Ṛk 2.22.1
Saṃhitā
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् ।
स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिंद्रं॑ स॒त्य इंदुः॑ ॥
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् |
स ईम् ममाद महि कर्म कर्तवे महाम् उरुं सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ||
tríkadrukeṣu mahiṣó yávāśiram tuviśúṣmastṛpátsómamapibadvíṣṇunā sutám yáthā́vaśat ǀ
sá īm mamāda máhi kárma kártave mahā́murúm sáinam saścaddevó devám satyámíndram satyá índuḥ ǁ
trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat |
sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||
Padapāṭha
त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्मः॑ । तृ॒पत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ।
सः । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥
त्रिऽकद्रुकेषु । महिषः । यवऽआशिरम् । तुविऽशुष्मः । तृपत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथा । अवशत् ।
सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥
trí-kadrukeṣu ǀ mahiṣáḥ ǀ yáva-āśiram ǀ tuvi-śúṣmaḥ ǀ tṛpát ǀ sómam ǀ apibat ǀ víṣṇunā ǀ sutám ǀ yáthā ǀ ávaśat ǀ
sáḥ ǀ īm ǀ mamāda ǀ máhi ǀ kárma ǀ kártave ǀ mahā́m ǀ urúm ǀ sáḥ ǀ enam ǀ saścat ǀ deváḥ ǀ devám ǀ satyám ǀ índram ǀ satyáḥ ǀ índuḥ ǁ
tri-kadrukeṣu ǀ mahiṣaḥ ǀ yava-āśiram ǀ tuvi-śuṣmaḥ ǀ tṛpat ǀ somam ǀ apibat ǀ viṣṇunā ǀ sutam ǀ yathā ǀ avaśat ǀ
saḥ ǀ īm ǀ mamāda ǀ mahi ǀ karma ǀ kartave ǀ mahām ǀ urum ǀ saḥ ǀ enam ǀ saścat ǀ devaḥ ǀ devam ǀ satyam ǀ indram ǀ satyaḥ ǀ induḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.022.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.28.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.102
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Atiśakvarī, Aṣṭi, Atiśakvarī Or Aṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.