Sūkta 75
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (2, 5); gāyatrī (1); virāḍgāyatrī (3); yavamadhyāpādanicṛdgāyatrī (4)
2nd set of styles gāyatrī
-
Ṛk 1
जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमं ।
ह॒व्या जुह्वा॑न आ॒सनि॑ ॥जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् |
हव्या जुह्वान आसनि ||juṣásva sapráthastamam váco devápsarastamam ǀ
havyā́ júhvāna āsáni ǁjuṣasva saprathastamaṃ vaco devapsarastamam |
havyā juhvāna āsani ||जु॒षस्व॑ । स॒प्रथः॑ऽतमम् । वचः॑ । दे॒वप्स॑रःऽतमम् ।
ह॒व्या । जुह्वा॑नः । आ॒सनि॑ ॥जुषस्व । सप्रथःऽतमम् । वचः । देवप्सरःऽतमम् ।
हव्या । जुह्वानः । आसनि ॥juṣásva ǀ sapráthaḥ-tamam ǀ vácaḥ ǀ devápsaraḥ-tamam ǀ
havyā́ ǀ júhvānaḥ ǀ āsáni ǁjuṣasva ǀ saprathaḥ-tamam ǀ vacaḥ ǀ devapsaraḥ-tamam ǀ
havyā ǀ juhvānaḥ ǀ āsani ǁ1.75.1 Aṣṭaka 1.5.23.1Anuvāka 1.13.10
-
Ṛk 2
अथा॑ ते अंगिरस्त॒माग्ने॑ वेधस्तम प्रि॒यं ।
वो॒चेम॒ ब्रह्म॑ सान॒सि ॥अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् |
वोचेम ब्रह्म सानसि ||áthā te aṅgirastamā́gne vedhastama priyám ǀ
vocéma bráhma sānasí ǁathā te aṅgirastamāgne vedhastama priyam |
vocema brahma sānasi ||अथ॑ । ते॒ । अ॒ङ्गि॒रः॒ऽत॒म॒ । अ॒ग्ने॒ । वे॒धः॒ऽत॒म॒ । प्रि॒यम् ।
वो॒चेम॑ । ब्रह्म॑ । सा॒न॒सि ॥अथ । ते । अङ्गिरःऽतम । अग्ने । वेधःऽतम । प्रियम् ।
वोचेम । ब्रह्म । सानसि ॥átha ǀ te ǀ aṅgiraḥ-tama ǀ agne ǀ vedhaḥ-tama ǀ priyám ǀ
vocéma ǀ bráhma ǀ sānasí ǁatha ǀ te ǀ aṅgiraḥ-tama ǀ agne ǀ vedhaḥ-tama ǀ priyam ǀ
vocema ǀ brahma ǀ sānasi ǁ1.75.2 Aṣṭaka 1.5.23.2Anuvāka 1.13.11
-
Ṛk 3
कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः ।
को ह॒ कस्मि॑न्नसि श्रि॒तः ॥कस् ते जामिर् जनानाम् अग्ने को दाश्वध्वरः |
को ह कस्मिन्न् असि श्रितः ||káste jāmírjánānāmágne kó dāśvádhvaraḥ ǀ
kó ha kásminnasi śritáḥ ǁkas te jāmir janānām agne ko dāśvadhvaraḥ |
ko ha kasminn asi śritaḥ ||कः । ते॒ । जा॒मिः । जना॑नाम् । अग्ने॑ । कः । दा॒शुऽअ॑ध्वरः ।
कः । ह॒ । कस्मि॑न् । अ॒सि॒ । श्रि॒तः ॥कः । ते । जामिः । जनानाम् । अग्ने । कः । दाशुऽअध्वरः ।
कः । ह । कस्मिन् । असि । श्रितः ॥káḥ ǀ te ǀ jāmíḥ ǀ jánānām ǀ ágne ǀ káḥ ǀ dāśú-adhvaraḥ ǀ
káḥ ǀ ha ǀ kásmin ǀ asi ǀ śritáḥ ǁkaḥ ǀ te ǀ jāmiḥ ǀ janānām ǀ agne ǀ kaḥ ǀ dāśu-adhvaraḥ ǀ
kaḥ ǀ ha ǀ kasmin ǀ asi ǀ śritaḥ ǁ1.75.3 Aṣṭaka 1.5.23.3Anuvāka 1.13.12
-
Ṛk 4
त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः ।
सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥त्वं जामिर् जनानाम् अग्ने मित्रो असि प्रियः |
सखा सखिभ्य ईड्यः ||tvám jāmírjánānāmágne mitró asi priyáḥ ǀ
sákhā sákhibhya ī́ḍyaḥ ǁtvaṃ jāmir janānām agne mitro asi priyaḥ |
sakhā sakhibhya īḍyaḥ ||त्वम् । जा॒मिः । जना॑नाम् । अग्ने॑ । मि॒त्रः । अ॒सि॒ । प्रि॒यः ।
सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥त्वम् । जामिः । जनानाम् । अग्ने । मित्रः । असि । प्रियः ।
सखा । सखिऽभ्यः । ईड्यः ॥tvám ǀ jāmíḥ ǀ jánānām ǀ ágne ǀ mitráḥ ǀ asi ǀ priyáḥ ǀ
sákhā ǀ sákhi-bhyaḥ ǀ ī́ḍyaḥ ǁtvam ǀ jāmiḥ ǀ janānām ǀ agne ǀ mitraḥ ǀ asi ǀ priyaḥ ǀ
sakhā ǀ sakhi-bhyaḥ ǀ īḍyaḥ ǁ1.75.4 Aṣṭaka 1.5.23.4Anuvāka 1.13.13
-
Ṛk 5
यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वं दमं॑ ॥यजा नो मित्रावरुणा यजा देवां ऋतम् बृहत् |
अग्ने यक्षि स्वं दमम् ||yájā no mitrā́váruṇā yájā devā́m̐ ṛtám bṛhát ǀ
ágne yákṣi svám dámam ǁyajā no mitrāvaruṇā yajā devāṃ ṛtam bṛhat |
agne yakṣi svaṃ damam ||यज॑ । नः॒ । मि॒त्रावरु॑णा । यज॑ । दे॒वान् । ऋ॒तम् । बृ॒हत् ।
अग्ने॑ । यक्षि॑ । स्वम् । दम॑म् ॥यज । नः । मित्रावरुणा । यज । देवान् । ऋतम् । बृहत् ।
अग्ने । यक्षि । स्वम् । दमम् ॥yája ǀ naḥ ǀ mitrā́váruṇā ǀ yája ǀ devā́n ǀ ṛtám ǀ bṛhát ǀ
ágne ǀ yákṣi ǀ svám ǀ dámam ǁyaja ǀ naḥ ǀ mitrāvaruṇā ǀ yaja ǀ devān ǀ ṛtam ǀ bṛhat ǀ
agne ǀ yakṣi ǀ svam ǀ damam ǁ1.75.5 Aṣṭaka 1.5.23.5Anuvāka 1.13.14
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.