Sūkta 103
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 5, 6); virāṭtrisṭup (2, 4); triṣṭup (7, 8)
2nd set of styles triṣṭubh
-
Ṛk 1
तत्त॑ इंद्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयंत क॒वयः॑ पु॒रेदं ।
क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः पुरेदम् |
क्षमेदम् अन्यद् दिव्य् अन्यद् अस्य सम् ई पृच्यते समनेव केतुः ||tátta indriyám paramám parācáirádhārayanta kaváyaḥ purédám ǀ
kṣamédámanyáddivyányádasya sámī pṛcyate samanéva ketúḥ ǁtat ta indriyam paramam parācair adhārayanta kavayaḥ puredam |
kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ ||तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा॑रयन्त । क॒वयः॑ । पु॒रा । इ॒दम् ।
क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒मिति॑ । पृ॒च्य॒ते॒ । स॒म॒नाऽइ॑व । के॒तुः ॥तत् । ते । इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः । पुरा । इदम् ।
क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईमिति । पृच्यते । समनाऽइव । केतुः ॥tát ǀ te ǀ indriyám ǀ paramám ǀ parācáiḥ ǀ ádhārayanta ǀ kaváyaḥ ǀ purā́ ǀ idám ǀ
kṣamā́ ǀ idám ǀ anyát ǀ diví ǀ anyát ǀ asya ǀ sám ǀ īmíti ǀ pṛcyate ǀ samanā́-iva ǀ ketúḥ ǁtat ǀ te ǀ indriyam ǀ paramam ǀ parācaiḥ ǀ adhārayanta ǀ kavayaḥ ǀ purā ǀ idam ǀ
kṣamā ǀ idam ǀ anyat ǀ divi ǀ anyat ǀ asya ǀ sam ǀ īmiti ǀ pṛcyate ǀ samanā-iva ǀ ketuḥ ǁ1.103.1 Aṣṭaka 1.7.16.1Anuvāka 1.15.90
-
Ṛk 2
स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज ।
अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं॑सं म॒घवा॒ शची॑भिः ॥स धारयत् पृथिवीम् पप्रथच् च वज्रेण हत्वा निर् अपः ससर्ज |
अहन्न् अहिम् अभिनद् रौहिणं व्य् अहन् व्यंसम् मघवा शचीभिः ||sá dhārayatpṛthivī́m papráthacca vájreṇa hatvā́ nírapáḥ sasarja ǀ
áhannáhimábhinadrauhiṇám vyáhanvyáṃsam maghávā śácībhiḥ ǁsa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja |
ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ ||सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । वज्रे॑ण । ह॒त्वा । निः । अ॒पः । स॒स॒र्ज॒ ।
अह॑न् । अहि॑म् । अभि॑नत् । रौ॒हि॒णम् । वि । अह॑न् । विऽअं॑सम् । म॒घऽवा॑ । शची॑भिः ॥सः । धारयत् । पृथिवीम् । पप्रथत् । च । वज्रेण । हत्वा । निः । अपः । ससर्ज ।
अहन् । अहिम् । अभिनत् । रौहिणम् । वि । अहन् । विऽअंसम् । मघऽवा । शचीभिः ॥sáḥ ǀ dhārayat ǀ pṛthivī́m ǀ papráthat ǀ ca ǀ vájreṇa ǀ hatvā́ ǀ níḥ ǀ apáḥ ǀ sasarja ǀ
áhan ǀ áhim ǀ ábhinat ǀ rauhiṇám ǀ ví ǀ áhan ǀ ví-aṃsam ǀ maghá-vā ǀ śácībhiḥ ǁsaḥ ǀ dhārayat ǀ pṛthivīm ǀ paprathat ǀ ca ǀ vajreṇa ǀ hatvā ǀ niḥ ǀ apaḥ ǀ sasarja ǀ
ahan ǀ ahim ǀ abhinat ǀ rauhiṇam ǀ vi ǀ ahan ǀ vi-aṃsam ǀ magha-vā ǀ śacībhiḥ ǁ1.103.2 Aṣṭaka 1.7.16.2Anuvāka 1.15.91
-
Ṛk 3
स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओजः॒ पुरो॑ विभिं॒दन्न॑चर॒द्वि दासीः॑ ।
वि॒द्वान्व॑ज्रिं॒दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो॑ वर्धया द्यु॒म्नमिं॑द्र ॥स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्न् अचरद् वि दासीः |
विद्वान् वज्रिन् दस्यवे हेतिम् अस्यार्यं सहो वर्धया द्युम्नम् इन्द्र ||sá jātū́bharmā śraddádhāna ójaḥ púro vibhindánnacaradví dā́sīḥ ǀ
vidvā́nvajrindásyave hetímasyā́ryam sáho vardhayā dyumnámindra ǁsa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ |
vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra ||सः । जा॒तूऽभ॑र्मा । श्र॒त्ऽदधा॑नः । ओजः॑ । पुरः॑ । वि॒ऽभि॒न्दन् । अ॒च॒र॒त् । वि । दासीः॑ ।
वि॒द्वान् । व॒ज्रि॒न् । दस्य॑वे । हे॒तिम् । अ॒स्य॒ । आर्य॑म् । सहः॑ । व॒र्ध॒य॒ । द्यु॒म्नम् । इ॒न्द्र॒ ॥सः । जातूऽभर्मा । श्रत्ऽदधानः । ओजः । पुरः । विऽभिन्दन् । अचरत् । वि । दासीः ।
विद्वान् । वज्रिन् । दस्यवे । हेतिम् । अस्य । आर्यम् । सहः । वर्धय । द्युम्नम् । इन्द्र ॥sáḥ ǀ jātū́-bharmā ǀ śrat-dádhānaḥ ǀ ójaḥ ǀ púraḥ ǀ vi-bhindán ǀ acarat ǀ ví ǀ dā́sīḥ ǀ
vidvā́n ǀ vajrin ǀ dásyave ǀ hetím ǀ asya ǀ ā́ryam ǀ sáhaḥ ǀ vardhaya ǀ dyumnám ǀ indra ǁsaḥ ǀ jātū-bharmā ǀ śrat-dadhānaḥ ǀ ojaḥ ǀ puraḥ ǀ vi-bhindan ǀ acarat ǀ vi ǀ dāsīḥ ǀ
vidvān ǀ vajrin ǀ dasyave ǀ hetim ǀ asya ǀ āryam ǀ sahaḥ ǀ vardhaya ǀ dyumnam ǀ indra ǁ1.103.3 Aṣṭaka 1.7.16.3Anuvāka 1.15.92
-
Ṛk 4
तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् ।
उ॒प॒प्र॒यंद॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ॥तद् ऊचुषे मानुषेमा युगानि कीर्तेन्यम् मघवा नाम बिभ्रत् |
उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम दधे ||tádūcúṣe mā́nuṣemā́ yugā́ni kīrtényam maghávā nā́ma bíbhrat ǀ
upaprayándasyuhátyāya vajrī́ yáddha sūnúḥ śrávase nā́ma dadhé ǁtad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat |
upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe ||तत् । ऊ॒चुषे॑ । मानु॑षा । इ॒मा । यु॒गानि॑ । की॒र्तेन्य॑म् । म॒घऽवा॑ । नाम॑ । बिभ्र॑त् ।
उ॒प॒ऽप्र॒यन् । द॒स्यु॒ऽहत्या॑य । व॒ज्री । यत् । ह॒ । सू॒नुः । श्रव॑से । नाम॑ । द॒धे ॥तत् । ऊचुषे । मानुषा । इमा । युगानि । कीर्तेन्यम् । मघऽवा । नाम । बिभ्रत् ।
उपऽप्रयन् । दस्युऽहत्याय । वज्री । यत् । ह । सूनुः । श्रवसे । नाम । दधे ॥tát ǀ ūcúṣe ǀ mā́nuṣā ǀ imā́ ǀ yugā́ni ǀ kīrtényam ǀ maghá-vā ǀ nā́ma ǀ bíbhrat ǀ
upa-prayán ǀ dasyu-hátyāya ǀ vajrī́ ǀ yát ǀ ha ǀ sūnúḥ ǀ śrávase ǀ nā́ma ǀ dadhé ǁtat ǀ ūcuṣe ǀ mānuṣā ǀ imā ǀ yugāni ǀ kīrtenyam ǀ magha-vā ǀ nāma ǀ bibhrat ǀ
upa-prayan ǀ dasyu-hatyāya ǀ vajrī ǀ yat ǀ ha ǀ sūnuḥ ǀ śravase ǀ nāma ǀ dadhe ǁ1.103.4 Aṣṭaka 1.7.16.4Anuvāka 1.15.93
-
Ṛk 5
तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिंद्र॑स्य धत्तन वी॒र्या॑य ।
स गा अ॑विंद॒त्सो अ॑विंद॒दश्वा॒न्त्स ओष॑धीः॒ सो अ॒पः स वना॑नि ॥तद् अस्येदम् पश्यता भूरि पुष्टं श्रद् इन्द्रस्य धत्तन वीर्याय |
स गा अविन्दत् सो अविन्दद् अश्वान् स ओषधीः सो अपः स वनानि ||tádasyedám paśyatā bhū́ri puṣṭám śrádíndrasya dhattana vīryā́ya ǀ
sá gā́ avindatsó avindadáśvāntsá óṣadhīḥ só apáḥ sá vánāni ǁtad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya |
sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni ||तत् । अ॒स्य॒ । इ॒दम् । प॒श्य॒त॒ । भूरि॑ । पु॒ष्टम् । श्रत् । इन्द्र॑स्य । ध॒त्त॒न॒ । वी॒र्या॑य ।
सः । गाः । अ॒वि॒न्द॒त् । सः । अ॒वि॒न्द॒त् । अश्वा॑न् । सः । ओष॑धीः । सः । अ॒पः । सः । वना॑नि ॥तत् । अस्य । इदम् । पश्यत । भूरि । पुष्टम् । श्रत् । इन्द्रस्य । धत्तन । वीर्याय ।
सः । गाः । अविन्दत् । सः । अविन्दत् । अश्वान् । सः । ओषधीः । सः । अपः । सः । वनानि ॥tát ǀ asya ǀ idám ǀ paśyata ǀ bhū́ri ǀ puṣṭám ǀ śrát ǀ índrasya ǀ dhattana ǀ vīryā́ya ǀ
sáḥ ǀ gā́ḥ ǀ avindat ǀ sáḥ ǀ avindat ǀ áśvān ǀ sáḥ ǀ óṣadhīḥ ǀ sáḥ ǀ apáḥ ǀ sáḥ ǀ vánāni ǁtat ǀ asya ǀ idam ǀ paśyata ǀ bhūri ǀ puṣṭam ǀ śrat ǀ indrasya ǀ dhattana ǀ vīryāya ǀ
saḥ ǀ gāḥ ǀ avindat ǀ saḥ ǀ avindat ǀ aśvān ǀ saḥ ǀ oṣadhīḥ ǀ saḥ ǀ apaḥ ǀ saḥ ǀ vanāni ǁ1.103.5 Aṣṭaka 1.7.16.5Anuvāka 1.15.94
-
Ṛk 6
भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोमं॑ ।
य आ॒दृत्या॑ परिपं॒थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ॥भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् |
य आदृत्या परिपन्थीव शूरो ऽयज्वनो विभजन्न् एति वेदः ||bhū́rikarmaṇe vṛṣabhā́ya vṛ́ṣṇe satyáśuṣmāya sunavāma sómam ǀ
yá ādṛ́tyā paripanthī́va śū́ró’yajvano vibhájannéti védaḥ ǁbhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam |
ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ ||भूरि॑ऽकर्मणे । वृ॒ष॒भाय॑ । वृष्णे॑ । स॒त्यऽशु॑ष्माय । सु॒न॒वा॒म॒ । सोम॑म् ।
यः । आ॒ऽदृत्य॑ । प॒रि॒प॒न्थीऽइ॑व । शूरः॑ । अय॑ज्वनः । वि॒ऽभज॑न् । एति॑ । वेदः॑ ॥भूरिऽकर्मणे । वृषभाय । वृष्णे । सत्यऽशुष्माय । सुनवाम । सोमम् ।
यः । आऽदृत्य । परिपन्थीऽइव । शूरः । अयज्वनः । विऽभजन् । एति । वेदः ॥bhū́ri-karmaṇe ǀ vṛṣabhā́ya ǀ vṛ́ṣṇe ǀ satyá-śuṣmāya ǀ sunavāma ǀ sómam ǀ
yáḥ ǀ ā-dṛ́tya ǀ paripanthī́-iva ǀ śū́raḥ ǀ áyajvanaḥ ǀ vi-bhájan ǀ éti ǀ védaḥ ǁbhūri-karmaṇe ǀ vṛṣabhāya ǀ vṛṣṇe ǀ satya-śuṣmāya ǀ sunavāma ǀ somam ǀ
yaḥ ǀ ā-dṛtya ǀ paripanthī-iva ǀ śūraḥ ǀ ayajvanaḥ ǀ vi-bhajan ǀ eti ǀ vedaḥ ǁ1.103.6 Aṣṭaka 1.7.17.1Anuvāka 1.15.95
-
Ṛk 7
तदिं॑द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒संतं॒ वज्रे॒णाबो॑ध॒योऽहिं॑ ।
अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥तद् इन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं वज्रेणाबोधयो ऽहिम् |
अनु त्वा पत्नीर् हृषितं वयश् च विश्वे देवासो अमदन्न् अनु त्वा ||tádindra préva vīryám cakartha yátsasántam vájreṇā́bodhayó’him ǀ
ánu tvā pátnīrhṛṣitám váyaśca víśve devā́so amadannánu tvā ǁtad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him |
anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā ||तत् । इ॒न्द्र॒ । प्रऽइ॑व । वी॒र्य॑म् । च॒क॒र्थ॒ । यत् । स॒सन्त॑म् । वज्रे॑ण । अबो॑धयः । अहि॑म् ।
अनु॑ । त्वा॒ । पत्नीः॑ । हृ॒षि॒तम् । वयः॑ । च॒ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ॥तत् । इन्द्र । प्रऽइव । वीर्यम् । चकर्थ । यत् । ससन्तम् । वज्रेण । अबोधयः । अहिम् ।
अनु । त्वा । पत्नीः । हृषितम् । वयः । च । विश्वे । देवासः । अमदन् । अनु । त्वा ॥tát ǀ indra ǀ prá-iva ǀ vīryám ǀ cakartha ǀ yát ǀ sasántam ǀ vájreṇa ǀ ábodhayaḥ ǀ áhim ǀ
ánu ǀ tvā ǀ pátnīḥ ǀ hṛṣitám ǀ váyaḥ ǀ ca ǀ víśve ǀ devā́saḥ ǀ amadan ǀ ánu ǀ tvā ǁtat ǀ indra ǀ pra-iva ǀ vīryam ǀ cakartha ǀ yat ǀ sasantam ǀ vajreṇa ǀ abodhayaḥ ǀ ahim ǀ
anu ǀ tvā ǀ patnīḥ ǀ hṛṣitam ǀ vayaḥ ǀ ca ǀ viśve ǀ devāsaḥ ǀ amadan ǀ anu ǀ tvā ǁ1.103.7 Aṣṭaka 1.7.17.2Anuvāka 1.15.96
-
Ṛk 8
शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमिं॑द्र य॒दाव॑धी॒र्वि पुरः॒ शंब॑रस्य ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥शुष्णम् पिप्रुं कुयवं वृत्रम् इन्द्र यदावधीर् वि पुरः शम्बरस्य |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||śúṣṇam píprum kúyavam vṛtrámindra yadā́vadhīrví púraḥ śámbarasya ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁśuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||शुष्ण॑म् । पिप्रु॑म् । कुय॑वम् । वृ॒त्रम् । इ॒न्द्र॒ । य॒दा । अव॑धीः । वि । पुरः॑ । शम्ब॑रस्य ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥शुष्णम् । पिप्रुम् । कुयवम् । वृत्रम् । इन्द्र । यदा । अवधीः । वि । पुरः । शम्बरस्य ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥śúṣṇam ǀ píprum ǀ kúyavam ǀ vṛtrám ǀ indra ǀ yadā́ ǀ ávadhīḥ ǀ ví ǀ púraḥ ǀ śámbarasya ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁśuṣṇam ǀ piprum ǀ kuyavam ǀ vṛtram ǀ indra ǀ yadā ǀ avadhīḥ ǀ vi ǀ puraḥ ǀ śambarasya ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.103.8 Aṣṭaka 1.7.17.3Anuvāka 1.15.97
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.