Sūkta 177
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2); triṣṭup (3); bhuriktriṣṭup (4); bhurikpaṅkti (5)
2nd set of styles triṣṭubh
-
Ṛk 1
आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑ ।
स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनाम् पुरुहूत इन्द्रः |
स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणा याह्य् अर्वाङ् ||ā́ carṣaṇiprā́ vṛṣabhó jánānām rā́jā kṛṣṭīnā́m puruhūtá índraḥ ǀ
stutáḥ śravasyánnávasópa madrígyuktvā́ hárī vṛ́ṣaṇā́ yāhyarvā́ṅ ǁā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ |
stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ ||आ । च॒र्ष॒णि॒ऽप्राः । वृ॒ष॒भः । जना॑नाम् । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
स्तु॒तः । श्र॒व॒स्यन् । अव॑सा । उप॑ । म॒द्रिक् । यु॒क्त्वा । हरी॒ इति॑ । वृष॑णा । आ । या॒हि॒ । अ॒र्वाङ् ॥आ । चर्षणिऽप्राः । वृषभः । जनानाम् । राजा । कृष्टीनाम् । पुरुऽहूतः । इन्द्रः ।
स्तुतः । श्रवस्यन् । अवसा । उप । मद्रिक् । युक्त्वा । हरी इति । वृषणा । आ । याहि । अर्वाङ् ॥ā́ ǀ carṣaṇi-prā́ḥ ǀ vṛṣabháḥ ǀ jánānām ǀ rā́jā ǀ kṛṣṭīnā́m ǀ puru-hūtáḥ ǀ índraḥ ǀ
stutáḥ ǀ śravasyán ǀ ávasā ǀ úpa ǀ madrík ǀ yuktvā́ ǀ hárī íti ǀ vṛ́ṣaṇā ǀ ā́ ǀ yāhi ǀ arvā́ṅ ǁā ǀ carṣaṇi-prāḥ ǀ vṛṣabhaḥ ǀ janānām ǀ rājā ǀ kṛṣṭīnām ǀ puru-hūtaḥ ǀ indraḥ ǀ
stutaḥ ǀ śravasyan ǀ avasā ǀ upa ǀ madrik ǀ yuktvā ǀ harī iti ǀ vṛṣaṇā ǀ ā ǀ yāhi ǀ arvāṅ ǁ1.177.1 Aṣṭaka 2.4.20.1Anuvāka 1.23.109
-
Ṛk 2
ये ते॒ वृष॑णो वृष॒भास॑ इंद्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्याः॑ ।
ताँ आ ति॑ष्ठ॒ तेभि॒रा या॑ह्य॒र्वाङ् हवा॑महे त्वा सु॒त इं॑द्र॒ सोमे॑ ॥ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः |
तां आ तिष्ठ तेभिर् आ याह्य् अर्वाङ् हवामहे त्वा सुत इन्द्र सोमे ||yé te vṛ́ṣaṇo vṛṣabhā́sa indra brahmayújo vṛ́ṣarathāso átyāḥ ǀ
tā́m̐ ā́ tiṣṭha tébhirā́ yāhyarvā́ṅ hávāmahe tvā sutá indra sóme ǁye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ |
tāṃ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some ||ये । ते॒ । वृष॑णः । वृ॒ष॒भासः॑ । इ॒न्द्र॒ । ब्र॒ह्म॒ऽयुजः॑ । वृष॑ऽरथासः । अत्याः॑ ।
तान् । आ । ति॒ष्ठ॒ । तेभिः॑ । आ । या॒हि॒ । अ॒र्वाङ् । हवा॑महे । त्वा॒ । सु॒ते । इ॒न्द्र॒ । सोमे॑ ॥ये । ते । वृषणः । वृषभासः । इन्द्र । ब्रह्मऽयुजः । वृषऽरथासः । अत्याः ।
तान् । आ । तिष्ठ । तेभिः । आ । याहि । अर्वाङ् । हवामहे । त्वा । सुते । इन्द्र । सोमे ॥yé ǀ te ǀ vṛ́ṣaṇaḥ ǀ vṛṣabhā́saḥ ǀ indra ǀ brahma-yújaḥ ǀ vṛ́ṣa-rathāsaḥ ǀ átyāḥ ǀ
tā́n ǀ ā́ ǀ tiṣṭha ǀ tébhiḥ ǀ ā́ ǀ yāhi ǀ arvā́ṅ ǀ hávāmahe ǀ tvā ǀ suté ǀ indra ǀ sóme ǁye ǀ te ǀ vṛṣaṇaḥ ǀ vṛṣabhāsaḥ ǀ indra ǀ brahma-yujaḥ ǀ vṛṣa-rathāsaḥ ǀ atyāḥ ǀ
tān ǀ ā ǀ tiṣṭha ǀ tebhiḥ ǀ ā ǀ yāhi ǀ arvāṅ ǀ havāmahe ǀ tvā ǀ sute ǀ indra ǀ some ǁ1.177.2 Aṣṭaka 2.4.20.2Anuvāka 1.23.110
-
Ṛk 3
आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि ।
यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि |
युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ||ā́ tiṣṭha rátham vṛ́ṣaṇam vṛ́ṣā te sutáḥ sómaḥ páriṣiktā mádhūni ǀ
yuktvā́ vṛ́ṣabhyām vṛṣabha kṣitīnā́m háribhyām yāhi pravátópa madrík ǁā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni |
yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik ||आ । ति॒ष्ठ॒ । रथ॑म् । वृष॑णम् । वृषा॑ । ते॒ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।
यु॒क्त्वा । वृष॑ऽभ्याम् । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । हरि॑ऽभ्याम् । या॒हि॒ । प्र॒ऽवता॑ । उप॑ । म॒द्रिक् ॥आ । तिष्ठ । रथम् । वृषणम् । वृषा । ते । सुतः । सोमः । परिऽसिक्ता । मधूनि ।
युक्त्वा । वृषऽभ्याम् । वृषभ । क्षितीनाम् । हरिऽभ्याम् । याहि । प्रऽवता । उप । मद्रिक् ॥ā́ ǀ tiṣṭha ǀ rátham ǀ vṛ́ṣaṇam ǀ vṛ́ṣā ǀ te ǀ sutáḥ ǀ sómaḥ ǀ pári-siktā ǀ mádhūni ǀ
yuktvā́ ǀ vṛ́ṣa-bhyām ǀ vṛṣabha ǀ kṣitīnā́m ǀ hári-bhyām ǀ yāhi ǀ pra-vátā ǀ úpa ǀ madrík ǁā ǀ tiṣṭha ǀ ratham ǀ vṛṣaṇam ǀ vṛṣā ǀ te ǀ sutaḥ ǀ somaḥ ǀ pari-siktā ǀ madhūni ǀ
yuktvā ǀ vṛṣa-bhyām ǀ vṛṣabha ǀ kṣitīnām ǀ hari-bhyām ǀ yāhi ǀ pra-vatā ǀ upa ǀ madrik ǁ1.177.3 Aṣṭaka 2.4.20.3Anuvāka 1.23.111
-
Ṛk 4
अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमिं॑द्र॒ सोमः॑ ।
स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥अयं यज्ञो देवया अयम् मियेध इमा ब्रह्माण्य् अयम् इन्द्र सोमः |
स्तीर्णम् बर्हिर् आ तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ||ayám yajñó devayā́ ayám miyédha imā́ bráhmāṇyayámindra sómaḥ ǀ
stīrṇám barhírā́ tú śakra prá yāhi píbā niṣádya ví mucā hárī ihá ǁayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ |
stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha ||अ॒यम् । य॒ज्ञः । दे॒व॒ऽयाः । अ॒यम् । मि॒येधः॑ । इ॒मा । ब्रह्मा॑णि । अ॒यम् । इ॒न्द्र॒ । सोमः॑ ।
स्ती॒र्णम् । ब॒र्हिः । आ । तु । श॒क्र॒ । प्र । या॒हि॒ । पिब॑ । नि॒ऽसद्य॑ । वि । मु॒च॒ । हरी॒ इति॑ । इ॒ह ॥अयम् । यज्ञः । देवऽयाः । अयम् । मियेधः । इमा । ब्रह्माणि । अयम् । इन्द्र । सोमः ।
स्तीर्णम् । बर्हिः । आ । तु । शक्र । प्र । याहि । पिब । निऽसद्य । वि । मुच । हरी इति । इह ॥ayám ǀ yajñáḥ ǀ deva-yā́ḥ ǀ ayám ǀ miyédhaḥ ǀ imā́ ǀ bráhmāṇi ǀ ayám ǀ indra ǀ sómaḥ ǀ
stīrṇám ǀ barhíḥ ǀ ā́ ǀ tú ǀ śakra ǀ prá ǀ yāhi ǀ píba ǀ ni-sádya ǀ ví ǀ muca ǀ hárī íti ǀ ihá ǁayam ǀ yajñaḥ ǀ deva-yāḥ ǀ ayam ǀ miyedhaḥ ǀ imā ǀ brahmāṇi ǀ ayam ǀ indra ǀ somaḥ ǀ
stīrṇam ǀ barhiḥ ǀ ā ǀ tu ǀ śakra ǀ pra ǀ yāhi ǀ piba ǀ ni-sadya ǀ vi ǀ muca ǀ harī iti ǀ iha ǁ1.177.4 Aṣṭaka 2.4.20.4Anuvāka 1.23.112
-
Ṛk 5
ओ सुष्टु॑त इंद्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥ओ सुष्टुत इन्द्र याह्य् अर्वाङ् उप ब्रह्माणि मान्यस्य कारोः |
विद्याम वस्तोर् अवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ||ó súṣṭuta indra yāhyarvā́ṅúpa bráhmāṇi mānyásya kāróḥ ǀ
vidyā́ma vástorávasā gṛṇánto vidyā́meṣám vṛjánam jīrádānum ǁo suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ |
vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum ||ओ इति॑ । सुऽस्तु॑तः । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । उप॑ । ब्रह्मा॑णि । मा॒न्यस्य॑ । का॒रोः ।
वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥ओ इति । सुऽस्तुतः । इन्द्र । याहि । अर्वाङ् । उप । ब्रह्माणि । मान्यस्य । कारोः ।
विद्याम । वस्तोः । अवसा । गृणन्तः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ó íti ǀ sú-stutaḥ ǀ indra ǀ yāhi ǀ arvā́ṅ ǀ úpa ǀ bráhmāṇi ǀ mānyásya ǀ kāróḥ ǀ
vidyā́ma ǀ vástoḥ ǀ ávasā ǀ gṛṇántaḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁo iti ǀ su-stutaḥ ǀ indra ǀ yāhi ǀ arvāṅ ǀ upa ǀ brahmāṇi ǀ mānyasya ǀ kāroḥ ǀ
vidyāma ǀ vastoḥ ǀ avasā ǀ gṛṇantaḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.177.5 Aṣṭaka 2.4.20.5Anuvāka 1.23.113
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.