Ṛgveda · Maṇḍala 1

Sūkta 37

Maruts · Kaṇva Ghaura · 15 ṛks

Link
Devatā देवता
Maruts
Ṛṣi ऋषि
Kaṇva Ghaura
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles gāyatrī (1, 2, 4, 6-8, 12); nicṛdgāyatrī (3, 9, 11, 14); pipīlikāmadhyānicṛdgāyatrī (10, 15); virāḍgāyatrī (5); gāyatrī (pādanicṛdgāyatrī) (13)

2nd set of styles gāyatrī

  1. Ṛk 1

    क्री॒ळं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभं॑ ।
    कण्वा॑ अ॒भि प्र गा॑यत ॥

    क्रीऌअं वः शर्धो मारुतम् अनर्वाणं रथेशुभम् |
    कण्वा अभि प्र गायत ||

    krīḷám vaḥ śárdho mā́rutamanarvā́ṇam ratheśúbham ǀ
    káṇvā abhí prá gāyata ǁ

    krīḷaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubham |
    kaṇvā abhi pra gāyata ||

    क्री॒ळम् । वः॒ । शर्धः॑ । मारु॑तम् । अ॒न॒र्वाण॑म् । र॒थे॒ऽशुभ॑म् ।
    कण्वाः॑ । अ॒भि । प्र । गा॒य॒त॒ ॥

    क्रीळम् । वः । शर्धः । मारुतम् । अनर्वाणम् । रथेऽशुभम् ।
    कण्वाः । अभि । प्र । गायत ॥

    krīḷám ǀ vaḥ ǀ śárdhaḥ ǀ mā́rutam ǀ anarvā́ṇam ǀ rathe-śúbham ǀ
    káṇvāḥ ǀ abhí ǀ prá ǀ gāyata ǁ

    krīḷam ǀ vaḥ ǀ śardhaḥ ǀ mārutam ǀ anarvāṇam ǀ rathe-śubham ǀ
    kaṇvāḥ ǀ abhi ǀ pra ǀ gāyata ǁ

    1.37.1 Aṣṭaka 1.3.12.1Anuvāka 1.8.21

  2. Ṛk 2

    ये पृष॑तीभिर्ऋ॒ष्टिभिः॑ सा॒कं वाशी॑भिरं॒जिभिः॑ ।
    अजा॑यंत॒ स्वभा॑नवः ॥

    ये पृषतीभिर् ऋष्टिभिः साकं वाशीभिर् अञ्जिभिः |
    अजायन्त स्वभानवः ||

    yé pṛ́ṣatībhirṛṣṭíbhiḥ sākám vā́śībhirañjíbhiḥ ǀ
    ájāyanta svábhānavaḥ ǁ

    ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ |
    ajāyanta svabhānavaḥ ||

    ये । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । सा॒कम् । वाशी॑भिः । अ॒ञ्जिऽभिः॑ ।
    अजा॑यन्त । स्वऽभा॑नवः ॥

    ये । पृषतीभिः । ऋष्टिऽभिः । साकम् । वाशीभिः । अञ्जिऽभिः ।
    अजायन्त । स्वऽभानवः ॥

    yé ǀ pṛ́ṣatībhiḥ ǀ ṛṣṭí-bhiḥ ǀ sākám ǀ vā́śībhiḥ ǀ añjí-bhiḥ ǀ
    ájāyanta ǀ svá-bhānavaḥ ǁ

    ye ǀ pṛṣatībhiḥ ǀ ṛṣṭi-bhiḥ ǀ sākam ǀ vāśībhiḥ ǀ añji-bhiḥ ǀ
    ajāyanta ǀ sva-bhānavaḥ ǁ

    1.37.2 Aṣṭaka 1.3.12.2Anuvāka 1.8.22

  3. Ṛk 3

    इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न् ।
    नि यामं॑चि॒त्रमृं॑जते ॥

    इहेव शृण्व एषां कशा हस्तेषु यद् वदान् |
    नि यामञ् चित्रम् ऋञ्जते ||

    ihéva śṛṇva eṣām káśā hásteṣu yádvádān ǀ
    ní yā́mañcitrámṛñjate ǁ

    iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān |
    ni yāmañ citram ṛñjate ||

    इ॒हऽइ॑व । शृ॒ण्वे॒ । ए॒षा॒म् । कशाः॑ । हस्ते॑षु । यत् । वदा॑न् ।
    नि । याम॑न् । चि॒त्रम् । ऋ॒ञ्ज॒ते॒ ॥

    इहऽइव । शृण्वे । एषाम् । कशाः । हस्तेषु । यत् । वदान् ।
    नि । यामन् । चित्रम् । ऋञ्जते ॥

    ihá-iva ǀ śṛṇve ǀ eṣām ǀ káśāḥ ǀ hásteṣu ǀ yát ǀ vádān ǀ
    ní ǀ yā́man ǀ citrám ǀ ṛñjate ǁ

    iha-iva ǀ śṛṇve ǀ eṣām ǀ kaśāḥ ǀ hasteṣu ǀ yat ǀ vadān ǀ
    ni ǀ yāman ǀ citram ǀ ṛñjate ǁ

    1.37.3 Aṣṭaka 1.3.12.3Anuvāka 1.8.23

  4. Ṛk 4

    प्र वः॒ शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ ।
    दे॒वत्तं॒ ब्रह्म॑ गायत ॥

    प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे |
    देवत्तम् ब्रह्म गायत ||

    prá vaḥ śárdhāya ghṛ́ṣvaye tveṣádyumnāya śuṣmíṇe ǀ
    deváttam bráhma gāyata ǁ

    pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe |
    devattam brahma gāyata ||

    प्र । वः॒ । शर्धा॑य । घृष्व॑ये । त्वे॒षऽद्यु॑म्नाय । शु॒ष्मिणे॑ ।
    दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒ ॥

    प्र । वः । शर्धाय । घृष्वये । त्वेषऽद्युम्नाय । शुष्मिणे ।
    देवत्तम् । ब्रह्म । गायत ॥

    prá ǀ vaḥ ǀ śárdhāya ǀ ghṛ́ṣvaye ǀ tveṣá-dyumnāya ǀ śuṣmíṇe ǀ
    deváttam ǀ bráhma ǀ gāyata ǁ

    pra ǀ vaḥ ǀ śardhāya ǀ ghṛṣvaye ǀ tveṣa-dyumnāya ǀ śuṣmiṇe ǀ
    devattam ǀ brahma ǀ gāyata ǁ

    1.37.4 Aṣṭaka 1.3.12.4Anuvāka 1.8.24

  5. Ṛk 5

    प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तं ।
    जंभे॒ रस॑स्य वावृधे ॥

    प्र शंसा गोष्व् अघ्न्यं क्रीऌअं यच् छर्धो मारुतम् |
    जम्भे रसस्य वावृधे ||

    prá śaṃsā góṣvághnyam krīḷám yácchárdho mā́rutam ǀ
    jámbhe rásasya vāvṛdhe ǁ

    pra śaṃsā goṣv aghnyaṃ krīḷaṃ yac chardho mārutam |
    jambhe rasasya vāvṛdhe ||

    प्र । शं॒स॒ । गोषु॑ । अघ्न्य॑म् । क्री॒ळम् । यत् । शर्धः॑ । मारु॑तम् ।
    जम्भे॑ । रस॑स्य । व॒वृ॒धे॒ ॥

    प्र । शंस । गोषु । अघ्न्यम् । क्रीळम् । यत् । शर्धः । मारुतम् ।
    जम्भे । रसस्य । ववृधे ॥

    prá ǀ śaṃsa ǀ góṣu ǀ ághnyam ǀ krīḷám ǀ yát ǀ śárdhaḥ ǀ mā́rutam ǀ
    jámbhe ǀ rásasya ǀ vavṛdhe ǁ

    pra ǀ śaṃsa ǀ goṣu ǀ aghnyam ǀ krīḷam ǀ yat ǀ śardhaḥ ǀ mārutam ǀ
    jambhe ǀ rasasya ǀ vavṛdhe ǁ

    1.37.5 Aṣṭaka 1.3.12.5Anuvāka 1.8.25

  6. Ṛk 6

    को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः ।
    यत्सी॒मंतं॒ न धू॑नु॒थ ॥

    को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः |
    यत् सीम् अन्तं न धूनुथ ||

    kó vo várṣiṣṭha ā́ naro diváśca gmáśca dhūtayaḥ ǀ
    yátsīmántam ná dhūnuthá ǁ

    ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ |
    yat sīm antaṃ na dhūnutha ||

    कः । वः॒ । वर्षि॑ष्ठः । आ । न॒रः॒ । दि॒वः । च॒ । ग्मः । च॒ । धू॒त॒यः॒ ।
    यत् । सी॒म् । अन्त॑म् । न । धू॒नु॒थ ॥

    कः । वः । वर्षिष्ठः । आ । नरः । दिवः । च । ग्मः । च । धूतयः ।
    यत् । सीम् । अन्तम् । न । धूनुथ ॥

    káḥ ǀ vaḥ ǀ várṣiṣṭhaḥ ǀ ā́ ǀ naraḥ ǀ diváḥ ǀ ca ǀ gmáḥ ǀ ca ǀ dhūtayaḥ ǀ
    yát ǀ sīm ǀ ántam ǀ ná ǀ dhūnuthá ǁ

    kaḥ ǀ vaḥ ǀ varṣiṣṭhaḥ ǀ ā ǀ naraḥ ǀ divaḥ ǀ ca ǀ gmaḥ ǀ ca ǀ dhūtayaḥ ǀ
    yat ǀ sīm ǀ antam ǀ na ǀ dhūnutha ǁ

    1.37.6 Aṣṭaka 1.3.13.1Anuvāka 1.8.26

  7. Ṛk 7

    नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ ।
    जिही॑त॒ पर्व॑तो गि॒रिः ॥

    नि वो यामाय मानुषो दध्र उग्राय मन्यवे |
    जिहीत पर्वतो गिरिः ||

    ní vo yā́māya mā́nuṣo dadhrá ugrā́ya manyáve ǀ
    jíhīta párvato giríḥ ǁ

    ni vo yāmāya mānuṣo dadhra ugrāya manyave |
    jihīta parvato giriḥ ||

    नि । वः॒ । यामा॑य । मानु॑षः । द॒ध्रे । उ॒ग्राय॑ । म॒न्यवे॑ ।
    जिही॑त । पर्व॑तः । गि॒रिः ॥

    नि । वः । यामाय । मानुषः । दध्रे । उग्राय । मन्यवे ।
    जिहीत । पर्वतः । गिरिः ॥

    ní ǀ vaḥ ǀ yā́māya ǀ mā́nuṣaḥ ǀ dadhré ǀ ugrā́ya ǀ manyáve ǀ
    jíhīta ǀ párvataḥ ǀ giríḥ ǁ

    ni ǀ vaḥ ǀ yāmāya ǀ mānuṣaḥ ǀ dadhre ǀ ugrāya ǀ manyave ǀ
    jihīta ǀ parvataḥ ǀ giriḥ ǁ

    1.37.7 Aṣṭaka 1.3.13.2Anuvāka 1.8.27

  8. Ṛk 8

    येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पतिः॑ ।
    भि॒या यामे॑षु॒ रेज॑ते ॥

    येषाम् अज्मेषु पृथिवी जुजुर्वां इव विश्पतिः |
    भिया यामेषु रेजते ||

    yéṣāmájmeṣu pṛthivī́ jujurvā́m̐ iva viśpátiḥ ǀ
    bhiyā́ yā́meṣu réjate ǁ

    yeṣām ajmeṣu pṛthivī jujurvāṃ iva viśpatiḥ |
    bhiyā yāmeṣu rejate ||

    येषा॑म् । अज्मे॑षु । पृ॒थि॒वी । जु॒जु॒र्वान्ऽइ॑व । वि॒श्पतिः॑ ।
    भि॒या । यामे॑षु । रेज॑ते ॥

    येषाम् । अज्मेषु । पृथिवी । जुजुर्वान्ऽइव । विश्पतिः ।
    भिया । यामेषु । रेजते ॥

    yéṣām ǀ ájmeṣu ǀ pṛthivī́ ǀ jujurvā́n-iva ǀ viśpátiḥ ǀ
    bhiyā́ ǀ yā́meṣu ǀ réjate ǁ

    yeṣām ǀ ajmeṣu ǀ pṛthivī ǀ jujurvān-iva ǀ viśpatiḥ ǀ
    bhiyā ǀ yāmeṣu ǀ rejate ǁ

    1.37.8 Aṣṭaka 1.3.13.3Anuvāka 1.8.28

  9. Ṛk 9

    स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे ।
    यत्सी॒मनु॑ द्वि॒ता शवः॑ ॥

    स्थिरं हि जानम् एषां वयो मातुर् निरेतवे |
    यत् सीम् अनु द्विता शवः ||

    sthirám hí jā́nameṣām váyo mātúrníretave ǀ
    yátsīmánu dvitā́ śávaḥ ǁ

    sthiraṃ hi jānam eṣāṃ vayo mātur niretave |
    yat sīm anu dvitā śavaḥ ||

    स्थि॒रम् । हि । जान॑म् । ए॒षा॒म् । वयः॑ । मा॒तुः । निःऽए॑तवे ।
    यत् । सी॒म् । अनु॑ । द्वि॒ता । शवः॑ ॥

    स्थिरम् । हि । जानम् । एषाम् । वयः । मातुः । निःऽएतवे ।
    यत् । सीम् । अनु । द्विता । शवः ॥

    sthirám ǀ hí ǀ jā́nam ǀ eṣām ǀ váyaḥ ǀ mātúḥ ǀ níḥ-etave ǀ
    yát ǀ sīm ǀ ánu ǀ dvitā́ ǀ śávaḥ ǁ

    sthiram ǀ hi ǀ jānam ǀ eṣām ǀ vayaḥ ǀ mātuḥ ǀ niḥ-etave ǀ
    yat ǀ sīm ǀ anu ǀ dvitā ǀ śavaḥ ǁ

    1.37.9 Aṣṭaka 1.3.13.4Anuvāka 1.8.29

  10. Ṛk 10

    उदु॒ त्ये सू॒नवो॒ गिरः॒ काष्ठा॒ अज्मे॑ष्वत्नत ।
    वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥

    उद् उ त्ये सूनवो गिरः काष्ठा अज्मेष्व् अत्नत |
    वाश्रा अभिज्ञु यातवे ||

    údu tyé sūnávo gíraḥ kā́ṣṭhā ájmeṣvatnata ǀ
    vāśrā́ abhijñú yā́tave ǁ

    ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata |
    vāśrā abhijñu yātave ||

    उत् । ऊं॒ इति॑ । त्ये । सू॒नवः॑ । गिरः॑ । काष्ठाः॑ । अज्मे॑षु । अ॒त्न॒त॒ ।
    वा॒श्राः । अ॒भि॒ऽज्ञु । यात॑वे ॥

    उत् । ऊं इति । त्ये । सूनवः । गिरः । काष्ठाः । अज्मेषु । अत्नत ।
    वाश्राः । अभिऽज्ञु । यातवे ॥

    út ǀ ūṃ íti ǀ tyé ǀ sūnávaḥ ǀ gíraḥ ǀ kā́ṣṭhāḥ ǀ ájmeṣu ǀ atnata ǀ
    vāśrā́ḥ ǀ abhi-jñú ǀ yā́tave ǁ

    ut ǀ ūṃ iti ǀ tye ǀ sūnavaḥ ǀ giraḥ ǀ kāṣṭhāḥ ǀ ajmeṣu ǀ atnata ǀ
    vāśrāḥ ǀ abhi-jñu ǀ yātave ǁ

    1.37.10 Aṣṭaka 1.3.13.5Anuvāka 1.8.30

  11. Ṛk 11

    त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रं ।
    प्र च्या॑वयंति॒ याम॑भिः ॥

    त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् |
    प्र च्यावयन्ति यामभिः ||

    tyám cidghā dīrghám pṛthúm mihó nápātamámṛdhram ǀ
    prá cyāvayanti yā́mabhiḥ ǁ

    tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram |
    pra cyāvayanti yāmabhiḥ ||

    त्यम् । चि॒त् । घ॒ । दी॒र्घम् । पृ॒थुम् । मि॒हः । नपा॑तम् । अमृ॑ध्रम् ।
    प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥

    त्यम् । चित् । घ । दीर्घम् । पृथुम् । मिहः । नपातम् । अमृध्रम् ।
    प्र । च्यवयन्ति । यामऽभिः ॥

    tyám ǀ cit ǀ gha ǀ dīrghám ǀ pṛthúm ǀ miháḥ ǀ nápātam ǀ ámṛdhram ǀ
    prá ǀ cyavayanti ǀ yā́ma-bhiḥ ǁ

    tyam ǀ cit ǀ gha ǀ dīrgham ǀ pṛthum ǀ mihaḥ ǀ napātam ǀ amṛdhram ǀ
    pra ǀ cyavayanti ǀ yāma-bhiḥ ǁ

    1.37.11 Aṣṭaka 1.3.14.1Anuvāka 1.8.31

  12. Ṛk 12

    मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन ।
    गि॒रीँर॑चुच्यवीतन ॥

    मरुतो यद् ध वो बलं जनां अचुच्यवीतन |
    गिरींर् अचुच्यवीतन ||

    máruto yáddha vo bálam jánām̐ acucyavītana ǀ
    girī́m̐racucyavītana ǁ

    maruto yad dha vo balaṃ janāṃ acucyavītana |
    girīṃr acucyavītana ||

    मरु॑तः । यत् । ह॒ । वः॒ । बल॑म् । जना॑न् । अ॒चु॒च्य॒वी॒त॒न॒ ।
    गि॒रीन् । अ॒चु॒च्य॒वी॒त॒न॒ ॥

    मरुतः । यत् । ह । वः । बलम् । जनान् । अचुच्यवीतन ।
    गिरीन् । अचुच्यवीतन ॥

    márutaḥ ǀ yát ǀ ha ǀ vaḥ ǀ bálam ǀ jánān ǀ acucyavītana ǀ
    girī́n ǀ acucyavītana ǁ

    marutaḥ ǀ yat ǀ ha ǀ vaḥ ǀ balam ǀ janān ǀ acucyavītana ǀ
    girīn ǀ acucyavītana ǁ

    1.37.12 Aṣṭaka 1.3.14.2Anuvāka 1.8.32

  13. Ṛk 13

    यद्ध॒ यांति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना ।
    शृ॒णोति॒ कश्चि॑देषां ॥

    यद् ध यान्ति मरुतः सं ह ब्रुवते ऽध्वन्न् आ |
    शृणोति कश् चिद् एषाम् ||

    yáddha yā́nti marútaḥ sám ha bruvaté’dhvannā́ ǀ
    śṛṇóti káścideṣām ǁ

    yad dha yānti marutaḥ saṃ ha bruvate 'dhvann ā |
    śṛṇoti kaś cid eṣām ||

    यत् । ह॒ । यान्ति॑ । म॒रुतः॑ । सम् । ह॒ । ब्रु॒व॒ते॒ । अध्व॑न् । आ ।
    शृ॒णोति॑ । कः । चि॒त् । ए॒षा॒म् ॥

    यत् । ह । यान्ति । मरुतः । सम् । ह । ब्रुवते । अध्वन् । आ ।
    शृणोति । कः । चित् । एषाम् ॥

    yát ǀ ha ǀ yā́nti ǀ marútaḥ ǀ sám ǀ ha ǀ bruvate ǀ ádhvan ǀ ā́ ǀ
    śṛṇóti ǀ káḥ ǀ cit ǀ eṣām ǁ

    yat ǀ ha ǀ yānti ǀ marutaḥ ǀ sam ǀ ha ǀ bruvate ǀ adhvan ǀ ā ǀ
    śṛṇoti ǀ kaḥ ǀ cit ǀ eṣām ǁ

    1.37.13 Aṣṭaka 1.3.14.3Anuvāka 1.8.33

  14. Ṛk 14

    प्र या॑त॒ शीभ॑मा॒शुभिः॒ संति॒ कण्वे॑षु वो॒ दुवः॑ ।
    तत्रो॒ षु मा॑दयाध्वै ॥

    प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः |
    तत्रो षु मादयाध्वै ||

    prá yāta śī́bhamāśúbhiḥ sánti káṇveṣu vo dúvaḥ ǀ
    tátro ṣú mādayādhvai ǁ

    pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ |
    tatro ṣu mādayādhvai ||

    प्र । या॒त॒ । शीभ॑म् । आ॒शुऽभिः॑ । सन्ति॑ । कण्वे॑षु । वः॒ । दुवः॑ ।
    तत्रो॒ इति॑ । सु । मा॒द॒या॒ध्वै॒ ॥

    प्र । यात । शीभम् । आशुऽभिः । सन्ति । कण्वेषु । वः । दुवः ।
    तत्रो इति । सु । मादयाध्वै ॥

    prá ǀ yāta ǀ śī́bham ǀ āśú-bhiḥ ǀ sánti ǀ káṇveṣu ǀ vaḥ ǀ dúvaḥ ǀ
    tátro íti ǀ sú ǀ mādayādhvai ǁ

    pra ǀ yāta ǀ śībham ǀ āśu-bhiḥ ǀ santi ǀ kaṇveṣu ǀ vaḥ ǀ duvaḥ ǀ
    tatro iti ǀ su ǀ mādayādhvai ǁ

    1.37.14 Aṣṭaka 1.3.14.4Anuvāka 1.8.34

  15. Ṛk 15

    अस्ति॒ हि ष्मा॒ मदा॑य वः॒ स्मसि॑ ष्मा व॒यमे॑षां ।
    विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥

    अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् |
    विश्वं चिद् आयुर् जीवसे ||

    ásti hí ṣmā mádāya vaḥ smási ṣmā vayámeṣām ǀ
    víśvam cidā́yurjīváse ǁ

    asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām |
    viśvaṃ cid āyur jīvase ||

    अस्ति॑ । हि । स्म॒ । मदा॑य । वः॒ । स्मसि॑ । स्म॒ । व॒यम् । ए॒षा॒म् ।
    विश्व॑म् । चि॒त् । आयुः॑ । जी॒वसे॑ ॥

    अस्ति । हि । स्म । मदाय । वः । स्मसि । स्म । वयम् । एषाम् ।
    विश्वम् । चित् । आयुः । जीवसे ॥

    ásti ǀ hí ǀ sma ǀ mádāya ǀ vaḥ ǀ smási ǀ sma ǀ vayám ǀ eṣām ǀ
    víśvam ǀ cit ǀ ā́yuḥ ǀ jīváse ǁ

    asti ǀ hi ǀ sma ǀ madāya ǀ vaḥ ǀ smasi ǀ sma ǀ vayam ǀ eṣām ǀ
    viśvam ǀ cit ǀ āyuḥ ǀ jīvase ǁ

    1.37.15 Aṣṭaka 1.3.14.5Anuvāka 1.8.35

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.37 · Maruts

Interpretations

Kapali Shastri

Ṛk 1

Translation

The Maruts are particular deities, tempestuous, fast-moving life-powers, effecting the divine movement of Indra's luminous, powerful mind-energies.

Commentary

Celebrate, O Kanvas, your host of Maruts, sportive, without battle-steeds, resplendent in their carriage.

Ṛk 2

Translation

Prishatibhih: the storming deer carrying the host of Maruts who are life-powers effecting the divine movement of mind-energies.

Rishi: their very gaze becomes the weapon of strike.

Anjibhih vashibhih: with words that reveal (decorate). Words arising from their tempestuous movement, bring out what is hidden (profound). With such speech do the Maruts, with their natural radiances, manifest to the inner sacrificant.

Commentary

The Maruts who borne by spotted deer, with decorative weapons of speech, are self-luminous.

Ṛk 3

Commentary

Words are their whip in hand. The moment they utter I hear instantly. Their speech works wonders in my journey.

Ṛk 4

Commentary

Sing ye the God-given hymn to your host of Maruts, forceful, of flaming light, powerful.

Ṛk 5

Commentary

Praise the might of Maruts, unslayable amid the Cows (radiances), sportive. Their might has grown in the womb of Soma-Delight.

Ṛk 6

Commentary

Shakers of Earth and Heaven, O heroes, who amongst ye is the mightiest? For ye shake all around like the hem of a garment.

Ṛk 7

Translation

The sacrificer provides a firm pillar-support to his body lest it collapse at the furious approach of the Maruts.

Commentary

For your gait, fierce and violent, the mortal laid firm (support). The many-ridged mountain would give way.

Ṛk 8

Commentary

At whose tempestuous approach, the earth like the enfeebled king, trembles in fear.

Ṛk 9

Translation

Prishni, the Cow of variegated hues, is the mother of Maruts. Like: Aditi, she is the field for the manifestation of the life-powers, source of the mental energies. Stationed in the infinite Life-region, capable of various manifestations, this substantial Shakti is the mother of the Maruts.

The power of the Maruts is twofold: action and knowledge; hence it is spoken of as double. There are other verses describing the mental energies as birds. Though they are life-powers, they attain to the form of mental activities.

Commentary

Their source is indeed firm. The birds have vigour to issue from their mother, for their prowess prevails double everywhere.

Ṛk 10

Translation

The verse describes the prowess of the speech of the Maruts. It has been described how even mountains crash. Here it is said how they spread out the Waters and the Kine are urged to obtain them by entering on their knees.

The Maruts are well-known as brethren of Indra. Following up the action of Indra, they spiead out the energies of nourishment (symbolised by waters) and thereby promote and impel of the currents of consciousness (symbolised by cows.)

Commentary

Generators of speech, they throw up the Water, in their courses; they impel the lowing Kine to proceed on their knees.

Ṛk 11

Translation

The cloud signifies the coverer of the waters, heavily dark.

Commentary

By their gait they throw 'down even him who is spread our long, offspring of the cloud (coverer) uninjurable.

Ṛk 12

Commentary

Because of your might, O Maruts, ye impel men, impel the clouds (to release the waters).

Ṛk 13

Translation

It is not the sound that all can hear; only the inner sacrificant whose subtle sense is awake that can hear it.

Commentary

As the Maruts proceed, they clamour on the way. Someone hears their report.

Ṛk 14

Commentary

Come quick, O Maruts, with your swift (vehicles); strenuous rituals are on for ye among the Kanvas; rejoice among them.

Ṛk 15

Commentary

For your gratification is the offering. To ye, verily, we belong, we are yours for all life.