Sūkta 47
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛtsataḥ paṅkti (2, 6, 8); nicṛtpathyābṛhatī (1, 5); pathyāvṛhatī (3, 7); sataḥpaṅkti (4, 10); virāṭpathyābṛhatī (9)
2nd set of styles bṛhatī (1, 3, 5, 7, 9); satobṛhatī (2, 4, 6, 8, 10)
-
Ṛk 1
अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा ।
तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥अयं वाम् मधुमत्तमः सुतः सोम ऋतावृधा |
तम् अश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ||ayám vām mádhumattamaḥ sutáḥ sóma ṛtāvṛdhā ǀ
támaśvinā pibatam tiróahnyam dhattám rátnāni dāśúṣe ǁayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā |
tam aśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuṣe ||अ॒यम् । वा॒म् । मधु॑मत्ऽतमः । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ ।
तम् । अ॒श्वि॒ना॒ । पि॒ब॒त॒म् । ति॒रःऽअ॑ह्न्यम् । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥अयम् । वाम् । मधुमत्ऽतमः । सुतः । सोमः । ऋतऽवृधा ।
तम् । अश्विना । पिबतम् । तिरःऽअह्न्यम् । धत्तम् । रत्नानि । दाशुषे ॥ayám ǀ vām ǀ mádhumat-tamaḥ ǀ sutáḥ ǀ sómaḥ ǀ ṛta-vṛdhā ǀ
tám ǀ aśvinā ǀ pibatam ǀ tiráḥ-ahnyam ǀ dhattám ǀ rátnāni ǀ dāśúṣe ǁayam ǀ vām ǀ madhumat-tamaḥ ǀ sutaḥ ǀ somaḥ ǀ ṛta-vṛdhā ǀ
tam ǀ aśvinā ǀ pibatam ǀ tiraḥ-ahnyam ǀ dhattam ǀ ratnāni ǀ dāśuṣe ǁ1.47.1 Aṣṭaka 1.4.1.1Anuvāka 1.9.40
-
Ṛk 2
त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना ।
कण्वा॑सो वां॒ ब्रह्म॑ कृण्वंत्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हवं॑ ॥त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातम् अश्विना |
कण्वासो वाम् ब्रह्म कृण्वन्त्य् अध्वरे तेषां सु शृणुतं हवम् ||trivandhuréṇa trivṛ́tā supéśasā ráthenā́ yātamaśvinā ǀ
káṇvāso vām bráhma kṛṇvantyadhvaré téṣām sú śṛṇutam hávam ǁtrivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā |
kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam ||त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । सु॒ऽपेश॑सा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
कण्वा॑सः । वा॒म् । ब्रह्म॑ । कृ॒ण्व॒न्ति॒ । अ॒ध्व॒रे । तेषा॑म् । सु । शृ॒णु॒त॒म् । हव॑म् ॥त्रिऽवन्धुरेण । त्रिऽवृता । सुऽपेशसा । रथेन । आ । यातम् । अश्विना ।
कण्वासः । वाम् । ब्रह्म । कृण्वन्ति । अध्वरे । तेषाम् । सु । शृणुतम् । हवम् ॥tri-vandhuréṇa ǀ tri-vṛ́tā ǀ su-péśasā ǀ ráthena ǀ ā́ ǀ yātam ǀ aśvinā ǀ
káṇvāsaḥ ǀ vām ǀ bráhma ǀ kṛṇvanti ǀ adhvaré ǀ téṣām ǀ sú ǀ śṛṇutam ǀ hávam ǁtri-vandhureṇa ǀ tri-vṛtā ǀ su-peśasā ǀ rathena ǀ ā ǀ yātam ǀ aśvinā ǀ
kaṇvāsaḥ ǀ vām ǀ brahma ǀ kṛṇvanti ǀ adhvare ǀ teṣām ǀ su ǀ śṛṇutam ǀ havam ǁ1.47.2 Aṣṭaka 1.4.1.2Anuvāka 1.9.41
-
Ṛk 3
अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा ।
अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतं ॥अश्विना मधुमत्तमम् पातं सोमम् ऋतावृधा |
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसम् उप गच्छतम् ||áśvinā mádhumattamam pātám sómamṛtāvṛdhā ǀ
áthādyá dasrā vásu bíbhratā ráthe dāśvā́ṃsamúpa gacchatam ǁaśvinā madhumattamam pātaṃ somam ṛtāvṛdhā |
athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam ||अश्वि॑ना । मधु॑मत्ऽतमम् । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ।
अथ॑ । अ॒द्य । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ॥अश्विना । मधुमत्ऽतमम् । पातम् । सोमम् । ऋतऽवृधा ।
अथ । अद्य । दस्रा । वसु । बिभ्रता । रथे । दाश्वांसम् । उप । गच्छतम् ॥áśvinā ǀ mádhumat-tamam ǀ pātám ǀ sómam ǀ ṛta-vṛdhā ǀ
átha ǀ adyá ǀ dasrā ǀ vásu ǀ bíbhratā ǀ ráthe ǀ dāśvā́ṃsam ǀ úpa ǀ gacchatam ǁaśvinā ǀ madhumat-tamam ǀ pātam ǀ somam ǀ ṛta-vṛdhā ǀ
atha ǀ adya ǀ dasrā ǀ vasu ǀ bibhratā ǀ rathe ǀ dāśvāṃsam ǀ upa ǀ gacchatam ǁ1.47.3 Aṣṭaka 1.4.1.3Anuvāka 1.9.42
-
Ṛk 4
त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतं ।
कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वंते अश्विना ॥त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञम् मिमिक्षतम् |
कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ||triṣadhasthé barhíṣi viśvavedasā mádhvā yajñám mimikṣatam ǀ
káṇvāso vām sutásomā abhídyavo yuvā́m havante aśvinā ǁtriṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam |
kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā ||त्रि॒ऽस॒ध॒स्थे । ब॒र्हिषि॑ । वि॒श्व॒ऽवे॒द॒सा॒ । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ।
कण्वा॑सः । वा॒म् । सु॒तऽसो॑माः । अ॒भिऽद्य॑वः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥त्रिऽसधस्थे । बर्हिषि । विश्वऽवेदसा । मध्वा । यज्ञम् । मिमिक्षतम् ।
कण्वासः । वाम् । सुतऽसोमाः । अभिऽद्यवः । युवाम् । हवन्ते । अश्विना ॥tri-sadhasthé ǀ barhíṣi ǀ viśva-vedasā ǀ mádhvā ǀ yajñám ǀ mimikṣatam ǀ
káṇvāsaḥ ǀ vām ǀ sutá-somāḥ ǀ abhí-dyavaḥ ǀ yuvā́m ǀ havante ǀ aśvinā ǁtri-sadhasthe ǀ barhiṣi ǀ viśva-vedasā ǀ madhvā ǀ yajñam ǀ mimikṣatam ǀ
kaṇvāsaḥ ǀ vām ǀ suta-somāḥ ǀ abhi-dyavaḥ ǀ yuvām ǀ havante ǀ aśvinā ǁ1.47.4 Aṣṭaka 1.4.1.4Anuvāka 1.9.43
-
Ṛk 5
याभिः॒ कण्व॑म॒भिष्टि॑भिः॒ प्राव॑तं यु॒वम॑श्विना ।
ताभिः॒ ष्व१॒॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥याभिः कण्वम् अभिष्टिभिः प्रावतं युवम् अश्विना |
ताभिः ष्व् अस्मां अवतं शुभस् पती पातं सोमम् ऋतावृधा ||yā́bhiḥ káṇvamabhíṣṭibhiḥ prā́vatam yuvámaśvinā ǀ
tā́bhiḥ ṣvásmā́m̐ avatam śubhaspatī pātám sómamṛtāvṛdhā ǁyābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā |
tābhiḥ ṣv asmāṃ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā ||याभिः॑ । कण्व॑म् । अ॒भिष्टि॑ऽभिः । प्र । आव॑तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
ताभिः॑ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥याभिः । कण्वम् । अभिष्टिऽभिः । प्र । आवतम् । युवम् । अश्विना ।
ताभिः । सु । अस्मान् । अवतम् । शुभः । पती इति । पातम् । सोमम् । ऋतऽवृधा ॥yā́bhiḥ ǀ káṇvam ǀ abhíṣṭi-bhiḥ ǀ prá ǀ ā́vatam ǀ yuvám ǀ aśvinā ǀ
tā́bhiḥ ǀ sú ǀ asmā́n ǀ avatam ǀ śubhaḥ ǀ patī íti ǀ pātám ǀ sómam ǀ ṛta-vṛdhā ǁyābhiḥ ǀ kaṇvam ǀ abhiṣṭi-bhiḥ ǀ pra ǀ āvatam ǀ yuvam ǀ aśvinā ǀ
tābhiḥ ǀ su ǀ asmān ǀ avatam ǀ śubhaḥ ǀ patī iti ǀ pātam ǀ somam ǀ ṛta-vṛdhā ǁ1.47.5 Aṣṭaka 1.4.1.5Anuvāka 1.9.44
-
Ṛk 6
सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना ।
र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृहं॑ ॥सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना |
रयिं समुद्राद् उत वा दिवस् पर्य् अस्मे धत्तम् पुरुस्पृहम् ||sudā́se dasrā vásu bíbhratā ráthe pṛ́kṣo vahatamaśvinā ǀ
rayím samudrā́dutá vā diváspáryasmé dhattam puruspṛ́ham ǁsudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā |
rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham ||सु॒ऽदासे॑ । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । पृक्षः॑ । व॒ह॒त॒म् । अ॒श्वि॒ना॒ ।
र॒यिम् । स॒मु॒द्रात् । उ॒त । वा॒ । दि॒वः । परि॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । पु॒रु॒ऽस्पृह॑म् ॥सुऽदासे । दस्रा । वसु । बिभ्रता । रथे । पृक्षः । वहतम् । अश्विना ।
रयिम् । समुद्रात् । उत । वा । दिवः । परि । अस्मे इति । धत्तम् । पुरुऽस्पृहम् ॥su-dā́se ǀ dasrā ǀ vásu ǀ bíbhratā ǀ ráthe ǀ pṛ́kṣaḥ ǀ vahatam ǀ aśvinā ǀ
rayím ǀ samudrā́t ǀ utá ǀ vā ǀ diváḥ ǀ pári ǀ asmé íti ǀ dhattam ǀ puru-spṛ́ham ǁsu-dāse ǀ dasrā ǀ vasu ǀ bibhratā ǀ rathe ǀ pṛkṣaḥ ǀ vahatam ǀ aśvinā ǀ
rayim ǀ samudrāt ǀ uta ǀ vā ǀ divaḥ ǀ pari ǀ asme iti ǀ dhattam ǀ puru-spṛham ǁ1.47.6 Aṣṭaka 1.4.2.1Anuvāka 1.9.45
-
Ṛk 7
यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ ।
अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे |
अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ||yánnāsatyā parāváti yádvā sthó ádhi turváśe ǀ
áto ráthena suvṛ́tā na ā́ gatam sākám sū́ryasya raśmíbhiḥ ǁyan nāsatyā parāvati yad vā stho adhi turvaśe |
ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ ||यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । तु॒र्वशे॑ ।
अतः॑ । रथे॑न । सु॒ऽवृता॑ । नः॒ । आ । ग॒त॒म् । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥यत् । नासत्या । पराऽवति । यत् । वा । स्थः । अधि । तुर्वशे ।
अतः । रथेन । सुऽवृता । नः । आ । गतम् । साकम् । सूर्यस्य । रश्मिऽभिः ॥yát ǀ nāsatyā ǀ parā-váti ǀ yát ǀ vā ǀ stháḥ ǀ ádhi ǀ turváśe ǀ
átaḥ ǀ ráthena ǀ su-vṛ́tā ǀ naḥ ǀ ā́ ǀ gatam ǀ sākám ǀ sū́ryasya ǀ raśmí-bhiḥ ǁyat ǀ nāsatyā ǀ parā-vati ǀ yat ǀ vā ǀ sthaḥ ǀ adhi ǀ turvaśe ǀ
ataḥ ǀ rathena ǀ su-vṛtā ǀ naḥ ǀ ā ǀ gatam ǀ sākam ǀ sūryasya ǀ raśmi-bhiḥ ǁ1.47.7 Aṣṭaka 1.4.2.2Anuvāka 1.9.46
-
Ṛk 8
अ॒र्वांचा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वहं॑तु॒ सव॒नेदुप॑ ।
इषं॑ पृं॒चंता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥अर्वाञ्चा वां सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप |
इषम् पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ||arvā́ñcā vām sáptayo’dhvaraśríyo váhantu sávanédúpa ǀ
íṣam pṛñcántā sukṛ́te sudā́nava ā́ barhíḥ sīdatam narā ǁarvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa |
iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā ||अ॒र्वाञ्चा॑ । वा॒म् । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ना । इत् । उप॑ ।
इष॑म् । पृ॒ञ्चन्ता॑ । सु॒ऽकृते॑ । सु॒ऽदान॑वे । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ ॥अर्वाञ्चा । वाम् । सप्तयः । अध्वरऽश्रियः । वहन्तु । सवना । इत् । उप ।
इषम् । पृञ्चन्ता । सुऽकृते । सुऽदानवे । आ । बर्हिः । सीदतम् । नरा ॥arvā́ñcā ǀ vām ǀ sáptayaḥ ǀ adhvara-śríyaḥ ǀ váhantu ǀ sávanā ǀ ít ǀ úpa ǀ
íṣam ǀ pṛñcántā ǀ su-kṛ́te ǀ su-dā́nave ǀ ā́ ǀ barhíḥ ǀ sīdatam ǀ narā ǁarvāñcā ǀ vām ǀ saptayaḥ ǀ adhvara-śriyaḥ ǀ vahantu ǀ savanā ǀ it ǀ upa ǀ
iṣam ǀ pṛñcantā ǀ su-kṛte ǀ su-dānave ǀ ā ǀ barhiḥ ǀ sīdatam ǀ narā ǁ1.47.8 Aṣṭaka 1.4.2.3Anuvāka 1.9.47
-
Ṛk 9
तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा ।
येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्वः॒ सोम॑स्य पी॒तये॑ ॥तेन नासत्या गतं रथेन सूर्यत्वचा |
येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य पीतये ||téna nāsatyā́ gatam ráthena sū́ryatvacā ǀ
yéna śáśvadūháthurdāśúṣe vásu mádhvaḥ sómasya pītáye ǁtena nāsatyā gataṃ rathena sūryatvacā |
yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye ||तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् । रथे॑न । सूर्य॑ऽत्वचा ।
येन॑ । शश्व॑त् । ऊ॒हथुः॑ । दा॒शुषे॑ । वसु॑ । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥तेन । नासत्या । आ । गतम् । रथेन । सूर्यऽत्वचा ।
येन । शश्वत् । ऊहथुः । दाशुषे । वसु । मध्वः । सोमस्य । पीतये ॥téna ǀ nāsatyā ǀ ā́ ǀ gatam ǀ ráthena ǀ sū́rya-tvacā ǀ
yéna ǀ śáśvat ǀ ūháthuḥ ǀ dāśúṣe ǀ vásu ǀ mádhvaḥ ǀ sómasya ǀ pītáye ǁtena ǀ nāsatyā ǀ ā ǀ gatam ǀ rathena ǀ sūrya-tvacā ǀ
yena ǀ śaśvat ǀ ūhathuḥ ǀ dāśuṣe ǀ vasu ǀ madhvaḥ ǀ somasya ǀ pītaye ǁ1.47.9 Aṣṭaka 1.4.2.4Anuvāka 1.9.48
-
Ṛk 10
उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे ।
शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे |
शश्वत् कण्वानां सदसि प्रिये हि कं सोमम् पपथुर् अश्विना ||ukthébhirarvā́gávase purūvásū arkáiśca ní hvayāmahe ǀ
śáśvatkáṇvānām sádasi priyé hí kam sómam papáthuraśvinā ǁukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe |
śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā ||उ॒क्थेभिः॑ । अ॒र्वाक् । अव॑से । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । अ॒र्कैः । च॒ । नि । ह्व॒या॒म॒हे॒ ।
शश्व॑त् । कण्वा॑नाम् । सद॑सि । प्रि॒ये । हि । क॒म् । सोम॑म् । प॒पथुः॑ । अ॒श्वि॒ना॒ ॥उक्थेभिः । अर्वाक् । अवसे । पुरुवसू इति पुरुऽवसू । अर्कैः । च । नि । ह्वयामहे ।
शश्वत् । कण्वानाम् । सदसि । प्रिये । हि । कम् । सोमम् । पपथुः । अश्विना ॥ukthébhiḥ ǀ arvā́k ǀ ávase ǀ puruvásū íti puru-vásū ǀ arkáiḥ ǀ ca ǀ ní ǀ hvayāmahe ǀ
śáśvat ǀ káṇvānām ǀ sádasi ǀ priyé ǀ hí ǀ kam ǀ sómam ǀ papáthuḥ ǀ aśvinā ǁukthebhiḥ ǀ arvāk ǀ avase ǀ puruvasū iti puru-vasū ǀ arkaiḥ ǀ ca ǀ ni ǀ hvayāmahe ǀ
śaśvat ǀ kaṇvānām ǀ sadasi ǀ priye ǀ hi ǀ kam ǀ somam ǀ papathuḥ ǀ aśvinā ǁ1.47.10 Aṣṭaka 1.4.2.5Anuvāka 1.9.49
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.