Sūkta 72
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 2, 5, 6); bhurikpaṅkti (3, 8); triṣṭup (4, 10); nicṛttriṣṭup (7, 9)
2nd set of styles triṣṭubh
-
Ṛk 1
नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ॥नि काव्या वेधसः शश्वतस् कर् हस्ते दधानो नर्या पुरूणि |
अग्निर् भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ||ní kā́vyā vedhásaḥ śáśvataskarháste dádhāno náryā purū́ṇi ǀ
agnírbhuvadrayipátī rayīṇā́m satrā́ cakrāṇó amṛ́tāni víśvā ǁni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi |
agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā ||नि । काव्या॑ । वे॒धसः॑ । शश्व॑तः । कः॒ । हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ ।
अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । स॒त्रा । च॒क्रा॒णः । अ॒मृता॑नि । विश्वा॑ ॥नि । काव्या । वेधसः । शश्वतः । कः । हस्ते । दधानः । नर्या । पुरूणि ।
अग्निः । भुवत् । रयिऽपतिः । रयीणाम् । सत्रा । चक्राणः । अमृतानि । विश्वा ॥ní ǀ kā́vyā ǀ vedhásaḥ ǀ śáśvataḥ ǀ kaḥ ǀ háste ǀ dádhānaḥ ǀ náryā ǀ purū́ṇi ǀ
agníḥ ǀ bhuvat ǀ rayi-pátiḥ ǀ rayīṇā́m ǀ satrā́ ǀ cakrāṇáḥ ǀ amṛ́tāni ǀ víśvā ǁni ǀ kāvyā ǀ vedhasaḥ ǀ śaśvataḥ ǀ kaḥ ǀ haste ǀ dadhānaḥ ǀ naryā ǀ purūṇi ǀ
agniḥ ǀ bhuvat ǀ rayi-patiḥ ǀ rayīṇām ǀ satrā ǀ cakrāṇaḥ ǀ amṛtāni ǀ viśvā ǁ1.72.1 Aṣṭaka 1.5.17.1Anuvāka 1.12.72
-
Ṛk 2
अ॒स्मे व॒त्सं परि॒ षंतं॒ न विं॑दन्नि॒च्छंतो॒ विश्वे॑ अ॒मृता॒ अमू॑राः ।
श्र॒म॒युवः॑ पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥अस्मे वत्सम् परि षन्तं न विन्दन्न् इच्छन्तो विश्वे अमृता अमूराः |
श्रमयुवः पदव्यो धियन्धास् तस्थुः पदे परमे चार्व् अग्नेः ||asmé vatsám pári ṣántam ná vindannicchánto víśve amṛ́tā ámūrāḥ ǀ
śramayúvaḥ padavyó dhiyaṃdhā́stasthúḥ padé paramé cā́rvagnéḥ ǁasme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ |
śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ ||अ॒स्मे इति॑ । व॒त्सम् । परि॑ । सन्त॑म् । न । वि॒न्द॒न् । इ॒च्छन्तः॑ । विश्वे॑ । अ॒मृताः॑ । अमू॑राः ।
श्र॒म॒ऽयुवः॑ । प॒द॒ऽव्यः॑ । धि॒य॒म्ऽधाः । त॒स्थुः । प॒दे । प॒र॒मे । चारु॑ । अ॒ग्नेः ॥अस्मे इति । वत्सम् । परि । सन्तम् । न । विन्दन् । इच्छन्तः । विश्वे । अमृताः । अमूराः ।
श्रमऽयुवः । पदऽव्यः । धियम्ऽधाः । तस्थुः । पदे । परमे । चारु । अग्नेः ॥asmé íti ǀ vatsám ǀ pári ǀ sántam ǀ ná ǀ vindan ǀ icchántaḥ ǀ víśve ǀ amṛ́tāḥ ǀ ámūrāḥ ǀ
śrama-yúvaḥ ǀ pada-vyáḥ ǀ dhiyam-dhā́ḥ ǀ tasthúḥ ǀ padé ǀ paramé ǀ cā́ru ǀ agnéḥ ǁasme iti ǀ vatsam ǀ pari ǀ santam ǀ na ǀ vindan ǀ icchantaḥ ǀ viśve ǀ amṛtāḥ ǀ amūrāḥ ǀ
śrama-yuvaḥ ǀ pada-vyaḥ ǀ dhiyam-dhāḥ ǀ tasthuḥ ǀ pade ǀ parame ǀ cāru ǀ agneḥ ǁ1.72.2 Aṣṭaka 1.5.17.2Anuvāka 1.12.73
-
Ṛk 3
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् ।
नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयंत त॒न्वः१॒॑ सुजा॑ताः ॥तिस्रो यद् अग्ने शरदस् त्वाम् इच् छुचिं घृतेन शुचयः सपर्यान् |
नामानि चिद् दधिरे यज्ञियान्य् असूदयन्त तन्वः सुजाताः ||tisró yádagne śarádastvā́mícchúcim ghṛténa śúcayaḥ saparyā́n ǀ
nā́māni ciddadhire yajñíyānyásūdayanta tanváḥ sújātāḥ ǁtisro yad agne śaradas tvām ic chuciṃ ghṛtena śucayaḥ saparyān |
nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ ||ति॒स्रः । यत् । अ॒ग्ने॒ । श॒रदः॑ । त्वाम् । इत् । शुचि॑म् । घृ॒तेन॑ । शुच॑यः । स॒प॒र्यान् ।
नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । असू॑दयन्त । त॒न्वः॑ । सुऽजा॑ताः ॥तिस्रः । यत् । अग्ने । शरदः । त्वाम् । इत् । शुचिम् । घृतेन । शुचयः । सपर्यान् ।
नामानि । चित् । दधिरे । यज्ञियानि । असूदयन्त । तन्वः । सुऽजाताः ॥tisráḥ ǀ yát ǀ agne ǀ śarádaḥ ǀ tvā́m ǀ ít ǀ śúcim ǀ ghṛténa ǀ śúcayaḥ ǀ saparyā́n ǀ
nā́māni ǀ cit ǀ dadhire ǀ yajñíyāni ǀ ásūdayanta ǀ tanváḥ ǀ sú-jātāḥ ǁtisraḥ ǀ yat ǀ agne ǀ śaradaḥ ǀ tvām ǀ it ǀ śucim ǀ ghṛtena ǀ śucayaḥ ǀ saparyān ǀ
nāmāni ǀ cit ǀ dadhire ǀ yajñiyāni ǀ asūdayanta ǀ tanvaḥ ǀ su-jātāḥ ǁ1.72.3 Aṣṭaka 1.5.17.3Anuvāka 1.12.74
-
Ṛk 4
आ रोद॑सी बृह॒ती वेवि॑दानाः॒ प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः ।
वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांसं॑ ॥आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः |
विदन् मर्तो नेमधिता चिकित्वान् अग्निम् पदे परमे तस्थिवांसम् ||ā́ ródasī bṛhatī́ vévidānāḥ prá rudríyā jabhrire yajñíyāsaḥ ǀ
vidánmárto nemádhitā cikitvā́nagním padé paramé tasthivā́ṃsam ǁā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ |
vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam ||आ । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । वेवि॑दानाः । प्र । रु॒द्रिया॑ । ज॒भ्रि॒रे॒ । य॒ज्ञिया॑सः ।
वि॒दत् । मर्तः॑ । ने॒मऽधि॑ता । चि॒कि॒त्वान् । अ॒ग्निम् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् ॥आ । रोदसी इति । बृहती इति । वेविदानाः । प्र । रुद्रिया । जभ्रिरे । यज्ञियासः ।
विदत् । मर्तः । नेमऽधिता । चिकित्वान् । अग्निम् । पदे । परमे । तस्थिऽवांसम् ॥ā́ ǀ ródasī íti ǀ bṛhatī́ íti ǀ vévidānāḥ ǀ prá ǀ rudríyā ǀ jabhrire ǀ yajñíyāsaḥ ǀ
vidát ǀ mártaḥ ǀ nemá-dhitā ǀ cikitvā́n ǀ agním ǀ padé ǀ paramé ǀ tasthi-vā́ṃsam ǁā ǀ rodasī iti ǀ bṛhatī iti ǀ vevidānāḥ ǀ pra ǀ rudriyā ǀ jabhrire ǀ yajñiyāsaḥ ǀ
vidat ǀ martaḥ ǀ nema-dhitā ǀ cikitvān ǀ agnim ǀ pade ǀ parame ǀ tasthi-vāṃsam ǁ1.72.4 Aṣṭaka 1.5.17.4Anuvāka 1.12.75
-
Ṛk 5
सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वंतो नम॒स्यं॑ नमस्यन् ।
रि॒रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥संजानाना उप सीदन्न् अभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् |
रिरिक्वांसस् तन्वः कृण्वत स्वाः सखा सख्युर् निमिषि रक्षमाणाः ||saṃjānānā́ úpa sīdannabhijñú pátnīvanto namasyám namasyan ǀ
ririkvā́ṃsastanváḥ kṛṇvata svā́ḥ sákhā sákhyurnimíṣi rákṣamāṇāḥ ǁsaṃjānānā upa sīdann abhijñu patnīvanto namasyaṃ namasyan |
ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ ||स॒म्ऽजा॒ना॒नाः । उप॑ । सी॒द॒न् । अ॒भि॒ऽज्ञु । पत्नी॑ऽवन्तः । न॒म॒स्य॑म् । न॒म॒स्य॒न्निति॑ नमस्यन् ।
रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । स्वाः । सखा॑ । सख्युः॑ । नि॒ऽमिषि॑ । रक्ष॑माणाः ॥सम्ऽजानानाः । उप । सीदन् । अभिऽज्ञु । पत्नीऽवन्तः । नमस्यम् । नमस्यन्निति नमस्यन् ।
रिरिक्वांसः । तन्वः । कृण्वत । स्वाः । सखा । सख्युः । निऽमिषि । रक्षमाणाः ॥sam-jānānā́ḥ ǀ úpa ǀ sīdan ǀ abhi-jñú ǀ pátnī-vantaḥ ǀ namasyám ǀ namasyanníti namasyan ǀ
ririkvā́ṃsaḥ ǀ tanváḥ ǀ kṛṇvata ǀ svā́ḥ ǀ sákhā ǀ sákhyuḥ ǀ ni-míṣi ǀ rákṣamāṇāḥ ǁsam-jānānāḥ ǀ upa ǀ sīdan ǀ abhi-jñu ǀ patnī-vantaḥ ǀ namasyam ǀ namasyanniti namasyan ǀ
ririkvāṃsaḥ ǀ tanvaḥ ǀ kṛṇvata ǀ svāḥ ǀ sakhā ǀ sakhyuḥ ǀ ni-miṣi ǀ rakṣamāṇāḥ ǁ1.72.5 Aṣṭaka 1.5.17.5Anuvāka 1.12.76
-
Ṛk 6
त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः ।
तेभी॑ रक्षंते अ॒मृतं॑ स॒जोषाः॑ प॒शूंच॑ स्था॒तॄंच॒रथं॑ च पाहि ॥त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता यज्ञियासः |
तेभी रक्षन्ते अमृतं सजोषाः पशूञ् च स्थातॄञ् चरथं च पाहि ||tríḥ saptá yádgúhyāni tvé ítpadā́vidanníhitā yajñíyāsaḥ ǀ
tébhī rakṣante amṛ́tam sajóṣāḥ paśū́ñca sthātṝ́ñcarátham ca pāhi ǁtriḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ |
tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi ||त्रिः । स॒प्त । यत् । गुह्या॑नि । त्वे इति॑ । इत् । प॒दा । अ॒वि॒द॒न् । निऽहि॑ता । य॒ज्ञिया॑सः ।
तेभिः॑ । र॒क्ष॒न्ते॒ । अ॒मृत॑म् । स॒ऽजोषाः॑ । प॒शून् । च॒ । स्था॒तॄन् । च॒रथ॑म् । च॒ । पा॒हि॒ ॥त्रिः । सप्त । यत् । गुह्यानि । त्वे इति । इत् । पदा । अविदन् । निऽहिता । यज्ञियासः ।
तेभिः । रक्षन्ते । अमृतम् । सऽजोषाः । पशून् । च । स्थातॄन् । चरथम् । च । पाहि ॥tríḥ ǀ saptá ǀ yát ǀ gúhyāni ǀ tvé íti ǀ ít ǀ padā́ ǀ avidan ǀ ní-hitā ǀ yajñíyāsaḥ ǀ
tébhiḥ ǀ rakṣante ǀ amṛ́tam ǀ sa-jóṣāḥ ǀ paśū́n ǀ ca ǀ sthātṝ́n ǀ carátham ǀ ca ǀ pāhi ǁtriḥ ǀ sapta ǀ yat ǀ guhyāni ǀ tve iti ǀ it ǀ padā ǀ avidan ǀ ni-hitā ǀ yajñiyāsaḥ ǀ
tebhiḥ ǀ rakṣante ǀ amṛtam ǀ sa-joṣāḥ ǀ paśūn ǀ ca ǀ sthātṝn ǀ caratham ǀ ca ǀ pāhi ǁ1.72.6 Aṣṭaka 1.5.18.1Anuvāka 1.12.77
-
Ṛk 7
वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः ।
अं॒त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नतं॑द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥विद्वां अग्ने वयुनानि क्षितीनां व्य् आनुषक् छुरुधो जीवसे धाः |
अन्तर्विद्वां अध्वनो देवयानान् अतन्द्रो दूतो अभवो हविर्वाट् ||vidvā́m̐ agne vayúnāni kṣitīnā́m vyā́nuṣákchurúdho jīváse dhāḥ ǀ
antarvidvā́m̐ ádhvano devayā́nānátandro dūtó abhavo havirvā́ṭ ǁvidvāṃ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ |
antarvidvāṃ adhvano devayānān atandro dūto abhavo havirvāṭ ||वि॒द्वान् । अ॒ग्ने॒ । व॒युना॑नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः॑ । जी॒वसे॑ । धाः॒ ।
अ॒न्तः॒ऽवि॒द्वान् । अध्व॑नः । दे॒व॒ऽयाना॑न् । अत॑न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒ऽवाट् ॥विद्वान् । अग्ने । वयुनानि । क्षितीनाम् । वि । आनुषक् । शुरुधः । जीवसे । धाः ।
अन्तःऽविद्वान् । अध्वनः । देवऽयानान् । अतन्द्रः । दूतः । अभवः । हविःऽवाट् ॥vidvā́n ǀ agne ǀ vayúnāni ǀ kṣitīnā́m ǀ ví ǀ ānuṣák ǀ śurúdhaḥ ǀ jīváse ǀ dhāḥ ǀ
antaḥ-vidvā́n ǀ ádhvanaḥ ǀ deva-yā́nān ǀ átandraḥ ǀ dūtáḥ ǀ abhavaḥ ǀ haviḥ-vā́ṭ ǁvidvān ǀ agne ǀ vayunāni ǀ kṣitīnām ǀ vi ǀ ānuṣak ǀ śurudhaḥ ǀ jīvase ǀ dhāḥ ǀ
antaḥ-vidvān ǀ adhvanaḥ ǀ deva-yānān ǀ atandraḥ ǀ dūtaḥ ǀ abhavaḥ ǀ haviḥ-vāṭ ǁ1.72.7 Aṣṭaka 1.5.18.2Anuvāka 1.12.78
-
Ṛk 8
स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् ।
वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ॥स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् ऋतज्ञा अजानन् |
विदद् गव्यं सरमा दृऌहम् ऊर्वं येना नु कम् मानुषी भोजते विट् ||svādhyó divá ā́ saptá yahvī́ rāyó dúro vyṛ́tajñā́ ajānan ǀ
vidádgávyam sarámā dṛḷhámūrvám yénā nú kam mā́nuṣī bhójate víṭ ǁsvādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan |
vidad gavyaṃ saramā dṛḷham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ ||सु॒ऽआ॒ध्यः॑ । दि॒वः । आ । स॒प्त । य॒ह्वीः । रा॒यः । दुरः॑ । वि । ऋ॒त॒ऽज्ञाः । अ॒जा॒न॒न् ।
वि॒दत् । गव्य॑म् । स॒रमा॑ । दृ॒ळ्हम् । ऊ॒र्वम् । येन॑ । नु । क॒म् । मानु॑षी । भोज॑ते । विट् ॥सुऽआध्यः । दिवः । आ । सप्त । यह्वीः । रायः । दुरः । वि । ऋतऽज्ञाः । अजानन् ।
विदत् । गव्यम् । सरमा । दृळ्हम् । ऊर्वम् । येन । नु । कम् । मानुषी । भोजते । विट् ॥su-ādhyáḥ ǀ diváḥ ǀ ā́ ǀ saptá ǀ yahvī́ḥ ǀ rāyáḥ ǀ dúraḥ ǀ ví ǀ ṛta-jñā́ḥ ǀ ajānan ǀ
vidát ǀ gávyam ǀ sarámā ǀ dṛḷhám ǀ ūrvám ǀ yéna ǀ nú ǀ kam ǀ mā́nuṣī ǀ bhójate ǀ víṭ ǁsu-ādhyaḥ ǀ divaḥ ǀ ā ǀ sapta ǀ yahvīḥ ǀ rāyaḥ ǀ duraḥ ǀ vi ǀ ṛta-jñāḥ ǀ ajānan ǀ
vidat ǀ gavyam ǀ saramā ǀ dṛḷham ǀ ūrvam ǀ yena ǀ nu ǀ kam ǀ mānuṣī ǀ bhojate ǀ viṭ ǁ1.72.8 Aṣṭaka 1.5.18.3Anuvāka 1.12.79
-
Ṛk 9
आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुं ।
म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् |
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर् धायसे वेः ||ā́ yé víśvā svapatyā́ni tasthúḥ kṛṇvānā́so amṛtatvā́ya gātúm ǀ
mahnā́ mahádbhiḥ pṛthivī́ ví tasthe mātā́ putráiráditirdhā́yase véḥ ǁā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum |
mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ ||आ । ये । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । त॒स्थुः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् ।
म॒ह्ना । म॒हत्ऽभिः॑ । पृ॒थि॒वी । वि । त॒स्थे॒ । मा॒ता । पु॒त्रैः । अदि॑तिः । धाय॑से । वेरिति॒ वेः ॥आ । ये । विश्वा । सुऽअपत्यानि । तस्थुः । कृण्वानासः । अमृतऽत्वाय । गातुम् ।
मह्ना । महत्ऽभिः । पृथिवी । वि । तस्थे । माता । पुत्रैः । अदितिः । धायसे । वेरिति वेः ॥ā́ ǀ yé ǀ víśvā ǀ su-apatyā́ni ǀ tasthúḥ ǀ kṛṇvānā́saḥ ǀ amṛta-tvā́ya ǀ gātúm ǀ
mahnā́ ǀ mahát-bhiḥ ǀ pṛthivī́ ǀ ví ǀ tasthe ǀ mātā́ ǀ putráiḥ ǀ áditiḥ ǀ dhā́yase ǀ véríti véḥ ǁā ǀ ye ǀ viśvā ǀ su-apatyāni ǀ tasthuḥ ǀ kṛṇvānāsaḥ ǀ amṛta-tvāya ǀ gātum ǀ
mahnā ǀ mahat-bhiḥ ǀ pṛthivī ǀ vi ǀ tasthe ǀ mātā ǀ putraiḥ ǀ aditiḥ ǀ dhāyase ǀ veriti veḥ ǁ1.72.9 Aṣṭaka 1.5.18.4Anuvāka 1.12.80
-
Ṛk 10
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिंदि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् ।
अध॑ क्षरंति॒ सिंध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥अधि श्रियं नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता अकृण्वन् |
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने अरुषीर् अजानन् ||ádhi śríyam ní dadhuścā́rumasmindivó yádakṣī́ amṛ́tā ákṛṇvan ǀ
ádha kṣaranti síndhavo ná sṛṣṭā́ḥ prá nī́cīragne áruṣīrajānan ǁadhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan |
adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan ||अधि॑ । श्रिय॑म् । नि । द॒धुः॒ । चारु॑म् । अ॒स्मि॒न् । दि॒वः । यत् । अ॒क्षी इति॑ । अ॒मृताः॑ । अकृ॑ण्वन् ।
अध॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । न । सृ॒ष्टाः । प्र । नीचीः॑ । अ॒ग्ने॒ । अरु॑षीः । अ॒जा॒न॒न् ॥अधि । श्रियम् । नि । दधुः । चारुम् । अस्मिन् । दिवः । यत् । अक्षी इति । अमृताः । अकृण्वन् ।
अध । क्षरन्ति । सिन्धवः । न । सृष्टाः । प्र । नीचीः । अग्ने । अरुषीः । अजानन् ॥ádhi ǀ śríyam ǀ ní ǀ dadhuḥ ǀ cā́rum ǀ asmin ǀ diváḥ ǀ yát ǀ akṣī́ íti ǀ amṛ́tāḥ ǀ ákṛṇvan ǀ
ádha ǀ kṣaranti ǀ síndhavaḥ ǀ ná ǀ sṛṣṭā́ḥ ǀ prá ǀ nī́cīḥ ǀ agne ǀ áruṣīḥ ǀ ajānan ǁadhi ǀ śriyam ǀ ni ǀ dadhuḥ ǀ cārum ǀ asmin ǀ divaḥ ǀ yat ǀ akṣī iti ǀ amṛtāḥ ǀ akṛṇvan ǀ
adha ǀ kṣaranti ǀ sindhavaḥ ǀ na ǀ sṛṣṭāḥ ǀ pra ǀ nīcīḥ ǀ agne ǀ aruṣīḥ ǀ ajānan ǁ1.72.10 Aṣṭaka 1.5.18.5Anuvāka 1.12.81
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.