Ṛgveda · Maṇḍala 1 · Sūkta 119
Ṛk 1.119.7
Saṃhitā
यु॒वं वंद॑नं॒ निर्ऋ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।
क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥
युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा सम् इन्वथः |
क्षेत्राद् आ विप्रं जनथो विपन्यया प्र वाम् अत्र विधते दंसना भुवत् ||
yuvám vándanam nírṛtam jaraṇyáyā rátham ná dasrā karaṇā́ sáminvathaḥ ǀ
kṣétrādā́ vípram janatho vipanyáyā prá vāmátra vidhaté daṃsánā bhuvat ǁ
yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ |
kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat ||
Padapāṭha
यु॒वम् । वन्द॑नम् । निःऽऋ॑तम् । ज॒र॒ण्यया॑ । रथ॑म् । न । द॒स्रा॒ । क॒र॒णा । सम् । इ॒न्व॒थः॒ ।
क्षेत्रा॑त् । आ । विप्र॑म् । ज॒न॒थः॒ । वि॒प॒न्यया॑ । प्र । वा॒म् । अत्र॑ । वि॒ध॒ते । दं॒सना॑ । भु॒व॒त् ॥
युवम् । वन्दनम् । निःऽऋतम् । जरण्यया । रथम् । न । दस्रा । करणा । सम् । इन्वथः ।
क्षेत्रात् । आ । विप्रम् । जनथः । विपन्यया । प्र । वाम् । अत्र । विधते । दंसना । भुवत् ॥
yuvám ǀ vándanam ǀ níḥ-ṛtam ǀ jaraṇyáyā ǀ rátham ǀ ná ǀ dasrā ǀ karaṇā́ ǀ sám ǀ invathaḥ ǀ
kṣétrāt ǀ ā́ ǀ vípram ǀ janathaḥ ǀ vipanyáyā ǀ prá ǀ vām ǀ átra ǀ vidhaté ǀ daṃsánā ǀ bhuvat ǁ
yuvam ǀ vandanam ǀ niḥ-ṛtam ǀ jaraṇyayā ǀ ratham ǀ na ǀ dasrā ǀ karaṇā ǀ sam ǀ invathaḥ ǀ
kṣetrāt ǀ ā ǀ vipram ǀ janathaḥ ǀ vipanyayā ǀ pra ǀ vām ǀ atra ǀ vidhate ǀ daṃsanā ǀ bhuvat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.119.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.21.02
- Maṇḍala · Anuvāka · Ṛk
- 1.17.068
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.