑ । इत् । अ॒स्मा॒त् । ध्व॒रसः॑ । वि । बा॒ध॒से॒ । यम् । सु॒ऽगो॒पाः । रक्ष॑सि । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥
न । तम् । अंहः । न । दुःऽइतम् । कुतः । चन । न । अरातयः । तितिरुः । न । द्वयाविनः ।
विश्वाः । इत् । अस्मात् । ध्वरसः । वि । बाधसे । यम् । सुऽगोपाः । रक्षसि । ब्रह्मणः । पते ॥
ná ǀ tám ǀ áṃhaḥ ǀ ná ǀ duḥ-itám ǀ kútaḥ ǀ caná ǀ ná ǀ árātayaḥ ǀ titiruḥ ǀ ná ǀ dvayāvínaḥ ǀ
víśvāḥ ǀ ít ǀ asmāt ǀ dhvarásaḥ ǀ ví ǀ bādhase ǀ yám ǀ su-gopā́ḥ ǀ rákṣasi ǀ brahmaṇaḥ ǀ pate ǁ
na ǀ tam ǀ aṃhaḥ ǀ na ǀ duḥ-itam ǀ kutaḥ ǀ cana ǀ na ǀ arātayaḥ ǀ titiruḥ ǀ na ǀ dvayāvinaḥ ǀ
viśvāḥ ǀ it ǀ asmāt ǀ dhvarasaḥ ǀ vi ǀ bādhase ǀ yam ǀ su-gopāḥ ǀ rakṣasi ǀ brahmaṇaḥ ǀ pate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.023.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.29.05
- Maṇḍala · Anuvāka · Ṛk
- 02.03.005
- Devatā देवता
- 1, 5, 9, 11, 17, 19: Brahmaṇaspati; 2-4, 6-8, 10, 12-16, 18: Bṛhaspati
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.