Ṛgveda · Maṇḍala 1

Sūkta 71

Agni · Parāśara Śāktya · 10 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles virāṭtrisṭup (3, 4, 8, 10); triṣṭup (1, 6, 7); nicṛttriṣṭup (2, 5); bhurikpaṅkti (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    उप॒ प्र जि॑न्वन्नुश॒तीरु॒शंतं॒ पतिं॒ न नित्यं॒ जन॑यः॒ सनी॑ळाः ।
    स्वसा॑रः॒ श्यावी॒मरु॑षीमजुष्रंचि॒त्रमु॒च्छंती॑मु॒षसं॒ न गावः॑ ॥

    उप प्र जिन्वन्न् उशतीर् उशन्तम् पतिं न नित्यं जनयः सनीऌआः |
    स्वसारः श्यावीम् अरुषीम् अजुष्रञ् चित्रम् उच्छन्तीम् उषसं न गावः ||

    úpa prá jinvannuśatī́ruśántam pátim ná nítyam jánayaḥ sánīḷāḥ ǀ
    svásāraḥ śyā́vīmáruṣīmajuṣrañcitrámucchántīmuṣásam ná gā́vaḥ ǁ

    upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḷāḥ |
    svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ ||

    उप॑ । प्र । जि॒न्व॒न् । उ॒श॒तीः । उ॒शन्त॑म् । पति॑म् । न । नित्य॑म् । जन॑यः । सऽनी॑ळाः ।
    स्वसा॑रः । श्यावी॑म् । अरु॑षीम् । अ॒जु॒ष्र॒न् । चि॒त्रम् । उ॒च्छन्ती॑म् । उ॒षस॑म् । न । गावः॑ ॥

    उप । प्र । जिन्वन् । उशतीः । उशन्तम् । पतिम् । न । नित्यम् । जनयः । सऽनीळाः ।
    स्वसारः । श्यावीम् । अरुषीम् । अजुष्रन् । चित्रम् । उच्छन्तीम् । उषसम् । न । गावः ॥

    úpa ǀ prá ǀ jinvan ǀ uśatī́ḥ ǀ uśántam ǀ pátim ǀ ná ǀ nítyam ǀ jánayaḥ ǀ sá-nīḷāḥ ǀ
    svásāraḥ ǀ śyā́vīm ǀ áruṣīm ǀ ajuṣran ǀ citrám ǀ ucchántīm ǀ uṣásam ǀ ná ǀ gā́vaḥ ǁ

    upa ǀ pra ǀ jinvan ǀ uśatīḥ ǀ uśantam ǀ patim ǀ na ǀ nityam ǀ janayaḥ ǀ sa-nīḷāḥ ǀ
    svasāraḥ ǀ śyāvīm ǀ aruṣīm ǀ ajuṣran ǀ citram ǀ ucchantīm ǀ uṣasam ǀ na ǀ gāvaḥ ǁ

    1.71.1 Aṣṭaka 1.5.15.1Anuvāka 1.12.62

  2. Ṛk 2

    वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नंगि॑रसो॒ रवे॑ण ।
    च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अहः॒ स्व॑र्विविदुः के॒तुमु॒स्राः ॥

    वीऌउ चिद् दृऌहा पितरो न उक्थैर् अद्रिं रुजन्न् अङ्गिरसो रवेण |
    चक्रुर् दिवो बृहतो गातुम् अस्मे अहः स्वर् विविदुः केतुम् उस्राः ||

    vīḷú ciddṛḷhā́ pitáro na uktháirádrim rujannáṅgiraso ráveṇa ǀ
    cakrúrdivó bṛható gātúmasmé áhaḥ svárvividuḥ ketúmusrā́ḥ ǁ

    vīḷu cid dṛḷhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa |
    cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ ||

    वी॒ळु । चि॒त् । दृ॒ळ्हा । पि॒तरः॑ । नः॒ । उ॒क्थैः । अद्रि॑म् । रु॒ज॒न् । अङ्गि॑रसः । रवे॑ण ।
    च॒क्रुः । दि॒वः । बृ॒ह॒तः । गा॒तुम् । अ॒स्मे इति॑ । अह॒रिति॑ । स्वः॑ । वि॒वि॒दुः॒ । के॒तुम् । उ॒स्राः ॥

    वीळु । चित् । दृळ्हा । पितरः । नः । उक्थैः । अद्रिम् । रुजन् । अङ्गिरसः । रवेण ।
    चक्रुः । दिवः । बृहतः । गातुम् । अस्मे इति । अहरिति । स्वः । विविदुः । केतुम् । उस्राः ॥

    vīḷú ǀ cit ǀ dṛḷhā́ ǀ pitáraḥ ǀ naḥ ǀ uktháiḥ ǀ ádrim ǀ rujan ǀ áṅgirasaḥ ǀ ráveṇa ǀ
    cakrúḥ ǀ diváḥ ǀ bṛhatáḥ ǀ gātúm ǀ asmé íti ǀ áharíti ǀ sváḥ ǀ vividuḥ ǀ ketúm ǀ usrā́ḥ ǁ

    vīḷu ǀ cit ǀ dṛḷhā ǀ pitaraḥ ǀ naḥ ǀ ukthaiḥ ǀ adrim ǀ rujan ǀ aṅgirasaḥ ǀ raveṇa ǀ
    cakruḥ ǀ divaḥ ǀ bṛhataḥ ǀ gātum ǀ asme iti ǀ ahariti ǀ svaḥ ǀ vividuḥ ǀ ketum ǀ usrāḥ ǁ

    1.71.2 Aṣṭaka 1.5.15.2Anuvāka 1.12.63

  3. Ṛk 3

    दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः ।
    अतृ॑ष्यंतीर॒पसो॑ यं॒त्यच्छा॑ दे॒वांजन्म॒ प्रय॑सा व॒र्धयं॑तीः ॥

    दधन्न् ऋतं धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो विभृत्राः |
    अतृष्यन्तीर् अपसो यन्त्य् अच्छा देवाञ् जन्म प्रयसा वर्धयन्तीः ||

    dádhannṛtám dhanáyannasya dhītímā́dídaryó didhiṣvó víbhṛtrāḥ ǀ
    átṛṣyantīrapáso yantyácchā devā́ñjánma práyasā vardháyantīḥ ǁ

    dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ |
    atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ ||

    दध॑न् । ऋ॒तम् । ध॒नय॑न् । अ॒स्य॒ । धी॒तिम् । आत् । इत् । अ॒र्यः । दि॒धि॒ष्वः॑ । विऽभृ॑त्राः ।
    अतृ॑ष्यन्तीः । अ॒पसः॑ । य॒न्ति॒ । अच्छ॑ । दे॒वान् । जन्म॑ । प्रय॑सा । व॒र्धय॑न्तीः ॥

    दधन् । ऋतम् । धनयन् । अस्य । धीतिम् । आत् । इत् । अर्यः । दिधिष्वः । विऽभृत्राः ।
    अतृष्यन्तीः । अपसः । यन्ति । अच्छ । देवान् । जन्म । प्रयसा । वर्धयन्तीः ॥

    dádhan ǀ ṛtám ǀ dhanáyan ǀ asya ǀ dhītím ǀ ā́t ǀ ít ǀ aryáḥ ǀ didhiṣváḥ ǀ ví-bhṛtrāḥ ǀ
    átṛṣyantīḥ ǀ apásaḥ ǀ yanti ǀ áccha ǀ devā́n ǀ jánma ǀ práyasā ǀ vardháyantīḥ ǁ

    dadhan ǀ ṛtam ǀ dhanayan ǀ asya ǀ dhītim ǀ āt ǀ it ǀ aryaḥ ǀ didhiṣvaḥ ǀ vi-bhṛtrāḥ ǀ
    atṛṣyantīḥ ǀ apasaḥ ǀ yanti ǀ accha ǀ devān ǀ janma ǀ prayasā ǀ vardhayantīḥ ǁ

    1.71.3 Aṣṭaka 1.5.15.3Anuvāka 1.12.64

  4. Ṛk 4

    मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् ।
    आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥

    मथीद् यद् ईं विभृतो मातरिश्वा गृहे-गृहे श्येतो जेन्यो भूत् |
    आद् ईं राज्ञे न सहीयसे सचा सन्न् आ दूत्यम् भृगवाणो विवाय ||

    máthīdyádīm víbhṛto mātaríśvā gṛhégṛhe śyetó jényo bhū́t ǀ
    ā́dīm rā́jñe ná sáhīyase sácā sánnā́ dūtyám bhṛ́gavāṇo vivāya ǁ

    mathīd yad īṃ vibhṛto mātariśvā gṛhe-gṛhe śyeto jenyo bhūt |
    ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya ||

    मथी॑त् । यत् । ई॒म् । विऽभृ॑तः । मा॒त॒रिश्वा॑ । गृ॒हेऽगृ॑हे । श्ये॒तः । जेन्यः॑ । भूत् ।
    आत् । ई॒म् । राज्ञे॑ । न । सही॑यसे । सचा॑ । सन् । आ । दू॒त्य॑म् । भृग॑वाणः । वि॒वा॒य॒ ॥

    मथीत् । यत् । ईम् । विऽभृतः । मातरिश्वा । गृहेऽगृहे । श्येतः । जेन्यः । भूत् ।
    आत् । ईम् । राज्ञे । न । सहीयसे । सचा । सन् । आ । दूत्यम् । भृगवाणः । विवाय ॥

    máthīt ǀ yát ǀ īm ǀ ví-bhṛtaḥ ǀ mātaríśvā ǀ gṛhé-gṛhe ǀ śyetáḥ ǀ jényaḥ ǀ bhū́t ǀ
    ā́t ǀ īm ǀ rā́jñe ǀ ná ǀ sáhīyase ǀ sácā ǀ sán ǀ ā́ ǀ dūtyám ǀ bhṛ́gavāṇaḥ ǀ vivāya ǁ

    mathīt ǀ yat ǀ īm ǀ vi-bhṛtaḥ ǀ mātariśvā ǀ gṛhe-gṛhe ǀ śyetaḥ ǀ jenyaḥ ǀ bhūt ǀ
    āt ǀ īm ǀ rājñe ǀ na ǀ sahīyase ǀ sacā ǀ san ǀ ā ǀ dūtyam ǀ bhṛgavāṇaḥ ǀ vivāya ǁ

    1.71.4 Aṣṭaka 1.5.15.4Anuvāka 1.12.65

  5. Ṛk 5

    म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् ।
    सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥

    महे यत् पित्र ईं रसं दिवे कर् अव त्सरत् पृशन्यश् चिकित्वान् |
    सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायां देवो दुहितरि त्विषिं धात् ||

    mahé yátpitrá īm rásam divé káráva tsaratpṛśanyáścikitvā́n ǀ
    sṛjádástā dhṛṣatā́ didyúmasmai svā́yām devó duhitári tvíṣim dhāt ǁ

    mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān |
    sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt ||

    म॒हे । यत् । पि॒त्रे । ई॒म् । रस॑म् । दि॒वे । कः । अव॑ । त्स॒र॒त् । पृ॒श॒न्यः॑ । चि॒कि॒त्वान् ।
    सृ॒जत् । अस्ता॑ । धृ॒ष॒ता । दि॒द्युम् । अ॒स्मै॒ । स्वाया॑म् । दे॒वः । दु॒हि॒तरि॑ । त्विषि॑म् । धा॒त् ॥

    महे । यत् । पित्रे । ईम् । रसम् । दिवे । कः । अव । त्सरत् । पृशन्यः । चिकित्वान् ।
    सृजत् । अस्ता । धृषता । दिद्युम् । अस्मै । स्वायाम् । देवः । दुहितरि । त्विषिम् । धात् ॥

    mahé ǀ yát ǀ pitré ǀ īm ǀ rásam ǀ divé ǀ káḥ ǀ áva ǀ tsarat ǀ pṛśanyáḥ ǀ cikitvā́n ǀ
    sṛját ǀ ástā ǀ dhṛṣatā́ ǀ didyúm ǀ asmai ǀ svā́yām ǀ deváḥ ǀ duhitári ǀ tvíṣim ǀ dhāt ǁ

    mahe ǀ yat ǀ pitre ǀ īm ǀ rasam ǀ dive ǀ kaḥ ǀ ava ǀ tsarat ǀ pṛśanyaḥ ǀ cikitvān ǀ
    sṛjat ǀ astā ǀ dhṛṣatā ǀ didyum ǀ asmai ǀ svāyām ǀ devaḥ ǀ duhitari ǀ tviṣim ǀ dhāt ǁ

    1.71.5 Aṣṭaka 1.5.15.5Anuvāka 1.12.66

  6. Ṛk 6

    स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् ।
    वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ॥

    स्व आ यस् तुभ्यं दम आ विभाति नमो वा दाशाद् उशतो अनु द्यून् |
    वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं जुनासि ||

    svá ā́ yástúbhyam dáma ā́ vibhā́ti námo vā dā́śāduśató ánu dyū́n ǀ
    várdho agne váyo asya dvibárhā yā́sadrāyā́ sarátham yám junā́si ǁ

    sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn |
    vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi ||

    स्वे । आ । यः । तुभ्य॑म् । दमे॑ । आ । वि॒ऽभाति॑ । नमः॑ । वा॒ । दाशा॑त् । उ॒श॒तः । अनु॑ । द्यून् ।
    वर्धः॑ । अ॒ग्ने॒ । वयः॑ । अ॒स्य॒ । द्वि॒ऽबर्हाः॑ । यास॑त् । रा॒या । स॒ऽरथ॑म् । यम् । जु॒नासि॑ ॥

    स्वे । आ । यः । तुभ्यम् । दमे । आ । विऽभाति । नमः । वा । दाशात् । उशतः । अनु । द्यून् ।
    वर्धः । अग्ने । वयः । अस्य । द्विऽबर्हाः । यासत् । राया । सऽरथम् । यम् । जुनासि ॥

    své ǀ ā́ ǀ yáḥ ǀ túbhyam ǀ dáme ǀ ā́ ǀ vi-bhā́ti ǀ námaḥ ǀ vā ǀ dā́śāt ǀ uśatáḥ ǀ ánu ǀ dyū́n ǀ
    várdhaḥ ǀ agne ǀ váyaḥ ǀ asya ǀ dvi-bárhāḥ ǀ yā́sat ǀ rāyā́ ǀ sa-rátham ǀ yám ǀ junā́si ǁ

    sve ǀ ā ǀ yaḥ ǀ tubhyam ǀ dame ǀ ā ǀ vi-bhāti ǀ namaḥ ǀ vā ǀ dāśāt ǀ uśataḥ ǀ anu ǀ dyūn ǀ
    vardhaḥ ǀ agne ǀ vayaḥ ǀ asya ǀ dvi-barhāḥ ǀ yāsat ǀ rāyā ǀ sa-ratham ǀ yam ǀ junāsi ǁ

    1.71.6 Aṣṭaka 1.5.16.1Anuvāka 1.12.67

  7. Ṛk 7

    अ॒ग्निं विश्वा॑ अ॒भि पृक्षः॑ सचंते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः ।
    न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥

    अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः |
    न जामिभिर् वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ||

    agním víśvā abhí pṛ́kṣaḥ sacante samudrám ná sravátaḥ saptá yahvī́ḥ ǀ
    ná jāmíbhirví cikite váyo no vidā́ devéṣu prámatim cikitvā́n ǁ

    agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ |
    na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān ||

    अ॒ग्निम् । विश्वाः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । स॒मु॒द्रम् । न । स्र॒वतः॑ । स॒प्त । य॒ह्वीः ।
    न । जा॒मिऽभिः॑ । वि । चि॒कि॒ते॒ । वयः॑ । नः॒ । वि॒दाः । दे॒वेषु॑ । प्रऽम॑तिम् । चि॒कि॒त्वान् ॥

    अग्निम् । विश्वाः । अभि । पृक्षः । सचन्ते । समुद्रम् । न । स्रवतः । सप्त । यह्वीः ।
    न । जामिऽभिः । वि । चिकिते । वयः । नः । विदाः । देवेषु । प्रऽमतिम् । चिकित्वान् ॥

    agním ǀ víśvāḥ ǀ abhí ǀ pṛ́kṣaḥ ǀ sacante ǀ samudrám ǀ ná ǀ sravátaḥ ǀ saptá ǀ yahvī́ḥ ǀ
    ná ǀ jāmí-bhiḥ ǀ ví ǀ cikite ǀ váyaḥ ǀ naḥ ǀ vidā́ḥ ǀ devéṣu ǀ prá-matim ǀ cikitvā́n ǁ

    agnim ǀ viśvāḥ ǀ abhi ǀ pṛkṣaḥ ǀ sacante ǀ samudram ǀ na ǀ sravataḥ ǀ sapta ǀ yahvīḥ ǀ
    na ǀ jāmi-bhiḥ ǀ vi ǀ cikite ǀ vayaḥ ǀ naḥ ǀ vidāḥ ǀ deveṣu ǀ pra-matim ǀ cikitvān ǁ

    1.71.7 Aṣṭaka 1.5.16.2Anuvāka 1.12.68

  8. Ṛk 8

    आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।
    अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥

    आ यद् इषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौर् अभीके |
    अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच् च ||

    ā́ yádiṣé nṛpátim téja ā́naṭchúci réto níṣiktam dyáurabhī́ke ǀ
    agníḥ śárdhamanavadyám yúvānam svādhyám janayatsūdáyacca ǁ

    ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke |
    agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca ||

    आ । यत् । इ॒षे । नृ॒ऽपति॑म् । तेजः॑ । आन॑ट् । शुचि॑ । रेतः॑ । निऽसि॑क्तम् । द्यौः । अ॒भीके॑ ।
    अ॒ग्निः । शर्ध॑म् । अ॒न॒व॒द्यम् । युवा॑नम् । सु॒ऽआ॒ध्य॑म् । ज॒न॒य॒त् । सू॒दय॑त् । च॒ ॥

    आ । यत् । इषे । नृऽपतिम् । तेजः । आनट् । शुचि । रेतः । निऽसिक्तम् । द्यौः । अभीके ।
    अग्निः । शर्धम् । अनवद्यम् । युवानम् । सुऽआध्यम् । जनयत् । सूदयत् । च ॥

    ā́ ǀ yát ǀ iṣé ǀ nṛ-pátim ǀ téjaḥ ǀ ā́naṭ ǀ śúci ǀ rétaḥ ǀ ní-siktam ǀ dyáuḥ ǀ abhī́ke ǀ
    agníḥ ǀ śárdham ǀ anavadyám ǀ yúvānam ǀ su-ādhyám ǀ janayat ǀ sūdáyat ǀ ca ǁ

    ā ǀ yat ǀ iṣe ǀ nṛ-patim ǀ tejaḥ ǀ ānaṭ ǀ śuci ǀ retaḥ ǀ ni-siktam ǀ dyauḥ ǀ abhīke ǀ
    agniḥ ǀ śardham ǀ anavadyam ǀ yuvānam ǀ su-ādhyam ǀ janayat ǀ sūdayat ǀ ca ǁ

    1.71.8 Aṣṭaka 1.5.16.3Anuvāka 1.12.69

  9. Ṛk 9

    मनो॒ न योऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे ।
    राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥

    मनो न यो ऽध्वनः सद्य एत्य् एकः सत्रा सूरो वस्व ईशे |
    राजाना मित्रावरुणा सुपाणी गोषु प्रियम् अमृतं रक्षमाणा ||

    máno ná yó’dhvanaḥ sadyá étyékaḥ satrā́ sū́ro vásva īśe ǀ
    rā́jānā mitrā́váruṇā supāṇī́ góṣu priyámamṛ́tam rákṣamāṇā ǁ

    mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe |
    rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā ||

    मनः॑ । न । यः । अध्व॑नः । स॒द्यः । एति॑ । एकः॑ । स॒त्रा । सूरः॑ । वस्वः॑ । ई॒शे॒ ।
    राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी । गोषु॑ । प्रि॒यम् । अ॒मृत॑म् । रक्ष॑माणा ॥

    मनः । न । यः । अध्वनः । सद्यः । एति । एकः । सत्रा । सूरः । वस्वः । ईशे ।
    राजाना । मित्रावरुणा । सुपाणी इति सुऽपाणी । गोषु । प्रियम् । अमृतम् । रक्षमाणा ॥

    mánaḥ ǀ ná ǀ yáḥ ǀ ádhvanaḥ ǀ sadyáḥ ǀ éti ǀ ékaḥ ǀ satrā́ ǀ sū́raḥ ǀ vásvaḥ ǀ īśe ǀ
    rā́jānā ǀ mitrā́váruṇā ǀ supāṇī́ íti su-pāṇī́ ǀ góṣu ǀ priyám ǀ amṛ́tam ǀ rákṣamāṇā ǁ

    manaḥ ǀ na ǀ yaḥ ǀ adhvanaḥ ǀ sadyaḥ ǀ eti ǀ ekaḥ ǀ satrā ǀ sūraḥ ǀ vasvaḥ ǀ īśe ǀ
    rājānā ǀ mitrāvaruṇā ǀ supāṇī iti su-pāṇī ǀ goṣu ǀ priyam ǀ amṛtam ǀ rakṣamāṇā ǁ

    1.71.9 Aṣṭaka 1.5.16.4Anuvāka 1.12.70

  10. Ṛk 10

    मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् ।
    नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ॥

    मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् |
    नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेर् अधीहि ||

    mā́ no agne sakhyā́ pítryāṇi prá marṣiṣṭhā abhí vidúṣkavíḥ sán ǀ
    nábho ná rūpám jarimā́ mināti purā́ tásyā abhíśasterádhīhi ǁ

    mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san |
    nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi ||

    मा । नः॒ । अ॒ग्ने॒ । स॒ख्या । पित्र्या॑णि । प्र । म॒र्षि॒ष्ठाः॒ । अ॒भि । वि॒दुः । क॒विः । सन् ।
    नभः॑ । न । रू॒पम् । ज॒रि॒मा । मि॒ना॒ति॒ । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अधि॑ । इ॒हि॒ ॥

    मा । नः । अग्ने । सख्या । पित्र्याणि । प्र । मर्षिष्ठाः । अभि । विदुः । कविः । सन् ।
    नभः । न । रूपम् । जरिमा । मिनाति । पुरा । तस्याः । अभिऽशस्तेः । अधि । इहि ॥

    mā́ ǀ naḥ ǀ agne ǀ sakhyā́ ǀ pítryāṇi ǀ prá ǀ marṣiṣṭhāḥ ǀ abhí ǀ vidúḥ ǀ kavíḥ ǀ sán ǀ
    nábhaḥ ǀ ná ǀ rūpám ǀ jarimā́ ǀ mināti ǀ purā́ ǀ tásyāḥ ǀ abhí-śasteḥ ǀ ádhi ǀ ihi ǁ

    mā ǀ naḥ ǀ agne ǀ sakhyā ǀ pitryāṇi ǀ pra ǀ marṣiṣṭhāḥ ǀ abhi ǀ viduḥ ǀ kaviḥ ǀ san ǀ
    nabhaḥ ǀ na ǀ rūpam ǀ jarimā ǀ mināti ǀ purā ǀ tasyāḥ ǀ abhi-śasteḥ ǀ adhi ǀ ihi ǁ

    1.71.10 Aṣṭaka 1.5.16.5Anuvāka 1.12.71

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.71 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

The Mothers who dwell in one abode, desiring came to him who desired them and gave him pleasure as to their eternal spouse: the sisters took joy in him as the Ray-Cows in the Dawn when she comes dusky, flushing red, then shining out in rich hues. (16HTMF 101)

हिन्दी

माताएँ जो एक निवास में रहती हैं, कामना करती हुई उनके पास आईं जो उनकी कामना कर रहे थे और उन्हें आनंद दिया जैसे कि अपने शाश्वत पति को दे रही हों: बहनों ने उनमें प्रसन्नता प्राप्त की जैसे उषा में गौ रूपी किरणें, जब वह श्यामल, लाल फिर भरपूर वर्णों में चमकती हुई आती हैं।

Ṛk 2

Our fathers broke open the firm and strong places by their words, yea, the Angirasas broke open the hill by their criy; they made in us the path to the Great heaven; they found the Day and Swar and vision and the luminous Cows. (SABCL, Vol. 10, p. 191)

Our fathers by their words broke the strong and stubborn places, the Angiras seers shattered the mountain rock with their cry; they made in us a path to great Heaven, they discovered the Day and the sun-world and the intuitive ray and the shining herds. (SABCL, Vol. 11, p. 59)

हिन्दी

हमारे पित्रों ने अपने मंत्रों द्वारा प्रबल और हठी क्षेत्रों को तोड़ा, अंगिरस ऋषियों ने अपनी पुकार से पहाड़ी चट्टान को चूर-चूर कर दिया; हममें उन्होंने महान स्वर्ग तक एक पथ का निर्माण किया, उन्होंने दिवस और सूर्यलोक और अंतर्ज्ञानी केतु-किरण और शुभ्र झुंडों की खोजप्राप्ति की।

Ṛk 3

They held the truth, they enriched its thought; then indeed, aspiring souls (aryaU), they, holding it in thought, bore it diffused in all their being. (SABCL, Vol. 10, p. 192)

They held the Truth, they enriched the thought of this human being; then, indeed, had they mastery and understanding bearing wide the flame, the powers at work go towards the gods making the Birth to grow by delight. (SABCL, Vol. 11, p. 59)

हिन्दी

उन्होंने परमसत्य को धारण किया, इस मनुष्य की विचारधारा को सम्पन्न किया; तत्पश्चात्त, निस्संदेह, ज्वाला को धारण किये हुए, उन्हें प्रभुत्व और ज्ञप्ति थी, कार्य में संलग्न शक्तियाँ, देवों की ओर जाती हैं जिससे जन्म परमानंद से वर्धित होता है।

Ṛk 4

When the Life-Breath borne pervadingly within has churned him out in house and house he becomes white and a conqueror. Then indeed he becomes the Flaming Seer and companioning us goes on an embassy as for a powerful king. (16HTMF 101)

हिन्दी

उसे व्याप्त रूप से भीतर जन्मने के बाद, जब प्राण ने उन्हें मथ कर घर-घर में स्थापित किया, वे श्वेत वर्णीय और विजेता बन जाते हैं। फिर, निःसंदेह, वे प्रज्ज्वलित दृष्टा बन जाते हैं और हमारे साथी के रूप में, दूत बनकर जाते हैं, जैसे किसी शक्तिशाली नृप के लिये जाते हैं।

Ṛk 5

When he had made this sap of essence for the great Father Heaven, he came slipping downward, one close in touch, having knowledge. The Archer loosed violently on him his arrow of lightning, but the god set the flaming energy in his own daughter. (16HTMF 102)

हिन्दी

जब उन्होंने महान पिता स्वर्ग के लिये सत्त का अर्क (रस) बनाया, वे नीचे फिसलते हुए आए, स्पर्श हेतु समीप, ज्ञानयुक्त। धनुर्धर ने अपना विद्युत बाण उनपर बलपूर्वक छोड़ा, परन्तु देव ने ज्वलंत ऊर्जा को अपनी पुत्री में स्थापित किया।

Ṛk 6

He who kindles the light for thee in thy own home and offers obeisance of surrender day by day and thy desire is towards him, mayst thou in thy twofold mass increase his growth, he whom thou speedest in one car with thee, may he travel with the riches. (16HTMF 102)

हिन्दी

वह जो आपके लिये प्रकाश को आपके गृह में संदीप्त करता है और दिन-प्रतिदिन श्रद्धा समर्पित करता है और आप उसके इच्छुक हैं, आप, अपने दोहरे पुंज में, उसकी बढ़त का वर्धन करिये, वह जिसे आप अपने साथ एक वाहन में तीव्र गति से ले जा रहे हैं, वह निधियों के साथ यात्रा कर सके।

Ṛk 7

All satisfactions cleave to the Fire as the seven mighty rivers join the ocean. Our growth of being has not been perceived by thy companions, but thou who hast perceived, impart to the gods thy knowledge.19 (16HTMF 102)

हिन्दी

सम्पूर्ण संतुष्टियाँ अग्नि से चिपक जाती हैं जैसे सातों नदियाँ सागर में मिल जाती हैं। हमारी सत्ता के वर्धन का बोध आपके साथियों को नहीं हुआ है, परंतु, आप उ, जिन्हें उसका बोध है, देवों को वह ज्ञान दीजिये (या हमारे लिये देवों के ज्ञान का लाभ उठाइये)।

Ṛk 8

When a flame of energy came to this King of men for impelling force, when in their meeting Heaven was cast in him like pure seed, the Fire gave birth to a might,20 young and faultless and perfect in thought and sped it on its way. (16HTMF 102)

हिन्दी

शक्ति को उत्तेजित करने जब ऊर्जा की एक ज्वाला इन मनुष्यों के राजा तक पहुँची, जब उनके मिलन में स्वर्ग, शुद्ध बीज के रूप में उनमें ढाला गया, अग्नि ने एक महाबल (या प्राण देवों की सेना, मरुताम् शर्धः) को जन्म दिया, युवक और दोषरहित और विचार में पूर्ण, और उसे पथ पर तीव्र गति से आगे भेजा।

Ṛk 9

He who travels the paths suddenly like the mind, the Sun, ever sole is the master of the treasure: Mitra and Varuna, the Kings with beautiful hands, are there guarding in the Rays21 delight and immortality.(16HTMF 103)

हिन्दी

वह जो मनस के समान अकस्मात पथ पर यात्रा करते हैं, सूर्य, निधि के स्वामी वह अकेले हैं: मित्र और वरुण, सुन्दर हाथों वाले परमराजा, किरणों में (या गौ रूपी किरणों में, सूर्य के चमकदार गायों की झुंडों में) आनंद और अमरता की रक्षा करते हुए वहाँ हैं।

Ṛk 10

O Fire, mayst thou not forget22 ancient friendships, thou who art turned towards us as the knower and seer. As a mist dims a form, age diminishes us; before that hurt falls upon us, arrive.23 (16HTMF 103)

हिन्दी

हे अग्नि, आप न भूलियेगा (या अपेक्षा करियेगा या मिटा दीजियेगा) पुरानी मित्रताओं को, आप जो हमारी ओर ज्ञानी और दृष्टा के रूप में मुड़कर खड़े हैं। जैसे कोहरा आकार को धुँधला कर देता है, आयु हमें क्षीण कर देती है; वह कष्ट (या वार) हमपर टूट पड़े, उसके पूर्व आप पधारिये (उस वार के आने से पहले, ध्यान दीजिये)।