Sūkta 132
- Devatā देवता
- 1-5: Indra; 6: Indra, Parvata
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
Metres by ṛk
1st set of styles virāḍatyaṣṭiḥ (1, 3, 5, 6); bhurigatiśakvarī (2); nicṛdaṣṭiḥ (4)
2nd set of styles atyaṣṭi
-
Ṛk 1
त्वया॑ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इंद्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः ।
नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु॑न्व॒ते ।
अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे॑ कृ॒तं वा॑ज॒यंतो॒ भरे॑ कृ॒तं ॥त्वया वयम् मघवन् पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः |
नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते |
अस्मिन् यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ||tváyā vayám maghavanpū́rvye dhána índratvotāḥ sāsahyāma pṛtanyató vanuyā́ma vanuṣyatáḥ ǀ
nédiṣṭhe asmínnáhanyádhi vocā nú sunvaté ǀ
asmínyajñé ví cayemā bháre kṛtám vājayánto bháre kṛtám ǁtvayā vayam maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ |
nediṣṭhe asminn ahany adhi vocā nu sunvate |
asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam ||त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । पूर्व्ये॑ । धने॑ । इन्द्र॑त्वाऽऊताः । स॒स॒ह्या॒म॒ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः ।
नेदि॑ष्ठे । अ॒स्मिन् । अह॑नि । अधि॑ । वो॒च॒ । नु । सु॒न्व॒ते ।
अ॒स्मिन् । य॒ज्ञे । वि । च॒ये॒म॒ । भरे॑ । कृ॒तम् । वा॒ज॒ऽयन्तः॑ । भरे॑ । कृ॒तम् ॥त्वया । वयम् । मघऽवन् । पूर्व्ये । धने । इन्द्रत्वाऽऊताः । ससह्याम । पृतन्यतः । वनुयाम । वनुष्यतः ।
नेदिष्ठे । अस्मिन् । अहनि । अधि । वोच । नु । सुन्वते ।
अस्मिन् । यज्ञे । वि । चयेम । भरे । कृतम् । वाजऽयन्तः । भरे । कृतम् ॥tváyā ǀ vayám ǀ magha-van ǀ pū́rvye ǀ dháne ǀ índratvā-ūtāḥ ǀ sasahyāma ǀ pṛtanyatáḥ ǀ vanuyā́ma ǀ vanuṣyatáḥ ǀ
nédiṣṭhe ǀ asmín ǀ áhani ǀ ádhi ǀ voca ǀ nú ǀ sunvaté ǀ
asmín ǀ yajñé ǀ ví ǀ cayema ǀ bháre ǀ kṛtám ǀ vāja-yántaḥ ǀ bháre ǀ kṛtám ǁtvayā ǀ vayam ǀ magha-van ǀ pūrvye ǀ dhane ǀ indratvā-ūtāḥ ǀ sasahyāma ǀ pṛtanyataḥ ǀ vanuyāma ǀ vanuṣyataḥ ǀ
nediṣṭhe ǀ asmin ǀ ahani ǀ adhi ǀ voca ǀ nu ǀ sunvate ǀ
asmin ǀ yajñe ǀ vi ǀ cayema ǀ bhare ǀ kṛtam ǀ vāja-yantaḥ ǀ bhare ǀ kṛtam ǁ1.132.1 Aṣṭaka 2.1.21.1Anuvāka 1.19.48
-
Ṛk 2
स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुधः॒ स्वस्मि॒न्नंज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नंज॑सि ।
अह॒न्निंद्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्यः॑ ।
अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्संतु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ॥स्वर्जेषे भर आप्रस्य वक्मन्य् उषर्बुधः स्वस्मिन्न् अञ्जसि क्राणस्य स्वस्मिन्न् अञ्जसि |
अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः |
अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः ||svarjeṣé bhára āprásya vákmanyuṣarbúdhaḥ svásminnáñjasi krāṇásya svásminnáñjasi ǀ
áhanníndro yáthā vidé śīrṣṇā́śīrṣṇopavā́cyaḥ ǀ
asmatrā́ te sadhryáksantu rātáyo bhadrā́ bhadrásya rātáyaḥ ǁsvarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi |
ahann indro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ |
asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ ||स्वः॒ऽजे॒षे । भरे॑ । आ॒प्रस्य॑ । वक्म॑नि । उ॒षः॒ऽबुधः॑ । स्वस्मि॑न् । अञ्ज॑सि । क्रा॒णस्य॑ । स्वस्मि॑न् । अञ्ज॑सि ।
अह॑न् । इन्द्रः॑ । यथा॑ । वि॒दे । शी॒र्ष्णाऽशी॑र्ष्णा । उ॒प॒ऽवाच्यः॑ ।
अ॒स्म॒ऽत्रा । ते॒ । स॒ध्र्य॑क् । स॒न्तु॒ । रा॒तयः॑ । भ॒द्राः । भ॒द्रस्य॑ । रा॒तयः॑ ॥स्वःऽजेषे । भरे । आप्रस्य । वक्मनि । उषःऽबुधः । स्वस्मिन् । अञ्जसि । क्राणस्य । स्वस्मिन् । अञ्जसि ।
अहन् । इन्द्रः । यथा । विदे । शीर्ष्णाऽशीर्ष्णा । उपऽवाच्यः ।
अस्मऽत्रा । ते । सध्र्यक् । सन्तु । रातयः । भद्राः । भद्रस्य । रातयः ॥svaḥ-jeṣé ǀ bháre ǀ āprásya ǀ vákmani ǀ uṣaḥ-búdhaḥ ǀ svásmin ǀ áñjasi ǀ krāṇásya ǀ svásmin ǀ áñjasi ǀ
áhan ǀ índraḥ ǀ yáthā ǀ vidé ǀ śīrṣṇā́-śīrṣṇā ǀ upa-vā́cyaḥ ǀ
asma-trā́ ǀ te ǀ sadhryák ǀ santu ǀ rātáyaḥ ǀ bhadrā́ḥ ǀ bhadrásya ǀ rātáyaḥ ǁsvaḥ-jeṣe ǀ bhare ǀ āprasya ǀ vakmani ǀ uṣaḥ-budhaḥ ǀ svasmin ǀ añjasi ǀ krāṇasya ǀ svasmin ǀ añjasi ǀ
ahan ǀ indraḥ ǀ yathā ǀ vide ǀ śīrṣṇā-śīrṣṇā ǀ upa-vācyaḥ ǀ
asma-trā ǀ te ǀ sadhryak ǀ santu ǀ rātayaḥ ǀ bhadrāḥ ǀ bhadrasya ǀ rātayaḥ ǁ1.132.2 Aṣṭaka 2.1.21.2Anuvāka 1.19.49
-
Ṛk 3
तत्तु प्रयः॑ प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षयं॑ ।
वि तद्वो॑चे॒रध॑ द्वि॒तांतः प॑श्यंति र॒श्मिभिः॑ ।
स घा॑ विदे॒ अन्विंद्रो॑ ग॒वेष॑णो बंधु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥तत् तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन् यज्ञे वारम् अकृण्वत क्षयम् ऋतस्य वार् असि क्षयम् |
वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः |
स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ||táttú práyaḥ pratnáthā te śuśukvanám yásminyajñé vā́ramákṛṇvata kṣáyamṛtásya vā́rasi kṣáyam ǀ
ví tádvocerádha dvitā́ntáḥ paśyanti raśmíbhiḥ ǀ
sá ghā vide ánvíndro gavéṣaṇo bandhukṣídbhyo gavéṣaṇaḥ ǁtat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam |
vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ |
sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ ||तत् । तु । प्रयः॑ । प्र॒त्नऽथा॑ । ते॒ । शु॒शु॒क्व॒नम् । यस्मि॑न् । य॒ज्ञे । वार॑म् । अकृ॑ण्वत । क्षय॑म् । ऋ॒तस्य॑ । वाः । अ॒सि॒ । क्षय॑म् ।
वि । तत् । वो॒चेः॒ । अध॑ । द्वि॒ता । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । र॒श्मिऽभिः॑ ।
सः । घ॒ । वि॒दे॒ । अनु॑ । इन्द्रः॑ । गो॒ऽएष॑णः । ब॒न्धु॒क्षित्ऽभ्यः॑ । गो॒ऽएष॑णः ॥तत् । तु । प्रयः । प्रत्नऽथा । ते । शुशुक्वनम् । यस्मिन् । यज्ञे । वारम् । अकृण्वत । क्षयम् । ऋतस्य । वाः । असि । क्षयम् ।
वि । तत् । वोचेः । अध । द्विता । अन्तरिति । पश्यन्ति । रश्मिऽभिः ।
सः । घ । विदे । अनु । इन्द्रः । गोऽएषणः । बन्धुक्षित्ऽभ्यः । गोऽएषणः ॥tát ǀ tú ǀ práyaḥ ǀ pratná-thā ǀ te ǀ śuśukvanám ǀ yásmin ǀ yajñé ǀ vā́ram ǀ ákṛṇvata ǀ kṣáyam ǀ ṛtásya ǀ vā́ḥ ǀ asi ǀ kṣáyam ǀ
ví ǀ tát ǀ voceḥ ǀ ádha ǀ dvitā́ ǀ antáríti ǀ paśyanti ǀ raśmí-bhiḥ ǀ
sáḥ ǀ gha ǀ vide ǀ ánu ǀ índraḥ ǀ go-éṣaṇaḥ ǀ bandhukṣít-bhyaḥ ǀ go-éṣaṇaḥ ǁtat ǀ tu ǀ prayaḥ ǀ pratna-thā ǀ te ǀ śuśukvanam ǀ yasmin ǀ yajñe ǀ vāram ǀ akṛṇvata ǀ kṣayam ǀ ṛtasya ǀ vāḥ ǀ asi ǀ kṣayam ǀ
vi ǀ tat ǀ voceḥ ǀ adha ǀ dvitā ǀ antariti ǀ paśyanti ǀ raśmi-bhiḥ ǀ
saḥ ǀ gha ǀ vide ǀ anu ǀ indraḥ ǀ go-eṣaṇaḥ ǀ bandhukṣit-bhyaḥ ǀ go-eṣaṇaḥ ǁ1.132.3 Aṣṭaka 2.1.21.3Anuvāka 1.19.50
-
Ṛk 4
नू इ॒त्था ते॑ पू॒र्वथा॑ च प्र॒वाच्यं॒ यदंगि॑रो॒भ्योऽवृ॑णो॒रप॑ व्र॒जमिंद्र॒ शिक्ष॒न्नप॑ व्र॒जं ।
ऐभ्यः॑ समा॒न्या दि॒शास्मभ्यं॑ जेषि॒ योत्सि॑ च ।
सु॒न्वद्भ्यो॑ रंधया॒ कं चि॑दव्र॒तं हृ॑णा॒यंतं॑ चिदव्र॒तं ॥नू इत्था ते पूर्वथा च प्रवाच्यं यद् अङ्गिरोभ्यो ऽवृणोर् अप व्रजम् इन्द्र शिक्षन्न् अप व्रजम् |
ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च |
सुन्वद्भ्यो रन्धया कं चिद् अव्रतं हृणायन्तं चिद् अव्रतम् ||nū́ itthā́ te pūrváthā ca pravā́cyam yádáṅgirobhyó’vṛṇorápa vrajámíndra śíkṣannápa vrajám ǀ
áibhyaḥ samānyā́ diśā́smábhyam jeṣi yótsi ca ǀ
sunvádbhyo randhayā kám cidavratám hṛṇāyántam cidavratám ǁnū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam |
aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca |
sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam ||नु । इ॒त्था । ते॒ । पू॒र्वऽथा॑ । च॒ । प्र॒ऽवाच्य॑म् । यत् । अङ्गि॑रःऽभ्यः । अवृ॑णोः । अप॑ । व्र॒जम् । इन्द्र॑ । शिक्ष॑न् । अप॑ । व्र॒जम् ।
आ । ए॒भ्यः॒ । स॒मा॒न्या । दि॒शा । अ॒स्मभ्य॑म् । जे॒षि॒ । योत्सि॑ । च॒ ।
सु॒न्वत्ऽभ्यः॑ । र॒न्ध॒य॒ । कम् । चि॒त् । अ॒व्र॒तम् । हृ॒णा॒यन्त॑म् । चि॒त् । अ॒व्र॒तम् ॥नु । इत्था । ते । पूर्वऽथा । च । प्रऽवाच्यम् । यत् । अङ्गिरःऽभ्यः । अवृणोः । अप । व्रजम् । इन्द्र । शिक्षन् । अप । व्रजम् ।
आ । एभ्यः । समान्या । दिशा । अस्मभ्यम् । जेषि । योत्सि । च ।
सुन्वत्ऽभ्यः । रन्धय । कम् । चित् । अव्रतम् । हृणायन्तम् । चित् । अव्रतम् ॥nú ǀ itthā́ ǀ te ǀ pūrvá-thā ǀ ca ǀ pra-vā́cyam ǀ yát ǀ áṅgiraḥ-bhyaḥ ǀ ávṛṇoḥ ǀ ápa ǀ vrajám ǀ índra ǀ śíkṣan ǀ ápa ǀ vrajám ǀ
ā́ ǀ ebhyaḥ ǀ samānyā́ ǀ diśā́ ǀ asmábhyam ǀ jeṣi ǀ yótsi ǀ ca ǀ
sunvát-bhyaḥ ǀ randhaya ǀ kám ǀ cit ǀ avratám ǀ hṛṇāyántam ǀ cit ǀ avratám ǁnu ǀ itthā ǀ te ǀ pūrva-thā ǀ ca ǀ pra-vācyam ǀ yat ǀ aṅgiraḥ-bhyaḥ ǀ avṛṇoḥ ǀ apa ǀ vrajam ǀ indra ǀ śikṣan ǀ apa ǀ vrajam ǀ
ā ǀ ebhyaḥ ǀ samānyā ǀ diśā ǀ asmabhyam ǀ jeṣi ǀ yotsi ǀ ca ǀ
sunvat-bhyaḥ ǀ randhaya ǀ kam ǀ cit ǀ avratam ǀ hṛṇāyantam ǀ cit ǀ avratam ǁ1.132.4 Aṣṭaka 2.1.21.4Anuvāka 1.19.51
-
Ṛk 5
सं यज्जना॒न् क्रतु॑भिः॒ शूर॑ ई॒क्षय॒द्धने॑ हि॒ते त॑रुषंत श्रव॒स्यवः॒ प्र य॑क्षंत श्रव॒स्यवः॑ ।
तस्मा॒ आयुः॑ प्र॒जाव॒दिद्बाधे॑ अर्चं॒त्योज॑सा ।
इंद्र॑ ओ॒क्यं॑ दिधिषंत धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तयः॑ ॥सं यज् जनान् क्रतुभिः शूर ईक्षयद् धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः |
तस्मा आयुः प्रजावद् इद् बाधे अर्चन्त्य् ओजसा |
इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ||sám yájjánān krátubhiḥ śū́ra īkṣáyaddháne hité taruṣanta śravasyávaḥ prá yakṣanta śravasyávaḥ ǀ
tásmā ā́yuḥ prajā́vadídbā́dhe arcantyójasā ǀ
índra okyám didhiṣanta dhītáyo devā́m̐ ácchā ná dhītáyaḥ ǁsaṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ |
tasmā āyuḥ prajāvad id bādhe arcanty ojasā |
indra okyaṃ didhiṣanta dhītayo devāṃ acchā na dhītayaḥ ||सम् । यत् । जना॑न् । क्रतु॑ऽभिः । शूरः॑ । ई॒क्षय॑त् । धने॑ । हि॒ते । त॒रु॒ष॒न्त॒ । श्र॒व॒स्यवः॑ । प्र । य॒क्ष॒न्त॒ । श्र॒व॒स्यवः॑ ।
तस्मै॑ । आयुः॑ । प्र॒जाऽव॑त् । इत् । बाधे॑ । अ॒र्च॒न्ति॒ । ओज॑सा ।
इन्द्र॑ । ओ॒क्य॑म् । दि॒धि॒ष॒न्त॒ । धी॒तयः॑ । दे॒वान् । अच्छ॑ । न । धी॒तयः॑ ॥सम् । यत् । जनान् । क्रतुऽभिः । शूरः । ईक्षयत् । धने । हिते । तरुषन्त । श्रवस्यवः । प्र । यक्षन्त । श्रवस्यवः ।
तस्मै । आयुः । प्रजाऽवत् । इत् । बाधे । अर्चन्ति । ओजसा ।
इन्द्र । ओक्यम् । दिधिषन्त । धीतयः । देवान् । अच्छ । न । धीतयः ॥sám ǀ yát ǀ jánān ǀ krátu-bhiḥ ǀ śū́raḥ ǀ īkṣáyat ǀ dháne ǀ hité ǀ taruṣanta ǀ śravasyávaḥ ǀ prá ǀ yakṣanta ǀ śravasyávaḥ ǀ
tásmai ǀ ā́yuḥ ǀ prajā́-vat ǀ ít ǀ bā́dhe ǀ arcanti ǀ ójasā ǀ
índra ǀ okyám ǀ didhiṣanta ǀ dhītáyaḥ ǀ devā́n ǀ áccha ǀ ná ǀ dhītáyaḥ ǁsam ǀ yat ǀ janān ǀ kratu-bhiḥ ǀ śūraḥ ǀ īkṣayat ǀ dhane ǀ hite ǀ taruṣanta ǀ śravasyavaḥ ǀ pra ǀ yakṣanta ǀ śravasyavaḥ ǀ
tasmai ǀ āyuḥ ǀ prajā-vat ǀ it ǀ bādhe ǀ arcanti ǀ ojasā ǀ
indra ǀ okyam ǀ didhiṣanta ǀ dhītayaḥ ǀ devān ǀ accha ǀ na ǀ dhītayaḥ ǁ1.132.5 Aṣṭaka 2.1.21.5Anuvāka 1.19.52
-
Ṛk 6
यु॒वं तमिं॑द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तं ।
दू॒रे च॒त्ताय॑ च्छंत्स॒द्गह॑नं॒ यदिन॑क्षत् ।
अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ॥युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् |
दूरे चत्ताय च्छन्त्सद् गहनं यद् इनक्षत् |
अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ||yuvám támindrāparvatā puroyúdhā yó naḥ pṛtanyā́dápa táṃtamíddhatam vájreṇa táṃtamíddhatam ǀ
dūré cattā́ya cchantsadgáhanam yádínakṣat ǀ
asmā́kam śátrūnpári śūra viśváto darmā́ darṣīṣṭa viśvátaḥ ǁyuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ-tam id dhataṃ vajreṇa taṃ-tam id dhatam |
dūre cattāya cchantsad gahanaṃ yad inakṣat |
asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ ||यु॒वम् । तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । पु॒रः॒ऽयुधा॑ । यः । नः॒ । पृ॒त॒न्यात् । अप॑ । तम्ऽत॑म् । इत् । ह॒त॒म् । वज्रे॑ण । तम्ऽत॑म् । इत् । ह॒त॒म् ।
दू॒रे । च॒त्ताय॑ । छ॒न्त्स॒त् । गह॑नम् । यत् । इन॑क्षत् ।
अ॒स्माक॑म् । शत्रू॑न् । परि॑ । शू॒र॒ । वि॒श्वतः॑ । द॒र्मा । द॒र्षी॒ष्ट॒ । वि॒श्वतः॑ ॥युवम् । तम् । इन्द्रापर्वता । पुरःऽयुधा । यः । नः । पृतन्यात् । अप । तम्ऽतम् । इत् । हतम् । वज्रेण । तम्ऽतम् । इत् । हतम् ।
दूरे । चत्ताय । छन्त्सत् । गहनम् । यत् । इनक्षत् ।
अस्माकम् । शत्रून् । परि । शूर । विश्वतः । दर्मा । दर्षीष्ट । विश्वतः ॥yuvám ǀ tám ǀ indrāparvatā ǀ puraḥ-yúdhā ǀ yáḥ ǀ naḥ ǀ pṛtanyā́t ǀ ápa ǀ tám-tam ǀ ít ǀ hatam ǀ vájreṇa ǀ tám-tam ǀ ít ǀ hatam ǀ
dūré ǀ cattā́ya ǀ chantsat ǀ gáhanam ǀ yát ǀ ínakṣat ǀ
asmā́kam ǀ śátrūn ǀ pári ǀ śūra ǀ viśvátaḥ ǀ darmā́ ǀ darṣīṣṭa ǀ viśvátaḥ ǁyuvam ǀ tam ǀ indrāparvatā ǀ puraḥ-yudhā ǀ yaḥ ǀ naḥ ǀ pṛtanyāt ǀ apa ǀ tam-tam ǀ it ǀ hatam ǀ vajreṇa ǀ tam-tam ǀ it ǀ hatam ǀ
dūre ǀ cattāya ǀ chantsat ǀ gahanam ǀ yat ǀ inakṣat ǀ
asmākam ǀ śatrūn ǀ pari ǀ śūra ǀ viśvataḥ ǀ darmā ǀ darṣīṣṭa ǀ viśvataḥ ǁ1.132.6 Aṣṭaka 2.1.21.6Anuvāka 1.19.53
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.