Ṛgveda · Maṇḍala 2 · Sūkta 1

Ṛk 2.1.1

Agni · Gṛtsamada Bhārgava Śaunaka

The whole sūkta Link

Saṃhitā

त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥

त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि |
त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ||

tvámagne dyúbhistvámāśuśukṣáṇistvámadbhyástvámáśmanaspári ǀ
tvám vánebhyastvámóṣadhībhyastvám nṛṇā́m nṛpate jāyase śúciḥ ǁ

tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari |
tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ ||

Padapāṭha

त्वम् । अ॒ग्ने॒ । द्युऽभिः॑ । त्वम् । आ॒शु॒शु॒क्षणिः॑ । त्वम् । अ॒त्ऽभ्यः । त्वम् । अश्म॑नः । परि॑ ।
त्वम् । वने॑भ्यः । त्वम् । ओष॑धीभ्यः । त्वम् । नृ॒णाम् । नृ॒ऽप॒ते॒ । जा॒य॒से॒ । शुचिः॑ ॥

त्वम् । अग्ने । द्युऽभिः । त्वम् । आशुशुक्षणिः । त्वम् । अत्ऽभ्यः । त्वम् । अश्मनः । परि ।
त्वम् । वनेभ्यः । त्वम् । ओषधीभ्यः । त्वम् । नृणाम् । नृऽपते । जायसे । शुचिः ॥

tvám ǀ agne ǀ dyú-bhiḥ ǀ tvám ǀ āśuśukṣáṇiḥ ǀ tvám ǀ at-bhyáḥ ǀ tvám ǀ áśmanaḥ ǀ pári ǀ
tvám ǀ vánebhyaḥ ǀ tvám ǀ óṣadhībhyaḥ ǀ tvám ǀ nṛṇā́m ǀ nṛ-pate ǀ jāyase ǀ śúciḥ ǁ

tvam ǀ agne ǀ dyu-bhiḥ ǀ tvam ǀ āśuśukṣaṇiḥ ǀ tvam ǀ at-bhyaḥ ǀ tvam ǀ aśmanaḥ ǀ pari ǀ
tvam ǀ vanebhyaḥ ǀ tvam ǀ oṣadhībhyaḥ ǀ tvam ǀ nṛṇām ǀ nṛ-pate ǀ jāyase ǀ śuciḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
02.001.01
Aṣṭaka · Adhyāya · Varga · Ṛk
2.5.17.01
Maṇḍala · Anuvāka · Ṛk
02.01.001
Devatā देवता
Agni
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Jagatī
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.1.1

Interpretations

Sri Aurobindo

O Fire, thou art born with thy lights, flaming out on us in thy effulgence; thou art born from the waters and around the stone, thou art born from the forests and born from the plants of the earth. Pure art thou in thy birth, O Master of man and his race. ( 16 HTMF page 31)