Ṛk 2.21.6
Saṃhitā
इंद्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे ।
पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्नां॑ ॥
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वम् अस्मे |
पोषं रयीणाम् अरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वम् अह्नाम् ||
índra śréṣṭhāni dráviṇāni dhehi cíttim dákṣasya subhagatvámasmé ǀ
póṣam rayīṇā́máriṣṭim tanū́nām svādmā́nam vācáḥ sudinatvámáhnām ǁ
indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme |
poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām ||
Padapāṭha
इन्द्र॑ । श्रेष्ठा॑नि । द्रवि॑णानि । धे॒हि॒ । चित्ति॑म् । दक्ष॑स्य । सु॒ऽभ॒ग॒त्वम् । अ॒स्मे इति॑ ।
पोष॑म् । र॒यी॒णाम् । अरि॑ष्टिम् । त॒नूना॑म् । स्वा॒द्मान॑म् । वा॒चः । सु॒दि॒न॒ऽत्वम् । अह्ना॑म् ॥
इन्द्र । श्रेष्ठानि । द्रविणानि । धेहि । चित्तिम् । दक्षस्य । सुऽभगत्वम् । अस्मे इति ।
पोषम् । रयीणाम् । अरिष्टिम् । तनूनाम् । स्वाद्मानम् । वाचः । सुदिनऽत्वम् । अह्नाम् ॥
índra ǀ śréṣṭhāni ǀ dráviṇāni ǀ dhehi ǀ cíttim ǀ dákṣasya ǀ su-bhagatvám ǀ asmé íti ǀ
póṣam ǀ rayīṇā́m ǀ áriṣṭim ǀ tanū́nām ǀ svādmā́nam ǀ vācáḥ ǀ sudina-tvám ǀ áhnām ǁ
indra ǀ śreṣṭhāni ǀ draviṇāni ǀ dhehi ǀ cittim ǀ dakṣasya ǀ su-bhagatvam ǀ asme iti ǀ
poṣam ǀ rayīṇām ǀ ariṣṭim ǀ tanūnām ǀ svādmānam ǀ vācaḥ ǀ sudina-tvam ǀ ahnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.021.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.27.06
- Maṇḍala · Anuvāka · Ṛk
- 02.02.101
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.