Ṛgveda · Maṇḍala 1

Sūkta 119

Aśvins · Kakṣīvat Dairghatamasa · 10 ṛks

Link
Devatā देवता
Aśvins
Ṛṣi ऋषि
Kakṣīvat Dairghatamasa
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles nicṛjjagatī (1, 4, 6); bhuriktriṣṭup (2, 5, 9); jagatī (3, 7, 10); virāḍjagatī (8)

2nd set of styles jagatī

  1. Ṛk 1

    आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे ।
    स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥

    आ वां रथम् पुरुमायम् मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे |
    सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधाम् अभि प्रयः ||

    ā́ vām rátham purumāyám manojúvam jīrā́śvam yajñíyam jīváse huve ǀ
    sahásraketum vanínam śatádvasum śruṣṭīvā́nam varivodhā́mabhí práyaḥ ǁ

    ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve |
    sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ ||

    आ । वा॒म् । रथ॑म् । पु॒रु॒ऽमा॒यम् । म॒नः॒ऽजुव॑म् । जी॒रऽअ॑श्वम् । य॒ज्ञिय॑म् । जी॒वसे॑ । हु॒वे॒ ।
    स॒हस्र॑ऽकेतुम् । व॒निन॑म् । श॒तत्ऽव॑सुम् । श्रु॒ष्टी॒ऽवान॑म् । व॒रि॒वः॒ऽधाम् । अ॒भि । प्रयः॑ ॥

    आ । वाम् । रथम् । पुरुऽमायम् । मनःऽजुवम् । जीरऽअश्वम् । यज्ञियम् । जीवसे । हुवे ।
    सहस्रऽकेतुम् । वनिनम् । शतत्ऽवसुम् । श्रुष्टीऽवानम् । वरिवःऽधाम् । अभि । प्रयः ॥

    ā́ ǀ vām ǀ rátham ǀ puru-māyám ǀ manaḥ-júvam ǀ jīrá-aśvam ǀ yajñíyam ǀ jīváse ǀ huve ǀ
    sahásra-ketum ǀ vanínam ǀ śatát-vasum ǀ śruṣṭī-vā́nam ǀ varivaḥ-dhā́m ǀ abhí ǀ práyaḥ ǁ

    ā ǀ vām ǀ ratham ǀ puru-māyam ǀ manaḥ-juvam ǀ jīra-aśvam ǀ yajñiyam ǀ jīvase ǀ huve ǀ
    sahasra-ketum ǀ vaninam ǀ śatat-vasum ǀ śruṣṭī-vānam ǀ varivaḥ-dhām ǀ abhi ǀ prayaḥ ǁ

    1.119.1 Aṣṭaka 1.8.20.1Anuvāka 1.17.62

  2. Ṛk 2

    ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यंत॒ आ दिशः॑ ।
    स्वदा॑मि घ॒र्मं प्रति॑ यंत्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥

    ऊर्ध्वा धीतिः प्रत्य् अस्य प्रयामन्य् अधायि शस्मन् सम् अयन्त आ दिशः |
    स्वदामि घर्मम् प्रति यन्त्य् ऊतय आ वाम् ऊर्जानी रथम् अश्विनारुहत् ||

    ūrdhvā́ dhītíḥ prátyasya práyāmanyádhāyi śásmantsámayanta ā́ díśaḥ ǀ
    svádāmi gharmám práti yantyūtáya ā́ vāmūrjā́nī ráthamaśvināruhat ǁ

    ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ |
    svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat ||

    ऊ॒र्ध्वा । धी॒तिः । प्रति॑ । अ॒स्य॒ । प्रऽया॑मनि । अधा॑यि । शस्म॑न् । सम् । अ॒य॒न्ते॒ । आ । दिशः॑ ।
    स्वदा॑मि । घ॒र्मम् । प्रति॑ । य॒न्ति॒ । ऊ॒तयः॑ । आ । वा॒म् । ऊ॒र्जानी॑ । रथ॑म् । अ॒श्वि॒ना॒ । अ॒रु॒ह॒त् ॥

    ऊर्ध्वा । धीतिः । प्रति । अस्य । प्रऽयामनि । अधायि । शस्मन् । सम् । अयन्ते । आ । दिशः ।
    स्वदामि । घर्मम् । प्रति । यन्ति । ऊतयः । आ । वाम् । ऊर्जानी । रथम् । अश्विना । अरुहत् ॥

    ūrdhvā́ ǀ dhītíḥ ǀ práti ǀ asya ǀ prá-yāmani ǀ ádhāyi ǀ śásman ǀ sám ǀ ayante ǀ ā́ ǀ díśaḥ ǀ
    svádāmi ǀ gharmám ǀ práti ǀ yanti ǀ ūtáyaḥ ǀ ā́ ǀ vām ǀ ūrjā́nī ǀ rátham ǀ aśvinā ǀ aruhat ǁ

    ūrdhvā ǀ dhītiḥ ǀ prati ǀ asya ǀ pra-yāmani ǀ adhāyi ǀ śasman ǀ sam ǀ ayante ǀ ā ǀ diśaḥ ǀ
    svadāmi ǀ gharmam ǀ prati ǀ yanti ǀ ūtayaḥ ǀ ā ǀ vām ǀ ūrjānī ǀ ratham ǀ aśvinā ǀ aruhat ǁ

    1.119.2 Aṣṭaka 1.8.20.2Anuvāka 1.17.63

  3. Ṛk 3

    सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।
    यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वरं॑ ॥

    सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे |
    युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम् आ वरम् ||

    sám yánmitháḥ paspṛdhānā́so ágmata śubhé makhā́ ámitā jāyávo ráṇe ǀ
    yuvóráha pravaṇé cekite rátho yádaśvinā váhathaḥ sūrímā́ váram ǁ

    saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe |
    yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam ||

    सम् । यत् । मि॒थः । प॒स्पृ॒धा॒नासः॑ । अग्म॑त । शु॒भे । म॒खाः । अमि॑ताः । जा॒यवः॑ । रणे॑ ।
    यु॒वोः । अह॑ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः॑ । यत् । अ॒श्वि॒ना॒ । वह॑थः । सू॒रिम् । आ । वर॑म् ॥

    सम् । यत् । मिथः । पस्पृधानासः । अग्मत । शुभे । मखाः । अमिताः । जायवः । रणे ।
    युवोः । अह । प्रवणे । चेकिते । रथः । यत् । अश्विना । वहथः । सूरिम् । आ । वरम् ॥

    sám ǀ yát ǀ mitháḥ ǀ paspṛdhānā́saḥ ǀ ágmata ǀ śubhé ǀ makhā́ḥ ǀ ámitāḥ ǀ jāyávaḥ ǀ ráṇe ǀ
    yuvóḥ ǀ áha ǀ pravaṇé ǀ cekite ǀ ráthaḥ ǀ yát ǀ aśvinā ǀ váhathaḥ ǀ sūrím ǀ ā́ ǀ váram ǁ

    sam ǀ yat ǀ mithaḥ ǀ paspṛdhānāsaḥ ǀ agmata ǀ śubhe ǀ makhāḥ ǀ amitāḥ ǀ jāyavaḥ ǀ raṇe ǀ
    yuvoḥ ǀ aha ǀ pravaṇe ǀ cekite ǀ rathaḥ ǀ yat ǀ aśvinā ǀ vahathaḥ ǀ sūrim ǀ ā ǀ varam ǁ

    1.119.3 Aṣṭaka 1.8.20.3Anuvāka 1.17.64

  4. Ṛk 4

    यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वहं॑ता पि॒तृभ्य॒ आ ।
    या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥

    युवम् भुज्युम् भुरमाणं विभिर् गतं स्वयुक्तिभिर् निवहन्ता पितृभ्य आ |
    यासिष्टं वर्तिर् वृषणा विजेन्यं दिवोदासाय महि चेति वाम् अवः ||

    yuvám bhujyúm bhurámāṇam víbhirgatám sváyuktibhirniváhantā pitṛ́bhya ā́ ǀ
    yāsiṣṭám vartírvṛṣaṇā vijenyám dívodāsāya máhi ceti vāmávaḥ ǁ

    yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā |
    yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ ||

    यु॒वम् । भु॒ज्युम् । भु॒रमा॑णम् । विऽभिः॑ । ग॒तम् । स्वयु॑क्तिऽभिः । नि॒ऽवह॑न्ता । पि॒तृऽभ्यः॑ । आ ।
    या॒सि॒ष्टम् । व॒र्तिः । वृ॒ष॒णा॒ । वि॒ऽजे॒न्य॑म् । दिवः॑ऽदासाय । महि॑ । चे॒ति॒ । वा॒म् । अवः॑ ॥

    युवम् । भुज्युम् । भुरमाणम् । विऽभिः । गतम् । स्वयुक्तिऽभिः । निऽवहन्ता । पितृऽभ्यः । आ ।
    यासिष्टम् । वर्तिः । वृषणा । विऽजेन्यम् । दिवःऽदासाय । महि । चेति । वाम् । अवः ॥

    yuvám ǀ bhujyúm ǀ bhurámāṇam ǀ ví-bhiḥ ǀ gatám ǀ sváyukti-bhiḥ ǀ ni-váhantā ǀ pitṛ́-bhyaḥ ǀ ā́ ǀ
    yāsiṣṭám ǀ vartíḥ ǀ vṛṣaṇā ǀ vi-jenyám ǀ dívaḥ-dāsāya ǀ máhi ǀ ceti ǀ vām ǀ ávaḥ ǁ

    yuvam ǀ bhujyum ǀ bhuramāṇam ǀ vi-bhiḥ ǀ gatam ǀ svayukti-bhiḥ ǀ ni-vahantā ǀ pitṛ-bhyaḥ ǀ ā ǀ
    yāsiṣṭam ǀ vartiḥ ǀ vṛṣaṇā ǀ vi-jenyam ǀ divaḥ-dāsāya ǀ mahi ǀ ceti ǀ vām ǀ avaḥ ǁ

    1.119.4 Aṣṭaka 1.8.20.4Anuvāka 1.17.65

  5. Ṛk 5

    यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्यं॑ ।
    आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥

    युवोर् अश्विना वपुषे युवायुजं रथं वाणी येमतुर् अस्य शर्ध्यम् |
    आ वाम् पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवाम् पती ||

    yuvóraśvinā vápuṣe yuvāyújam rátham vā́ṇī yematurasya śárdhyam ǀ
    ā́ vām patitvám sakhyā́ya jagmúṣī yóṣāvṛṇīta jényā yuvā́m pátī ǁ

    yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam |
    ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī ||

    यु॒वोः । अ॒श्वि॒ना॒ । वपु॑षे । यु॒वा॒ऽयुज॑म् । रथ॑म् । वाणी॒ इति॑ । ये॒म॒तुः॒ । अ॒स्य॒ । शर्ध्य॑म् ।
    आ । वा॒म् । प॒ति॒ऽत्वम् । स॒ख्याय॑ । ज॒ग्मुषी॑ । योषा॑ । अ॒वृ॒णी॒त॒ । जेन्या॑ । यु॒वाम् । पती॒ इति॑ ॥

    युवोः । अश्विना । वपुषे । युवाऽयुजम् । रथम् । वाणी इति । येमतुः । अस्य । शर्ध्यम् ।
    आ । वाम् । पतिऽत्वम् । सख्याय । जग्मुषी । योषा । अवृणीत । जेन्या । युवाम् । पती इति ॥

    yuvóḥ ǀ aśvinā ǀ vápuṣe ǀ yuvā-yújam ǀ rátham ǀ vā́ṇī íti ǀ yematuḥ ǀ asya ǀ śárdhyam ǀ
    ā́ ǀ vām ǀ pati-tvám ǀ sakhyā́ya ǀ jagmúṣī ǀ yóṣā ǀ avṛṇīta ǀ jényā ǀ yuvā́m ǀ pátī íti ǁ

    yuvoḥ ǀ aśvinā ǀ vapuṣe ǀ yuvā-yujam ǀ ratham ǀ vāṇī iti ǀ yematuḥ ǀ asya ǀ śardhyam ǀ
    ā ǀ vām ǀ pati-tvam ǀ sakhyāya ǀ jagmuṣī ǀ yoṣā ǀ avṛṇīta ǀ jenyā ǀ yuvām ǀ patī iti ǁ

    1.119.5 Aṣṭaka 1.8.20.5Anuvāka 1.17.66

  6. Ṛk 6

    यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये ।
    यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वंद॑नस्ता॒र्यायु॑षा ॥

    युवं रेभम् परिषूतेर् उरुष्यथो हिमेन घर्मम् परितप्तम् अत्रये |
    युवं शयोर् अवसम् पिप्यथुर् गवि प्र दीर्घेण वन्दनस् तार्य् आयुषा ||

    yuvám rebhám páriṣūteruruṣyatho hiména gharmám páritaptamátraye ǀ
    yuvám śayóravasám pipyathurgávi prá dīrghéṇa vándanastāryā́yuṣā ǁ

    yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye |
    yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā ||

    यु॒वम् । रे॒भम् । परि॑ऽसूतेः । उ॒रु॒ष्य॒थः॒ । हि॒मेन॑ । घ॒र्मम् । परि॑ऽतप्तम् । अत्र॑ये ।
    यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि॑ । प्र । दी॒र्घेण॑ । वन्द॑नः । ता॒रि॒ । आयु॑षा ॥

    युवम् । रेभम् । परिऽसूतेः । उरुष्यथः । हिमेन । घर्मम् । परिऽतप्तम् । अत्रये ।
    युवम् । शयोः । अवसम् । पिप्यथुः । गवि । प्र । दीर्घेण । वन्दनः । तारि । आयुषा ॥

    yuvám ǀ rebhám ǀ pári-sūteḥ ǀ uruṣyathaḥ ǀ hiména ǀ gharmám ǀ pári-taptam ǀ átraye ǀ
    yuvám ǀ śayóḥ ǀ avasám ǀ pipyathuḥ ǀ gávi ǀ prá ǀ dīrghéṇa ǀ vándanaḥ ǀ tāri ǀ ā́yuṣā ǁ

    yuvam ǀ rebham ǀ pari-sūteḥ ǀ uruṣyathaḥ ǀ himena ǀ gharmam ǀ pari-taptam ǀ atraye ǀ
    yuvam ǀ śayoḥ ǀ avasam ǀ pipyathuḥ ǀ gavi ǀ pra ǀ dīrgheṇa ǀ vandanaḥ ǀ tāri ǀ āyuṣā ǁ

    1.119.6 Aṣṭaka 1.8.21.1Anuvāka 1.17.67

  7. Ṛk 7

    यु॒वं वंद॑नं॒ निर्ऋ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।
    क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥

    युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा सम् इन्वथः |
    क्षेत्राद् आ विप्रं जनथो विपन्यया प्र वाम् अत्र विधते दंसना भुवत् ||

    yuvám vándanam nírṛtam jaraṇyáyā rátham ná dasrā karaṇā́ sáminvathaḥ ǀ
    kṣétrādā́ vípram janatho vipanyáyā prá vāmátra vidhaté daṃsánā bhuvat ǁ

    yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ |
    kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat ||

    यु॒वम् । वन्द॑नम् । निःऽऋ॑तम् । ज॒र॒ण्यया॑ । रथ॑म् । न । द॒स्रा॒ । क॒र॒णा । सम् । इ॒न्व॒थः॒ ।
    क्षेत्रा॑त् । आ । विप्र॑म् । ज॒न॒थः॒ । वि॒प॒न्यया॑ । प्र । वा॒म् । अत्र॑ । वि॒ध॒ते । दं॒सना॑ । भु॒व॒त् ॥

    युवम् । वन्दनम् । निःऽऋतम् । जरण्यया । रथम् । न । दस्रा । करणा । सम् । इन्वथः ।
    क्षेत्रात् । आ । विप्रम् । जनथः । विपन्यया । प्र । वाम् । अत्र । विधते । दंसना । भुवत् ॥

    yuvám ǀ vándanam ǀ níḥ-ṛtam ǀ jaraṇyáyā ǀ rátham ǀ ná ǀ dasrā ǀ karaṇā́ ǀ sám ǀ invathaḥ ǀ
    kṣétrāt ǀ ā́ ǀ vípram ǀ janathaḥ ǀ vipanyáyā ǀ prá ǀ vām ǀ átra ǀ vidhaté ǀ daṃsánā ǀ bhuvat ǁ

    yuvam ǀ vandanam ǀ niḥ-ṛtam ǀ jaraṇyayā ǀ ratham ǀ na ǀ dasrā ǀ karaṇā ǀ sam ǀ invathaḥ ǀ
    kṣetrāt ǀ ā ǀ vipram ǀ janathaḥ ǀ vipanyayā ǀ pra ǀ vām ǀ atra ǀ vidhate ǀ daṃsanā ǀ bhuvat ǁ

    1.119.7 Aṣṭaka 1.8.21.2Anuvāka 1.17.68

  8. Ṛk 8

    अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितं ।
    स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥

    अगच्छतं कृपमाणम् परावति पितुः स्वस्य त्यजसा निबाधितम् |
    स्वर्वतीर् इत ऊतीर् युवोर् अह चित्रा अभीके अभवन्न् अभिष्टयः ||

    ágacchatam kṛ́pamāṇam parāváti pitúḥ svásya tyájasā níbādhitam ǀ
    svárvatīritá ūtī́ryuvóráha citrā́ abhī́ke abhavannabhíṣṭayaḥ ǁ

    agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam |
    svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ ||

    अग॑च्छतम् । कृप॑माणम् । प॒रा॒ऽवति॑ । पि॒तुः । स्वस्य॑ । त्यज॑सा । निऽबा॑धितम् ।
    स्वः॑ऽवतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह॑ । चि॒त्राः । अ॒भीके॑ । अ॒भ॒व॒न् । अ॒भिष्ट॑यः ॥

    अगच्छतम् । कृपमाणम् । पराऽवति । पितुः । स्वस्य । त्यजसा । निऽबाधितम् ।
    स्वःऽवतीः । इतः । ऊतीः । युवोः । अह । चित्राः । अभीके । अभवन् । अभिष्टयः ॥

    ágacchatam ǀ kṛ́pamāṇam ǀ parā-váti ǀ pitúḥ ǀ svásya ǀ tyájasā ǀ ní-bādhitam ǀ
    sváḥ-vatīḥ ǀ itáḥ ǀ ūtī́ḥ ǀ yuvóḥ ǀ áha ǀ citrā́ḥ ǀ abhī́ke ǀ abhavan ǀ abhíṣṭayaḥ ǁ

    agacchatam ǀ kṛpamāṇam ǀ parā-vati ǀ pituḥ ǀ svasya ǀ tyajasā ǀ ni-bādhitam ǀ
    svaḥ-vatīḥ ǀ itaḥ ǀ ūtīḥ ǀ yuvoḥ ǀ aha ǀ citrāḥ ǀ abhīke ǀ abhavan ǀ abhiṣṭayaḥ ǁ

    1.119.8 Aṣṭaka 1.8.21.3Anuvāka 1.17.69

  9. Ṛk 9

    उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।
    यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥

    उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो हुवन्यति |
    युवं दधीचो मन आ विवासथो ऽथा शिरः प्रति वाम् अश्व्यं वदत् ||

    utá syā́ vām mádhumanmákṣikārapanmáde sómasyauśijó huvanyati ǀ
    yuvám dadhīcó mána ā́ vivāsathó’thā śíraḥ práti vāmáśvyam vadat ǁ

    uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati |
    yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat ||

    उ॒त । स्या । वा॒म् । मधु॑ऽमत् । मक्षि॑का । अ॒र॒प॒त् । मदे॑ । सोम॑स्य । औ॒शि॒जः । हु॒व॒न्य॒ति॒ ।
    यु॒वम् । द॒धी॒चः । मनः॑ । आ । वि॒वा॒स॒थः॒ । अथ॑ । शिरः॑ । प्रति॑ । वा॒म् । अश्व्य॑म् । व॒द॒त् ॥

    उत । स्या । वाम् । मधुऽमत् । मक्षिका । अरपत् । मदे । सोमस्य । औशिजः । हुवन्यति ।
    युवम् । दधीचः । मनः । आ । विवासथः । अथ । शिरः । प्रति । वाम् । अश्व्यम् । वदत् ॥

    utá ǀ syā́ ǀ vām ǀ mádhu-mat ǀ mákṣikā ǀ arapat ǀ máde ǀ sómasya ǀ auśijáḥ ǀ huvanyati ǀ
    yuvám ǀ dadhīcáḥ ǀ mánaḥ ǀ ā́ ǀ vivāsathaḥ ǀ átha ǀ śíraḥ ǀ práti ǀ vām ǀ áśvyam ǀ vadat ǁ

    uta ǀ syā ǀ vām ǀ madhu-mat ǀ makṣikā ǀ arapat ǀ made ǀ somasya ǀ auśijaḥ ǀ huvanyati ǀ
    yuvam ǀ dadhīcaḥ ǀ manaḥ ǀ ā ǀ vivāsathaḥ ǀ atha ǀ śiraḥ ǀ prati ǀ vām ǀ aśvyam ǀ vadat ǁ

    1.119.9 Aṣṭaka 1.8.21.4Anuvāka 1.17.70

  10. Ṛk 10

    यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।
    शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिंद्र॑मिव चर्षणी॒सहं॑ ॥

    युवम् पेदवे पुरुवारम् अश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः |
    शर्यैर् अभिद्युम् पृतनासु दुष्टरं चर्कृत्यम् इन्द्रम् इव चर्षणीसहम् ||

    yuvám pedáve puruvā́ramaśvinā spṛdhā́m śvetám tarutā́ram duvasyathaḥ ǀ
    śáryairabhídyum pṛ́tanāsu duṣṭáram carkṛ́tyamíndramiva carṣaṇīsáham ǁ

    yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ |
    śaryair abhidyum pṛtanāsu duṣṭaraṃ carkṛtyam indram iva carṣaṇīsaham ||

    यु॒वम् । पे॒दवे॑ । पु॒रु॒ऽवार॑म् । अ॒श्वि॒ना॒ । स्पृ॒धाम् । श्वे॒तम् । त॒रु॒तार॑म् । दु॒व॒स्य॒थः॒ ।
    शर्यैः॑ । अ॒भिऽद्यु॑म् । पृत॑नासु । दु॒स्तर॑म् । च॒र्कृत्य॑म् । इन्द्र॑म्ऽइव । च॒र्ष॒णि॒ऽसह॑म् ॥

    युवम् । पेदवे । पुरुऽवारम् । अश्विना । स्पृधाम् । श्वेतम् । तरुतारम् । दुवस्यथः ।
    शर्यैः । अभिऽद्युम् । पृतनासु । दुस्तरम् । चर्कृत्यम् । इन्द्रम्ऽइव । चर्षणिऽसहम् ॥

    yuvám ǀ pedáve ǀ puru-vā́ram ǀ aśvinā ǀ spṛdhā́m ǀ śvetám ǀ tarutā́ram ǀ duvasyathaḥ ǀ
    śáryaiḥ ǀ abhí-dyum ǀ pṛ́tanāsu ǀ dustáram ǀ carkṛ́tyam ǀ índram-iva ǀ carṣaṇi-sáham ǁ

    yuvam ǀ pedave ǀ puru-vāram ǀ aśvinā ǀ spṛdhām ǀ śvetam ǀ tarutāram ǀ duvasyathaḥ ǀ
    śaryaiḥ ǀ abhi-dyum ǀ pṛtanāsu ǀ dustaram ǀ carkṛtyam ǀ indram-iva ǀ carṣaṇi-saham ǁ

    1.119.10 Aṣṭaka 1.8.21.5Anuvāka 1.17.71

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.119 · Aśvins

Interpretations

Kapali Shastri

Ṛk 1

Commentary

O Ashvins, for a life of dear object I call your car, wondrous, fast as mind, swift-horsed, invocable in sacrifice, recalling thousandfold wealth, enjoyable, of hundred treasures, with high Hearing, bearing felicity .

Footnote

Or, giving room

Ṛk 2

Commentary

As it moves, my mind for praise is lifted up, all the quarters gather. I sweeten the heated (body); hither come the helpers, O Ashvins, Urjani has ascended your car.

Ṛk 3

Commentary

When the sacrificers, numberless, conquering, mutually contending for glory, come together, then, verily, your car is perceived on the slope, in which ye bring choice boon for the illumined seer.

Ṛk 4

Commentary

O showerers, with your winging steeds, ye carried dying Bhujyu to his ancestors in the solitary dwelling. And famed is the great aid you rendered to Divodasa.

Ṛk 5

Commentary

Ashvins, your admirable steeds yoked for beauty bore the car to the goal. And the conquering woman (Surya) who came for companionship chose ye for husbands saying. 'ye are my lords’.

Ṛk 6

Commentary

Rebha ye released from confinement; for Atri ye quenched the scorching heat with cold; ye generated milk in Shayu's Cow; and Vandana was increased with prolonged life.

Ṛk 7

Commentary

Skilled workers, performers, like a car, ye restored Vandana worn out with old age; by his lauds ye brought forth the sage (Vamadeva) from the womb; may your deeds be done here for him who waits upon ye.

Ṛk 8

Commentary

Ye repaired to him, distressed by the abandonment of his own father, praying from afar; hence your own luminous, marvellous succours are desired here by all.

Ṛk 9

Commentary

And that honey-bee praised your sweet selves; Aushija calls ye in the rapture of Soma; ye illuminated the mind of Dadhyan and then with the head of the horse he spoke to ye (the Madhu Vidya).

Ṛk 10

Commentary

O Ashvins, ye gave to Pedu the white horse desired by many, carrying across the contestants, shining invincible in battles by warriors, repeatedly usable, like Indra, vanquisher of men.