Ṛk 2.22.2
Saṃhitā
अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे ।
अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिंद्रं॑ स॒त्य इंदुः॑ ॥
अध त्विषीमां अभ्य् ओजसा क्रिविं युधाभवद् आ रोदसी अपृणद् अस्य मज्मना प्र वावृधे |
अधत्तान्यं जठरे प्रेम् अरिच्यत सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ||
ádha tvíṣīmām̐ abhyójasā krívim yudhā́bhavadā́ ródasī apṛṇadasya majmánā prá vāvṛdhe ǀ
ádhattānyám jaṭháre prémaricyata sáinam saścaddevó devám satyámíndram satyá índuḥ ǁ
adha tviṣīmāṃ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe |
adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||
Padapāṭha
अध॑ । त्विषि॑ऽमान् । अ॒भि । ओज॑सा । क्रिवि॑म् । यु॒धा । अ॒भ॒व॒त् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒स्य॒ । म॒ज्मना॑ । प्र । व॒वृ॒धे॒ ।
अध॑त्त । अ॒न्यम् । ज॒ठरे॑ । प्र । ई॒म् । अ॒रि॒च्य॒त॒ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥
अध । त्विषिऽमान् । अभि । ओजसा । क्रिविम् । युधा । अभवत् । आ । रोदसी इति । अपृणत् । अस्य । मज्मना । प्र । ववृधे ।
अधत्त । अन्यम् । जठरे । प्र । ईम् । अरिच्यत । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥
ádha ǀ tvíṣi-mān ǀ abhí ǀ ójasā ǀ krívim ǀ yudhā́ ǀ abhavat ǀ ā́ ǀ ródasī íti ǀ apṛṇat ǀ asya ǀ majmánā ǀ prá ǀ vavṛdhe ǀ
ádhatta ǀ anyám ǀ jaṭháre ǀ prá ǀ īm ǀ aricyata ǀ sáḥ ǀ enam ǀ saścat ǀ deváḥ ǀ devám ǀ satyám ǀ índram ǀ satyáḥ ǀ índuḥ ǁ
adha ǀ tviṣi-mān ǀ abhi ǀ ojasā ǀ krivim ǀ yudhā ǀ abhavat ǀ ā ǀ rodasī iti ǀ apṛṇat ǀ asya ǀ majmanā ǀ pra ǀ vavṛdhe ǀ
adhatta ǀ anyam ǀ jaṭhare ǀ pra ǀ īm ǀ aricyata ǀ saḥ ǀ enam ǀ saścat ǀ devaḥ ǀ devam ǀ satyam ǀ indram ǀ satyaḥ ǀ induḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.022.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.28.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.103
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Atiśakvarī, Aṣṭi, Atiśakvarī Or Aṣṭi
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.