Ṛgveda · Maṇḍala 2 · Sūkta 22

Ṛk 2.22.4

Indra · Gṛtsamada Bhārgava Śaunaka

The whole sūkta Link

Saṃhitā

तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इंद्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तं ।
यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः ।
भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिषं॑ ॥

तव त्यन् नर्यं नृतो ऽप इन्द्र प्रथमम् पूर्व्यं दिवि प्रवाच्यं कृतम् |
यद् देवस्य शवसा प्रारिणा असुं रिणन्न् अपः |
भुवद् विश्वम् अभ्य् आदेवम् ओजसा विदाद् ऊर्जं शतक्रतुर् विदाद् इषम् ||

táva tyánnáryam nṛtó’pa indra prathamám pūrvyám diví pravā́cyam kṛtám ǀ
yáddevásya śávasā prā́riṇā ásum riṇánnapáḥ ǀ
bhúvadvíśvamabhyā́devamójasā vidā́dū́rjam śatákraturvidā́díṣam ǁ

tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam |
yad devasya śavasā prāriṇā asuṃ riṇann apaḥ |
bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam ||

Padapāṭha

तव॑ । त्यत् । नर्य॑म् । नृ॒तो॒ इति॑ । अपः॑ । इ॒न्द्र॒ । प्र॒थ॒मम् । पू॒र्व्यम् । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तम् ।
यत् । दे॒वस्य॑ । शव॑सा । प्र । अरि॑णाः । असु॑म् । रि॒णन् । अ॒पः ।
भुव॑त् । विश्व॑म् । अ॒भि । अदे॑वम् । ओज॑सा । वि॒दात् । ऊर्ज॑म् । श॒तऽक्र॑तुः । वि॒दात् । इष॑म् ॥

तव । त्यत् । नर्यम् । नृतो इति । अपः । इन्द्र । प्रथमम् । पूर्व्यम् । दिवि । प्रऽवाच्यम् । कृतम् ।
यत् । देवस्य । शवसा । प्र । अरिणाः । असुम् । रिणन् । अपः ।
भुवत् । विश्वम् । अभि । अदेवम् । ओजसा । विदात् । ऊर्जम् । शतऽक्रतुः । विदात् । इषम् ॥

táva ǀ tyát ǀ náryam ǀ nṛto íti ǀ ápaḥ ǀ indra ǀ prathamám ǀ pūrvyám ǀ diví ǀ pra-vā́cyam ǀ kṛtám ǀ
yát ǀ devásya ǀ śávasā ǀ prá ǀ áriṇāḥ ǀ ásum ǀ riṇán ǀ apáḥ ǀ
bhúvat ǀ víśvam ǀ abhí ǀ ádevam ǀ ójasā ǀ vidā́t ǀ ū́rjam ǀ śatá-kratuḥ ǀ vidā́t ǀ íṣam ǁ

tava ǀ tyat ǀ naryam ǀ nṛto iti ǀ apaḥ ǀ indra ǀ prathamam ǀ pūrvyam ǀ divi ǀ pra-vācyam ǀ kṛtam ǀ
yat ǀ devasya ǀ śavasā ǀ pra ǀ ariṇāḥ ǀ asum ǀ riṇan ǀ apaḥ ǀ
bhuvat ǀ viśvam ǀ abhi ǀ adevam ǀ ojasā ǀ vidāt ǀ ūrjam ǀ śata-kratuḥ ǀ vidāt ǀ iṣam ǁ

References

Maṇḍala · Sūkta · Ṛk
02.022.04
Aṣṭaka · Adhyāya · Varga · Ṛk
2.6.28.04
Maṇḍala · Anuvāka · Ṛk
02.02.105
Devatā देवता
Indra
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Atiśakvarī, Aṣṭi, Atiśakvarī Or Aṣṭi
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.22.4

Interpretations

Sāyaṇa

तृतीयेनुवाकेदशसूक्तानि तत्रेदमेकोनविंशत्यृचंगार्त्समदंप्रथमंसूक्तं अत्रेयमनुक्रमणिका गणाना मेकोनाब्राह्मणस्पत्यंहबार्हस्पत्यास्तुदृष्टलिङ्गाःपञ्चदश्यन्तेत्रिष्टुभाविति पञ्चदशीएकोनविंशीचत्रि ष्टुभौ शिष्टाजगत्यः यासुबृहस्पतिशब्दःश्रूयतेताबार्हस्पत्याः शिष्टाब्राह्मणस्पत्याः प्रवर्ग्येभिष्टवएतत्सू क्तं स्पृष्ट्वोदकमितिखण्डेसूत्रितम्—गणानांत्वाप्रथश्छयस्येति ।