Sūkta 32
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4, 7-10, 12, 13, 15); virāṭtrisṭup (1, 3, 5); triṣṭup (6, 11, 14)
2nd set of styles triṣṭubh
-
Ṛk 1
इंद्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ।
अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानां ॥इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री |
अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ||índrasya nú vīryā́ṇi prá vocam yā́ni cakā́ra prathamā́ni vajrī́ ǀ
áhannáhimánvapástatarda prá vakṣáṇā abhinatpárvatānām ǁindrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī |
ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām ||इन्द्र॑स्य । नु । वी॒र्या॑णि । प्र । वो॒च॒म् । यानि॑ । च॒कार॑ । प्र॒थ॒मानि॑ । व॒ज्री ।
अह॑न् । अहि॑म् । अनु॑ । अ॒पः । त॒त॒र्द॒ । प्र । व॒क्षणाः॑ । अ॒भि॒न॒त् । पर्व॑तानाम् ॥इन्द्रस्य । नु । वीर्याणि । प्र । वोचम् । यानि । चकार । प्रथमानि । वज्री ।
अहन् । अहिम् । अनु । अपः । ततर्द । प्र । वक्षणाः । अभिनत् । पर्वतानाम् ॥índrasya ǀ nú ǀ vīryā́ṇi ǀ prá ǀ vocam ǀ yā́ni ǀ cakā́ra ǀ prathamā́ni ǀ vajrī́ ǀ
áhan ǀ áhim ǀ ánu ǀ apáḥ ǀ tatarda ǀ prá ǀ vakṣáṇāḥ ǀ abhinat ǀ párvatānām ǁindrasya ǀ nu ǀ vīryāṇi ǀ pra ǀ vocam ǀ yāni ǀ cakāra ǀ prathamāni ǀ vajrī ǀ
ahan ǀ ahim ǀ anu ǀ apaḥ ǀ tatarda ǀ pra ǀ vakṣaṇāḥ ǀ abhinat ǀ parvatānām ǁ1.32.1 Aṣṭaka 1.2.36.1Anuvāka 1.7.19
-
Ṛk 2
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष ।
वा॒श्रा इ॑व धे॒नवः॒ स्यंद॑माना॒ अंजः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥अहन्न् अहिम् पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष |
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अव जग्मुर् आपः ||áhannáhim párvate śiśriyāṇám tváṣṭāsmai vájram svaryám tatakṣa ǀ
vāśrā́ iva dhenávaḥ syándamānā áñjaḥ samudrámáva jagmurā́paḥ ǁahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa |
vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ ||अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य॑म् । त॒त॒क्ष॒ ।
वा॒श्राःऽइ॑व । धे॒नवः॑ । स्यन्द॑मानाः । अञ्जः॑ । स॒मु॒द्रम् । अव॑ । ज॒ग्मुः॒ । आपः॑ ॥अहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष ।
वाश्राःऽइव । धेनवः । स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः ॥áhan ǀ áhim ǀ párvate ǀ śiśriyāṇám ǀ tváṣṭā ǀ asmai ǀ vájram ǀ svaryám ǀ tatakṣa ǀ
vāśrā́ḥ-iva ǀ dhenávaḥ ǀ syándamānāḥ ǀ áñjaḥ ǀ samudrám ǀ áva ǀ jagmuḥ ǀ ā́paḥ ǁahan ǀ ahim ǀ parvate ǀ śiśriyāṇam ǀ tvaṣṭā ǀ asmai ǀ vajram ǀ svaryam ǀ tatakṣa ǀ
vāśrāḥ-iva ǀ dhenavaḥ ǀ syandamānāḥ ǀ añjaḥ ǀ samudram ǀ ava ǀ jagmuḥ ǀ āpaḥ ǁ1.32.2 Aṣṭaka 1.2.36.2Anuvāka 1.7.20
-
Ṛk 3
वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ ।
आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नां ॥वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य |
आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम् अहीनाम् ||vṛṣāyámāṇo’vṛṇīta sómam tríkadrukeṣvapibatsutásya ǀ
ā́ sā́yakam maghávādatta vájramáhannenam prathamajā́máhīnām ǁvṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya |
ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām ||वृ॒ष॒ऽयमा॑णः । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ ।
आ । साय॑कम् । म॒घवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् ॥वृषऽयमाणः । अवृणीत । सोमम् । त्रिऽकद्रुकेषु । अपिबत् । सुतस्य ।
आ । सायकम् । मघवा । अदत्त । वज्रम् । अहन् । एनम् । प्रथमऽजाम् । अहीनाम् ॥vṛṣa-yámāṇaḥ ǀ avṛṇīta ǀ sómam ǀ trí-kadrukeṣu ǀ apibat ǀ sutásya ǀ
ā́ ǀ sā́yakam ǀ maghávā ǀ adatta ǀ vájram ǀ áhan ǀ enam ǀ prathama-jā́m ǀ áhīnām ǁvṛṣa-yamāṇaḥ ǀ avṛṇīta ǀ somam ǀ tri-kadrukeṣu ǀ apibat ǀ sutasya ǀ
ā ǀ sāyakam ǀ maghavā ǀ adatta ǀ vajram ǀ ahan ǀ enam ǀ prathama-jām ǀ ahīnām ǁ1.32.3 Aṣṭaka 1.2.36.3Anuvāka 1.7.21
-
Ṛk 4
यदिं॒द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः ।
आत्सूर्यं॑ ज॒नयं॒द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत मायाः |
आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला विवित्से ||yádindrā́hanprathamajā́máhīnāmā́nmāyínāmámināḥ prótá māyā́ḥ ǀ
ā́tsū́ryam janáyandyā́muṣā́sam tādī́tnā śátrum ná kílā vivitse ǁyad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ |
āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse ||यत् । इ॒न्द्र॒ । अह॑न् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् । आत् । मा॒यिना॑म् । अमि॑नाः । प्र । उ॒त । मा॒याः ।
आत् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् । ता॒दीत्ना॑ । शत्रु॑म् । न । किल॑ । वि॒वि॒त्से॒ ॥यत् । इन्द्र । अहन् । प्रथमऽजाम् । अहीनाम् । आत् । मायिनाम् । अमिनाः । प्र । उत । मायाः ।
आत् । सूर्यम् । जनयन् । द्याम् । उषसम् । तादीत्ना । शत्रुम् । न । किल । विवित्से ॥yát ǀ indra ǀ áhan ǀ prathama-jā́m ǀ áhīnām ǀ ā́t ǀ māyínām ǀ ámināḥ ǀ prá ǀ utá ǀ māyā́ḥ ǀ
ā́t ǀ sū́ryam ǀ janáyan ǀ dyā́m ǀ uṣásam ǀ tādī́tnā ǀ śátrum ǀ ná ǀ kíla ǀ vivitse ǁyat ǀ indra ǀ ahan ǀ prathama-jām ǀ ahīnām ǀ āt ǀ māyinām ǀ amināḥ ǀ pra ǀ uta ǀ māyāḥ ǀ
āt ǀ sūryam ǀ janayan ǀ dyām ǀ uṣasam ǀ tādītnā ǀ śatrum ǀ na ǀ kila ǀ vivitse ǁ1.32.4 Aṣṭaka 1.2.36.4Anuvāka 1.7.22
-
Ṛk 5
अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिंद्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ ।
स्कंधां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक्पृ॑थि॒व्याः ॥अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन |
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ||áhanvṛtrám vṛtratáram vyáṃsamíndro vájreṇa mahatā́ vadhéna ǀ
skándhāṃsīva kúliśenā vívṛkṇā́hiḥ śayata upapṛ́kpṛthivyā́ḥ ǁahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena |
skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ ||अह॑न् । वृ॒त्रम् । वृ॒त्र॒ऽतर॑म् । विऽअं॑सम् । इन्द्रः॑ । वज्रे॑ण । म॒ह॒ता । व॒धेन॑ ।
स्कन्धां॑सिऽइव । कुलि॑शेन । विऽवृ॑क्णा । अहिः॑ । श॒य॒ते॒ । उ॒प॒ऽपृक् । पृ॒थि॒व्याः ॥अहन् । वृत्रम् । वृत्रऽतरम् । विऽअंसम् । इन्द्रः । वज्रेण । महता । वधेन ।
स्कन्धांसिऽइव । कुलिशेन । विऽवृक्णा । अहिः । शयते । उपऽपृक् । पृथिव्याः ॥áhan ǀ vṛtrám ǀ vṛtra-táram ǀ ví-aṃsam ǀ índraḥ ǀ vájreṇa ǀ mahatā́ ǀ vadhéna ǀ
skándhāṃsi-iva ǀ kúliśena ǀ ví-vṛkṇā ǀ áhiḥ ǀ śayate ǀ upa-pṛ́k ǀ pṛthivyā́ḥ ǁahan ǀ vṛtram ǀ vṛtra-taram ǀ vi-aṃsam ǀ indraḥ ǀ vajreṇa ǀ mahatā ǀ vadhena ǀ
skandhāṃsi-iva ǀ kuliśena ǀ vi-vṛkṇā ǀ ahiḥ ǀ śayate ǀ upa-pṛk ǀ pṛthivyāḥ ǁ1.32.5 Aṣṭaka 1.2.36.5Anuvāka 1.7.23
-
Ṛk 6
अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षं ।
नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः॑ पिपिष॒ इंद्र॑शत्रुः ॥अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम् ऋजीषम् |
नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ||ayoddhéva durmáda ā́ hí juhvé mahāvīrám tuvibādhámṛjīṣám ǀ
nā́tārīdasya sámṛtim vadhā́nām sám rujā́nāḥ pipiṣa índraśatruḥ ǁayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam |
nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ ||अ॒यो॒द्धाऽइ॑व । दुः॒ऽमदः॑ । आ । हि । जु॒ह्वे । म॒हा॒ऽवी॒रम् । तु॒वि॒ऽबा॒धम् । ऋ॒जी॒षम् ।
न । अ॒ता॒री॒त् । अ॒स्य॒ । सम्ऽऋ॑तिम् । व॒धाना॑म् । सम् । रु॒जानाः॑ । पि॒पि॒षे॒ । इन्द्र॑ऽशत्रुः ॥अयोद्धाऽइव । दुःऽमदः । आ । हि । जुह्वे । महाऽवीरम् । तुविऽबाधम् । ऋजीषम् ।
न । अतारीत् । अस्य । सम्ऽऋतिम् । वधानाम् । सम् । रुजानाः । पिपिषे । इन्द्रऽशत्रुः ॥ayoddhā́-iva ǀ duḥ-mádaḥ ǀ ā́ ǀ hí ǀ juhvé ǀ mahā-vīrám ǀ tuvi-bādhám ǀ ṛjīṣám ǀ
ná ǀ atārīt ǀ asya ǀ sám-ṛtim ǀ vadhā́nām ǀ sám ǀ rujā́nāḥ ǀ pipiṣe ǀ índra-śatruḥ ǁayoddhā-iva ǀ duḥ-madaḥ ǀ ā ǀ hi ǀ juhve ǀ mahā-vīram ǀ tuvi-bādham ǀ ṛjīṣam ǀ
na ǀ atārīt ǀ asya ǀ sam-ṛtim ǀ vadhānām ǀ sam ǀ rujānāḥ ǀ pipiṣe ǀ indra-śatruḥ ǁ1.32.6 Aṣṭaka 1.2.37.1Anuvāka 1.7.24
-
Ṛk 7
अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिंद्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान ।
वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ जघान |
वृष्णो वध्रिः प्रतिमानम् बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ||apā́dahastó apṛtanyadíndramā́sya vájramádhi sā́nau jaghāna ǀ
vṛ́ṣṇo vádhriḥ pratimā́nam búbhūṣanpurutrā́ vṛtró aśayadvyástaḥ ǁapād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna |
vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ ||अ॒पात् । अ॒ह॒स्तः । अ॒पृ॒त॒न्य॒त् । इन्द्र॑म् । आ । अ॒स्य॒ । वज्र॑म् । अधि॑ । सानौ॑ । ज॒घा॒न॒ ।
वृष्णः॑ । वध्रिः॑ । प्र॒ति॒ऽमान॑म् । बुभू॑षन् । पु॒रु॒ऽत्रा । वृ॒त्रः । अ॒श॒य॒त् । विऽअ॑स्तः ॥अपात् । अहस्तः । अपृतन्यत् । इन्द्रम् । आ । अस्य । वज्रम् । अधि । सानौ । जघान ।
वृष्णः । वध्रिः । प्रतिऽमानम् । बुभूषन् । पुरुऽत्रा । वृत्रः । अशयत् । विऽअस्तः ॥apā́t ǀ ahastáḥ ǀ apṛtanyat ǀ índram ǀ ā́ ǀ asya ǀ vájram ǀ ádhi ǀ sā́nau ǀ jaghāna ǀ
vṛ́ṣṇaḥ ǀ vádhriḥ ǀ prati-mā́nam ǀ búbhūṣan ǀ puru-trā́ ǀ vṛtráḥ ǀ aśayat ǀ ví-astaḥ ǁapāt ǀ ahastaḥ ǀ apṛtanyat ǀ indram ǀ ā ǀ asya ǀ vajram ǀ adhi ǀ sānau ǀ jaghāna ǀ
vṛṣṇaḥ ǀ vadhriḥ ǀ prati-mānam ǀ bubhūṣan ǀ puru-trā ǀ vṛtraḥ ǀ aśayat ǀ vi-astaḥ ǁ1.32.7 Aṣṭaka 1.2.37.2Anuvāka 1.7.25
-
Ṛk 8
न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ यं॒त्यापः॑ ।
याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ॥नदं न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः |
याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः पत्सुतःशीर् बभूव ||nadám ná bhinnámamuyā́ śáyānam máno rúhāṇā áti yantyā́paḥ ǀ
yā́ścidvṛtró mahinā́ paryátiṣṭhattā́sāmáhiḥ patsutaḥśī́rbabhūva ǁnadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ |
yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva ||न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शया॑नम् । मनः॑ । रुहा॑णाः । अति॑ । य॒न्ति॒ । आपः॑ ।
याः । चि॒त् । वृ॒त्रः । म॒हि॒ना । प॒रि॒ऽअति॑ष्ठत् । तासा॑म् । अहिः॑ । प॒त्सु॒तः॒शीः । ब॒भू॒व॒ ॥नदम् । न । भिन्नम् । अमुया । शयानम् । मनः । रुहाणाः । अति । यन्ति । आपः ।
याः । चित् । वृत्रः । महिना । परिऽअतिष्ठत् । तासाम् । अहिः । पत्सुतःशीः । बभूव ॥nadám ǀ ná ǀ bhinnám ǀ amuyā́ ǀ śáyānam ǀ mánaḥ ǀ rúhāṇāḥ ǀ áti ǀ yanti ǀ ā́paḥ ǀ
yā́ḥ ǀ cit ǀ vṛtráḥ ǀ mahinā́ ǀ pari-átiṣṭhat ǀ tā́sām ǀ áhiḥ ǀ patsutaḥśī́ḥ ǀ babhūva ǁnadam ǀ na ǀ bhinnam ǀ amuyā ǀ śayānam ǀ manaḥ ǀ ruhāṇāḥ ǀ ati ǀ yanti ǀ āpaḥ ǀ
yāḥ ǀ cit ǀ vṛtraḥ ǀ mahinā ǀ pari-atiṣṭhat ǀ tāsām ǀ ahiḥ ǀ patsutaḥśīḥ ǀ babhūva ǁ1.32.8 Aṣṭaka 1.2.37.3Anuvāka 1.7.26
-
Ṛk 9
नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेंद्रो॑ अस्या॒ अव॒ वध॑र्जभार ।
उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानुः॑ शये स॒हव॑त्सा॒ न धे॒नुः ॥नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर् जभार |
उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न धेनुः ||nīcā́vayā abhavadvṛtráputréndro asyā áva vádharjabhāra ǀ
úttarā sū́rádharaḥ putrá āsīddā́nuḥ śaye sahávatsā ná dhenúḥ ǁnīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra |
uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ ||नी॒चाऽव॑याः । अ॒भ॒व॒त् । वृ॒त्रऽपु॑त्रा । इन्द्रः॑ । अ॒स्याः॒ । अव॑ । वधः॑ । ज॒भा॒र॒ ।
उत्ऽत॑रा । सूः । अध॑रः । पु॒त्रः । आ॒सी॒त् । दानुः॑ । श॒ये॒ । स॒हऽव॑त्सा । न । धे॒नुः ॥नीचाऽवयाः । अभवत् । वृत्रऽपुत्रा । इन्द्रः । अस्याः । अव । वधः । जभार ।
उत्ऽतरा । सूः । अधरः । पुत्रः । आसीत् । दानुः । शये । सहऽवत्सा । न । धेनुः ॥nīcā́-vayāḥ ǀ abhavat ǀ vṛtrá-putrā ǀ índraḥ ǀ asyāḥ ǀ áva ǀ vádhaḥ ǀ jabhāra ǀ
út-tarā ǀ sū́ḥ ǀ ádharaḥ ǀ putráḥ ǀ āsīt ǀ dā́nuḥ ǀ śaye ǀ sahá-vatsā ǀ ná ǀ dhenúḥ ǁnīcā-vayāḥ ǀ abhavat ǀ vṛtra-putrā ǀ indraḥ ǀ asyāḥ ǀ ava ǀ vadhaḥ ǀ jabhāra ǀ
ut-tarā ǀ sūḥ ǀ adharaḥ ǀ putraḥ ǀ āsīt ǀ dānuḥ ǀ śaye ǀ saha-vatsā ǀ na ǀ dhenuḥ ǁ1.32.9 Aṣṭaka 1.2.37.4Anuvāka 1.7.27
-
Ṛk 10
अति॑ष्ठंतीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रं ।
वृ॒त्रस्य॑ नि॒ण्यं वि च॑रं॒त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिंद्र॑शत्रुः ॥अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानाम् मध्ये निहितं शरीरम् |
वृत्रस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद् इन्द्रशत्रुः ||átiṣṭhantīnāmaniveśanā́nām kā́ṣṭhānām mádhye níhitam śárīram ǀ
vṛtrásya niṇyám ví carantyā́po dīrghám táma ā́śayadíndraśatruḥ ǁatiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram |
vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ ||अति॑ष्ठन्तीनाम् । अ॒नि॒ऽवे॒श॒नाना॑म् । काष्ठा॑नाम् । मध्ये॑ । निऽहि॑तम् । शरी॑रम् ।
वृ॒त्रस्य॑ । नि॒ण्यम् । वि । च॒र॒न्ति॒ । आपः॑ । दी॒र्घम् । तमः॑ । आ । अ॒श॒य॒त् । इन्द्र॑ऽशत्रुः ॥अतिष्ठन्तीनाम् । अनिऽवेशनानाम् । काष्ठानाम् । मध्ये । निऽहितम् । शरीरम् ।
वृत्रस्य । निण्यम् । वि । चरन्ति । आपः । दीर्घम् । तमः । आ । अशयत् । इन्द्रऽशत्रुः ॥átiṣṭhantīnām ǀ ani-veśanā́nām ǀ kā́ṣṭhānām ǀ mádhye ǀ ní-hitam ǀ śárīram ǀ
vṛtrásya ǀ niṇyám ǀ ví ǀ caranti ǀ ā́paḥ ǀ dīrghám ǀ támaḥ ǀ ā́ ǀ aśayat ǀ índra-śatruḥ ǁatiṣṭhantīnām ǀ ani-veśanānām ǀ kāṣṭhānām ǀ madhye ǀ ni-hitam ǀ śarīram ǀ
vṛtrasya ǀ niṇyam ǀ vi ǀ caranti ǀ āpaḥ ǀ dīrgham ǀ tamaḥ ǀ ā ǀ aśayat ǀ indra-śatruḥ ǁ1.32.10 Aṣṭaka 1.2.37.5Anuvāka 1.7.28
-
Ṛk 11
दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने॑व॒ गावः॑ ।
अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः |
अपाम् बिलम् अपिहितं यद् आसीद् वृत्रं जघन्वां अप तद् ववार ||dāsápatnīráhigopā atiṣṭhanníruddhā ā́paḥ paṇíneva gā́vaḥ ǀ
apā́m bílamápihitam yádā́sīdvṛtrám jaghanvā́m̐ ápa tádvavāra ǁdāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ |
apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṃ apa tad vavāra ||दा॒सऽप॑त्नीः । अहि॑ऽगोपाः । अ॒ति॒ष्ठ॒न् । निऽरु॑द्धाः । आपः॑ । प॒णिना॑ऽइव । गावः॑ ।
अ॒पाम् । बिल॑म् । अपि॑ऽहितम् । यत् । आसी॑त् । वृ॒त्रम् । ज॒घ॒न्वान् । अप॑ । तत् । व॒वा॒र॒ ॥दासऽपत्नीः । अहिऽगोपाः । अतिष्ठन् । निऽरुद्धाः । आपः । पणिनाऽइव । गावः ।
अपाम् । बिलम् । अपिऽहितम् । यत् । आसीत् । वृत्रम् । जघन्वान् । अप । तत् । ववार ॥dāsá-patnīḥ ǀ áhi-gopāḥ ǀ atiṣṭhan ǀ ní-ruddhāḥ ǀ ā́paḥ ǀ paṇínā-iva ǀ gā́vaḥ ǀ
apā́m ǀ bílam ǀ ápi-hitam ǀ yát ǀ ā́sīt ǀ vṛtrám ǀ jaghanvā́n ǀ ápa ǀ tát ǀ vavāra ǁdāsa-patnīḥ ǀ ahi-gopāḥ ǀ atiṣṭhan ǀ ni-ruddhāḥ ǀ āpaḥ ǀ paṇinā-iva ǀ gāvaḥ ǀ
apām ǀ bilam ǀ api-hitam ǀ yat ǀ āsīt ǀ vṛtram ǀ jaghanvān ǀ apa ǀ tat ǀ vavāra ǁ1.32.11 Aṣṭaka 1.2.38.1Anuvāka 1.7.29
-
Ṛk 12
अश्व्यो॒ वारो॑ अभव॒स्तदिं॑द्र सृ॒के यत्त्वा॑ प्र॒त्यहं॑दे॒व एकः॑ ।
अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृजः॒ सर्त॑वे स॒प्त सिंधू॑न् ॥अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव एकः |
अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त सिन्धून् ||áśvyo vā́ro abhavastádindra sṛké yáttvā pratyáhandevá ékaḥ ǀ
ájayo gā́ ájayaḥ śūra sómamávāsṛjaḥ sártave saptá síndhūn ǁaśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ |
ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn ||अश्व्यः॑ । वारः॑ । अ॒भ॒वः॒ । तत् । इ॒न्द्र॒ । सृ॒के । यत् । त्वा॒ । प्र॒ति॒ऽअह॑न् । दे॒वः । एकः॑ ।
अज॑यः । गाः । अज॑यः । शू॒र॒ । सोम॑म् । अव॑ । अ॒सृ॒जः॒ । सर्त॑वे । स॒प्त । सिन्धू॑न् ॥अश्व्यः । वारः । अभवः । तत् । इन्द्र । सृके । यत् । त्वा । प्रतिऽअहन् । देवः । एकः ।
अजयः । गाः । अजयः । शूर । सोमम् । अव । असृजः । सर्तवे । सप्त । सिन्धून् ॥áśvyaḥ ǀ vā́raḥ ǀ abhavaḥ ǀ tát ǀ indra ǀ sṛké ǀ yát ǀ tvā ǀ prati-áhan ǀ deváḥ ǀ ékaḥ ǀ
ájayaḥ ǀ gā́ḥ ǀ ájayaḥ ǀ śūra ǀ sómam ǀ áva ǀ asṛjaḥ ǀ sártave ǀ saptá ǀ síndhūn ǁaśvyaḥ ǀ vāraḥ ǀ abhavaḥ ǀ tat ǀ indra ǀ sṛke ǀ yat ǀ tvā ǀ prati-ahan ǀ devaḥ ǀ ekaḥ ǀ
ajayaḥ ǀ gāḥ ǀ ajayaḥ ǀ śūra ǀ somam ǀ ava ǀ asṛjaḥ ǀ sartave ǀ sapta ǀ sindhūn ǁ1.32.12 Aṣṭaka 1.2.38.2Anuvāka 1.7.30
-
Ṛk 13
नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च ।
इंद्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद् ध्रादुनिं च |
इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि जिग्ये ||nā́smai vidyúnná tanyatúḥ siṣedha ná yā́m míhamákiraddhrādúnim ca ǀ
índraśca yádyuyudhā́te áhiścotā́parī́bhyo maghávā ví jigye ǁnāsmai vidyun na tanyatuḥ siṣedha na yām miham akirad dhrāduniṃ ca |
indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye ||न । अ॒स्मै॒ । वि॒ऽद्युत् । न । त॒न्य॒तुः । सि॒से॒ध॒ । न । याम् । मिह॑म् । अकि॑रत् । ह्रा॒दुनि॑म् । च॒ ।
इन्द्रः॑ । च॒ । यत् । यु॒यु॒धाते॒ इति॑ । अहिः॑ । च॒ । उ॒त । अ॒प॒रीभ्यः॑ । म॒घऽवा॑ । वि । जि॒ग्ये॒ ॥न । अस्मै । विऽद्युत् । न । तन्यतुः । सिसेध । न । याम् । मिहम् । अकिरत् । ह्रादुनिम् । च ।
इन्द्रः । च । यत् । युयुधाते इति । अहिः । च । उत । अपरीभ्यः । मघऽवा । वि । जिग्ये ॥ná ǀ asmai ǀ vi-dyút ǀ ná ǀ tanyatúḥ ǀ sisedha ǀ ná ǀ yā́m ǀ míham ǀ ákirat ǀ hrādúnim ǀ ca ǀ
índraḥ ǀ ca ǀ yát ǀ yuyudhā́te íti ǀ áhiḥ ǀ ca ǀ utá ǀ aparī́bhyaḥ ǀ maghá-vā ǀ ví ǀ jigye ǁna ǀ asmai ǀ vi-dyut ǀ na ǀ tanyatuḥ ǀ sisedha ǀ na ǀ yām ǀ miham ǀ akirat ǀ hrādunim ǀ ca ǀ
indraḥ ǀ ca ǀ yat ǀ yuyudhāte iti ǀ ahiḥ ǀ ca ǀ uta ǀ aparībhyaḥ ǀ magha-vā ǀ vi ǀ jigye ǁ1.32.13 Aṣṭaka 1.2.38.3Anuvāka 1.7.31
-
Ṛk 14
अहे॑र्या॒तारं॒ कम॑पश्य इंद्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
नव॑ च॒ यन्न॑व॒तिं च॒ स्रवं॑तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर् अगच्छत् |
नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ||áheryātā́ram kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat ǀ
náva ca yánnavatím ca srávantīḥ śyenó ná bhītó átaro rájāṃsi ǁaher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat |
nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi ||अहेः॑ । या॒तार॑म् । कम् । अ॒प॒श्यः॒ । इ॒न्द्र॒ । हृ॒दि । यत् । ते॒ । ज॒घ्नुषः॑ । भीः । अग॑च्छत् ।
नव॑ । च॒ । यम् । न॒व॒तिम् । च॒ । स्रव॑न्तीः । श्ये॒नः । न । भी॒तः । अत॑रः । रजां॑सि ॥अहेः । यातारम् । कम् । अपश्यः । इन्द्र । हृदि । यत् । ते । जघ्नुषः । भीः । अगच्छत् ।
नव । च । यम् । नवतिम् । च । स्रवन्तीः । श्येनः । न । भीतः । अतरः । रजांसि ॥áheḥ ǀ yātā́ram ǀ kám ǀ apaśyaḥ ǀ indra ǀ hṛdí ǀ yát ǀ te ǀ jaghnúṣaḥ ǀ bhī́ḥ ǀ ágacchat ǀ
náva ǀ ca ǀ yám ǀ navatím ǀ ca ǀ srávantīḥ ǀ śyenáḥ ǀ ná ǀ bhītáḥ ǀ átaraḥ ǀ rájāṃsi ǁaheḥ ǀ yātāram ǀ kam ǀ apaśyaḥ ǀ indra ǀ hṛdi ǀ yat ǀ te ǀ jaghnuṣaḥ ǀ bhīḥ ǀ agacchat ǀ
nava ǀ ca ǀ yam ǀ navatim ǀ ca ǀ sravantīḥ ǀ śyenaḥ ǀ na ǀ bhītaḥ ǀ ataraḥ ǀ rajāṃsi ǁ1.32.14 Aṣṭaka 1.2.38.4Anuvāka 1.7.32
-
Ṛk 15
इंद्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृं॒गिणो॒ वज्र॑बाहुः ।
सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः |
सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव ||índro yātó’vasitasya rā́jā śámasya ca śṛṅgíṇo vájrabāhuḥ ǀ
sédu rā́jā kṣayati carṣaṇīnā́marā́nná nemíḥ pári tā́ babhūva ǁindro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ |
sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva ||इन्द्रः॑ । या॒तः । अव॑ऽसितस्य । राजा॑ । शम॑स्य । च॒ । शृ॒ङ्गिणः॑ । वज्र॑ऽबाहुः ।
सः । इत् । ऊं॒ इति॑ । राजा॑ । क्ष॒य॒ति॒ । च॒र्ष॒णी॒नाम् । अ॒रान् । न । ने॒मिः । परि॑ । ता । ब॒भू॒व॒ ॥इन्द्रः । यातः । अवऽसितस्य । राजा । शमस्य । च । शृङ्गिणः । वज्रऽबाहुः ।
सः । इत् । ऊं इति । राजा । क्षयति । चर्षणीनाम् । अरान् । न । नेमिः । परि । ता । बभूव ॥índraḥ ǀ yātáḥ ǀ áva-sitasya ǀ rā́jā ǀ śámasya ǀ ca ǀ śṛṅgíṇaḥ ǀ vájra-bāhuḥ ǀ
sáḥ ǀ ít ǀ ūṃ íti ǀ rā́jā ǀ kṣayati ǀ carṣaṇīnā́m ǀ arā́n ǀ ná ǀ nemíḥ ǀ pári ǀ tā́ ǀ babhūva ǁindraḥ ǀ yātaḥ ǀ ava-sitasya ǀ rājā ǀ śamasya ǀ ca ǀ śṛṅgiṇaḥ ǀ vajra-bāhuḥ ǀ
saḥ ǀ it ǀ ūṃ iti ǀ rājā ǀ kṣayati ǀ carṣaṇīnām ǀ arān ǀ na ǀ nemiḥ ǀ pari ǀ tā ǀ babhūva ǁ1.32.15 Aṣṭaka 1.2.38.5Anuvāka 1.7.33
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.