Ṛk 1.47.10
Saṃhitā
उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे ।
शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥
उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे |
शश्वत् कण्वानां सदसि प्रिये हि कं सोमम् पपथुर् अश्विना ||
ukthébhirarvā́gávase purūvásū arkáiśca ní hvayāmahe ǀ
śáśvatkáṇvānām sádasi priyé hí kam sómam papáthuraśvinā ǁ
ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe |
śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā ||
Padapāṭha
उ॒क्थेभिः॑ । अ॒र्वाक् । अव॑से । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । अ॒र्कैः । च॒ । नि । ह्व॒या॒म॒हे॒ ।
शश्व॑त् । कण्वा॑नाम् । सद॑सि । प्रि॒ये । हि । क॒म् । सोम॑म् । प॒पथुः॑ । अ॒श्वि॒ना॒ ॥
उक्थेभिः । अर्वाक् । अवसे । पुरुवसू इति पुरुऽवसू । अर्कैः । च । नि । ह्वयामहे ।
शश्वत् । कण्वानाम् । सदसि । प्रिये । हि । कम् । सोमम् । पपथुः । अश्विना ॥
ukthébhiḥ ǀ arvā́k ǀ ávase ǀ puruvásū íti puru-vásū ǀ arkáiḥ ǀ ca ǀ ní ǀ hvayāmahe ǀ
śáśvat ǀ káṇvānām ǀ sádasi ǀ priyé ǀ hí ǀ kam ǀ sómam ǀ papáthuḥ ǀ aśvinā ǁ
ukthebhiḥ ǀ arvāk ǀ avase ǀ puruvasū iti puru-vasū ǀ arkaiḥ ǀ ca ǀ ni ǀ hvayāmahe ǀ
śaśvat ǀ kaṇvānām ǀ sadasi ǀ priye ǀ hi ǀ kam ǀ somam ǀ papathuḥ ǀ aśvinā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.047.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.02.05
- Maṇḍala · Anuvāka · Ṛk
- 01.09.049
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.