Ṛk 1.37.11
Saṃhitā
त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रं ।
प्र च्या॑वयंति॒ याम॑भिः ॥
त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् |
प्र च्यावयन्ति यामभिः ||
tyám cidghā dīrghám pṛthúm mihó nápātamámṛdhram ǀ
prá cyāvayanti yā́mabhiḥ ǁ
tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram |
pra cyāvayanti yāmabhiḥ ||
Padapāṭha
त्यम् । चि॒त् । घ॒ । दी॒र्घम् । पृ॒थुम् । मि॒हः । नपा॑तम् । अमृ॑ध्रम् ।
प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥
त्यम् । चित् । घ । दीर्घम् । पृथुम् । मिहः । नपातम् । अमृध्रम् ।
प्र । च्यवयन्ति । यामऽभिः ॥
tyám ǀ cit ǀ gha ǀ dīrghám ǀ pṛthúm ǀ miháḥ ǀ nápātam ǀ ámṛdhram ǀ
prá ǀ cyavayanti ǀ yā́ma-bhiḥ ǁ
tyam ǀ cit ǀ gha ǀ dīrgham ǀ pṛthum ǀ mihaḥ ǀ napātam ǀ amṛdhram ǀ
pra ǀ cyavayanti ǀ yāma-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.037.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.14.01
- Maṇḍala · Anuvāka · Ṛk
- 01.08.031
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.