Ṛgveda · Maṇḍala 1 · Sūkta 191

Ṛk 1.191.16

Aboṣadhisūryāḥ · Agastya Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

कु॒षुं॒भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः ।
वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षं ॥

कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः |
वृश्चिकस्यारसं विषम् अरसं वृश्चिक ते विषम् ||

kuṣumbhakástádabravīdgiréḥ pravartamānakáḥ ǀ
vṛ́ścikasyārasám viṣámarasám vṛścika te viṣám ǁ

kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ |
vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam ||

Padapāṭha

कु॒षु॒म्भ॒कः । तत् । अ॒ब्र॒वी॒त् । गि॒रेः । प्र॒ऽव॒र्त॒मा॒न॒कः ।
वृश्चि॑कस्य । अ॒र॒सम् । वि॒षम् । अ॒र॒सम् । वृ॒श्चि॒क॒ । ते॒ । वि॒षम् ॥

कुषुम्भकः । तत् । अब्रवीत् । गिरेः । प्रऽवर्तमानकः ।
वृश्चिकस्य । अरसम् । विषम् । अरसम् । वृश्चिक । ते । विषम् ॥

kuṣumbhakáḥ ǀ tát ǀ abravīt ǀ giréḥ ǀ pra-vartamānakáḥ ǀ
vṛ́ścikasya ǀ arasám ǀ viṣám ǀ arasám ǀ vṛścika ǀ te ǀ viṣám ǁ

kuṣumbhakaḥ ǀ tat ǀ abravīt ǀ gireḥ ǀ pra-vartamānakaḥ ǀ
vṛścikasya ǀ arasam ǀ viṣam ǀ arasam ǀ vṛścika ǀ te ǀ viṣam ǁ

References

Maṇḍala · Sūkta · Ṛk
01.191.16
Aṣṭaka · Adhyāya · Varga · Ṛk
2.5.16.06
Maṇḍala · Anuvāka · Ṛk
1.24.115
Devatā देवता
Aboṣadhisūryāḥ
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Anuṣṭubh, Mahāpaṅkti, Mahābṛhatī
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.191.16

Interpretations

Sāyaṇa

अध्यायोपाकर्णोत्सर्गेयोःकुषुंभकस्तदित्यन्त्याविनियुक्ता दधिसक्तून् जुहोतीत्युपक्रम्यकुषुम्भक- स्तदब्रवीदितिसूत्रितत्वात् । ॥ इतिप्रथमंमण्डलम् ॥ एवंमहानुभावेनागस्त्यमहर्षिणोच्यमानेसति गिरेः सकाशात्प्रवर्तमानकः प्रवर्तमानोतिशीघ्रम- भिगच्छन् कुषुंभकोनकुलः तदब्रवीत् तद्वाक्यमाचख्यौ किंत्दितिउच्यते—वृश्चिकस्यैतद्विषं अरसं असारं बाधकंनभवतीत्यर्थः तथा लोकेपिसप्रदष्टमपिक्रिम्यादिदंशनमेव अतोनबाधइतिहिवदन्ति एवमभिवचनेनसोपिनिर्विषोभवत् अथतंवृश्चिकंप्रतिनकुलआह हेवृश्चिक तेविषमरसं अतस्तमृषिं- किंकरिष्यति तस्मात्परिहरेति यदैवमवादीत् तदाप्रभृतिवृश्चिकविषमसारमभवत् एषाविषनिर्हरि- ण्युपनिषत् ॥ १६ ॥