Sūkta 171
- Devatā देवता
- 1, 2: Maruts; 3-6: Indra, Maruts
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 5); virāṭtrisṭup (4, 6); triṣṭup (2); bhurikpaṅkti (3)
2nd set of styles triṣṭubh
-
Ṛk 1
प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणां॑ ।
र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिं तुराणाम् |
रराणता मरुतो वेद्याभिर् नि हेऌओ धत्त वि मुचध्वम् अश्वान् ||práti va enā́ námasāhámemi sūkténa bhikṣe sumatím turā́ṇām ǀ
rarāṇátā maruto vedyā́bhirní héḷo dhattá ví mucadhvamáśvān ǁprati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām |
rarāṇatā maruto vedyābhir ni heḷo dhatta vi mucadhvam aśvān ||प्रति॑ । वः॒ । ए॒ना । नम॑सा । अ॒हम् । ए॒मि॒ । सु॒ऽउ॒क्तेन॑ । भि॒क्षे॒ । सु॒ऽम॒तिम् । तु॒राणा॑म् ।
र॒रा॒णता॑ । म॒रु॒तः॒ । वे॒द्याभिः॑ । नि । हेळः॑ । ध॒त्त । वि । मु॒च॒ध्व॒म् । अश्वा॑न् ॥प्रति । वः । एना । नमसा । अहम् । एमि । सुऽउक्तेन । भिक्षे । सुऽमतिम् । तुराणाम् ।
रराणता । मरुतः । वेद्याभिः । नि । हेळः । धत्त । वि । मुचध्वम् । अश्वान् ॥práti ǀ vaḥ ǀ enā́ ǀ námasā ǀ ahám ǀ emi ǀ su-ukténa ǀ bhikṣe ǀ su-matím ǀ turā́ṇām ǀ
rarāṇátā ǀ marutaḥ ǀ vedyā́bhiḥ ǀ ní ǀ héḷaḥ ǀ dhattá ǀ ví ǀ mucadhvam ǀ áśvān ǁprati ǀ vaḥ ǀ enā ǀ namasā ǀ aham ǀ emi ǀ su-uktena ǀ bhikṣe ǀ su-matim ǀ turāṇām ǀ
rarāṇatā ǀ marutaḥ ǀ vedyābhiḥ ǀ ni ǀ heḷaḥ ǀ dhatta ǀ vi ǀ mucadhvam ǀ aśvān ǁ1.171.1 Aṣṭaka 2.4.11.1Anuvāka 1.23.65
-
Ṛk 2
ए॒ष वः॒ स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः ।
उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धासः॑ ॥एष व स्तोमो मरुतो नमस्वान् हृदा तष्टो मनसा धायि देवाः |
उपेम् आ यात मनसा जुषाणा यूयं हि ष्ठा नमस इद् वृधासः ||eṣá vaḥ stómo maruto námasvānhṛdā́ taṣṭó mánasā dhāyi devāḥ ǀ
úpemā́ yāta mánasā juṣāṇā́ yūyám hí ṣṭhā́ námasa ídvṛdhā́saḥ ǁeṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ |
upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ ||ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । नम॑स्वान् । हृ॒दा । त॒ष्टः । मन॑सा । धा॒यि॒ । दे॒वाः॒ ।
उप॑ । ई॒म् । आ । या॒त॒ । मन॑सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम॑सः । इत् । वृ॒धासः॑ ॥एषः । वः । स्तोमः । मरुतः । नमस्वान् । हृदा । तष्टः । मनसा । धायि । देवाः ।
उप । ईम् । आ । यात । मनसा । जुषाणाः । यूयम् । हि । स्थ । नमसः । इत् । वृधासः ॥eṣáḥ ǀ vaḥ ǀ stómaḥ ǀ marutaḥ ǀ námasvān ǀ hṛdā́ ǀ taṣṭáḥ ǀ mánasā ǀ dhāyi ǀ devāḥ ǀ
úpa ǀ īm ǀ ā́ ǀ yāta ǀ mánasā ǀ juṣāṇā́ḥ ǀ yūyám ǀ hí ǀ sthá ǀ námasaḥ ǀ ít ǀ vṛdhā́saḥ ǁeṣaḥ ǀ vaḥ ǀ stomaḥ ǀ marutaḥ ǀ namasvān ǀ hṛdā ǀ taṣṭaḥ ǀ manasā ǀ dhāyi ǀ devāḥ ǀ
upa ǀ īm ǀ ā ǀ yāta ǀ manasā ǀ juṣāṇāḥ ǀ yūyam ǀ hi ǀ stha ǀ namasaḥ ǀ it ǀ vṛdhāsaḥ ǁ1.171.2 Aṣṭaka 2.4.11.2Anuvāka 1.23.66
-
Ṛk 3
स्तु॒तासो॑ नो म॒रुतो॑ मृळयंतू॒त स्तु॒तो म॒घवा॒ शंभ॑विष्ठः ।
ऊ॒र्ध्वा नः॑ संतु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥स्तुतासो नो मरुतो मृऌअयन्तूत स्तुतो मघवा शम्भविष्ठः |
ऊर्ध्वा नः सन्तु कोम्या वनान्य् अहानि विश्वा मरुतो जिगीषा ||stutā́so no marúto mṛḷayantūtá stutó maghávā śámbhaviṣṭhaḥ ǀ
ūrdhvā́ naḥ santu komyā́ vánānyáhāni víśvā maruto jigīṣā́ ǁstutāso no maruto mṛḷayantūta stuto maghavā śambhaviṣṭhaḥ |
ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā ||स्तु॒तासः॑ । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । उ॒त । स्तु॒तः । म॒घऽवा॑ । शम्ऽभ॑विष्ठः ।
ऊ॒र्ध्वा । नः॒ । स॒न्तु॒ । को॒म्या । वना॑नि । अहा॑नि । विश्वा॑ । म॒रु॒तः॒ । जि॒गी॒षा ॥स्तुतासः । नः । मरुतः । मृळयन्तु । उत । स्तुतः । मघऽवा । शम्ऽभविष्ठः ।
ऊर्ध्वा । नः । सन्तु । कोम्या । वनानि । अहानि । विश्वा । मरुतः । जिगीषा ॥stutā́saḥ ǀ naḥ ǀ marútaḥ ǀ mṛḷayantu ǀ utá ǀ stutáḥ ǀ maghá-vā ǀ śám-bhaviṣṭhaḥ ǀ
ūrdhvā́ ǀ naḥ ǀ santu ǀ komyā́ ǀ vánāni ǀ áhāni ǀ víśvā ǀ marutaḥ ǀ jigīṣā́ ǁstutāsaḥ ǀ naḥ ǀ marutaḥ ǀ mṛḷayantu ǀ uta ǀ stutaḥ ǀ magha-vā ǀ śam-bhaviṣṭhaḥ ǀ
ūrdhvā ǀ naḥ ǀ santu ǀ komyā ǀ vanāni ǀ ahāni ǀ viśvā ǀ marutaḥ ǀ jigīṣā ǁ1.171.3 Aṣṭaka 2.4.11.3Anuvāka 1.23.67
-
Ṛk 4
अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इंद्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः ।
यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यासं॒तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥अस्माद् अहं तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः |
युष्मभ्यं हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृऌअता नः ||asmā́dahám taviṣā́dī́ṣamāṇa índrādbhiyā́ maruto réjamānaḥ ǀ
yuṣmábhyam havyā́ níśitānyāsantā́nyāré cakṛmā mṛḷátā naḥ ǁasmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ |
yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛḷatā naḥ ||अ॒स्मात् । अ॒हम् । त॒वि॒षात् । ईष॑माणः । इन्द्रा॑त् । भि॒या । म॒रु॒तः॒ । रेज॑मानः ।
यु॒ष्मभ्य॑म् । ह॒व्या । निऽशि॑तानि । आ॒स॒न् । तानि॑ । आ॒रे । च॒कृ॒म॒ । मृ॒ळत॑ । नः॒ ॥अस्मात् । अहम् । तविषात् । ईषमाणः । इन्द्रात् । भिया । मरुतः । रेजमानः ।
युष्मभ्यम् । हव्या । निऽशितानि । आसन् । तानि । आरे । चकृम । मृळत । नः ॥asmā́t ǀ ahám ǀ taviṣā́t ǀ ī́ṣamāṇaḥ ǀ índrāt ǀ bhiyā́ ǀ marutaḥ ǀ réjamānaḥ ǀ
yuṣmábhyam ǀ havyā́ ǀ ní-śitāni ǀ āsan ǀ tā́ni ǀ āré ǀ cakṛma ǀ mṛḷáta ǀ naḥ ǁasmāt ǀ aham ǀ taviṣāt ǀ īṣamāṇaḥ ǀ indrāt ǀ bhiyā ǀ marutaḥ ǀ rejamānaḥ ǀ
yuṣmabhyam ǀ havyā ǀ ni-śitāni ǀ āsan ǀ tāni ǀ āre ǀ cakṛma ǀ mṛḷata ǀ naḥ ǁ1.171.4 Aṣṭaka 2.4.11.4Anuvāka 1.23.68
-
Ṛk 5
येन॒ माना॑सश्चि॒तयं॑त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनां ।
स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभिः॒ स्थवि॑रः सहो॒दाः ॥येन मानासश् चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् |
स नो मरुद्भिर् वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ||yéna mā́nāsaścitáyanta usrā́ vyúṣṭiṣu śávasā śáśvatīnām ǀ
sá no marúdbhirvṛṣabha śrávo dhā ugrá ugrébhiḥ stháviraḥ sahodā́ḥ ǁyena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām |
sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ ||येन॑ । माना॑सः । चि॒तय॑न्ते । उ॒स्राः । विऽउ॑ष्टिषु । शव॑सा । शश्व॑तीनाम् ।
सः । नः॒ । म॒रुत्ऽभिः॑ । वृ॒ष॒भ॒ । श्रवः॑ । धाः॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । स्थवि॑रः । स॒हः॒ऽदाः ॥येन । मानासः । चितयन्ते । उस्राः । विऽउष्टिषु । शवसा । शश्वतीनाम् ।
सः । नः । मरुत्ऽभिः । वृषभ । श्रवः । धाः । उग्रः । उग्रेभिः । स्थविरः । सहःऽदाः ॥yéna ǀ mā́nāsaḥ ǀ citáyante ǀ usrā́ḥ ǀ ví-uṣṭiṣu ǀ śávasā ǀ śáśvatīnām ǀ
sáḥ ǀ naḥ ǀ marút-bhiḥ ǀ vṛṣabha ǀ śrávaḥ ǀ dhāḥ ǀ ugráḥ ǀ ugrébhiḥ ǀ stháviraḥ ǀ sahaḥ-dā́ḥ ǁyena ǀ mānāsaḥ ǀ citayante ǀ usrāḥ ǀ vi-uṣṭiṣu ǀ śavasā ǀ śaśvatīnām ǀ
saḥ ǀ naḥ ǀ marut-bhiḥ ǀ vṛṣabha ǀ śravaḥ ǀ dhāḥ ǀ ugraḥ ǀ ugrebhiḥ ǀ sthaviraḥ ǀ sahaḥ-dāḥ ǁ1.171.5 Aṣṭaka 2.4.11.5Anuvāka 1.23.69
-
Ṛk 6
त्वं पा॑हींद्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः ।
सु॒प्र॒के॒तेभिः॑ सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥त्वम् पाहीन्द्र सहीयसो नॄन् भवा मरुद्भिर् अवयातहेऌआः |
सुप्रकेतेभिः सासहिर् दधानो विद्यामेषं वृजनं जीरदानुम् ||tvám pāhīndra sáhīyaso nṝ́nbhávā marúdbhirávayātaheḷāḥ ǀ
supraketébhiḥ sāsahírdádhāno vidyā́meṣám vṛjánam jīrádānum ǁtvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheḷāḥ |
supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum ||त्वम् । पा॒हि॒ । इ॒न्द्र॒ । सही॑यसः । नॄन् । भव॑ । म॒रुत्ऽभिः॑ । अव॑यातऽहेळाः ।
सु॒ऽप्र॒के॒तेभिः॑ । स॒स॒हिः । दधा॑नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥त्वम् । पाहि । इन्द्र । सहीयसः । नॄन् । भव । मरुत्ऽभिः । अवयातऽहेळाः ।
सुऽप्रकेतेभिः । ससहिः । दधानः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥tvám ǀ pāhi ǀ indra ǀ sáhīyasaḥ ǀ nṝ́n ǀ bháva ǀ marút-bhiḥ ǀ ávayāta-heḷāḥ ǀ
su-praketébhiḥ ǀ sasahíḥ ǀ dádhānaḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁtvam ǀ pāhi ǀ indra ǀ sahīyasaḥ ǀ nṝn ǀ bhava ǀ marut-bhiḥ ǀ avayāta-heḷāḥ ǀ
su-praketebhiḥ ǀ sasahiḥ ǀ dadhānaḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.171.6 Aṣṭaka 2.4.11.6Anuvāka 1.23.70
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.