Sūkta 33
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2, 4, 8, 9, 12, 13); triṣṭup (3, 6, 10); virāṭtrisṭup (5, 7, 11); bhurikpaṅkti (14, 15)
2nd set of styles triṣṭubh
-
Ṛk 1
एताया॒मोप॑ ग॒व्यंत॒ इंद्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति ।
अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥एतायामोप गव्यन्त इन्द्रम् अस्माकं सु प्रमतिं वावृधाति |
अनामृणः कुविद् आद् अस्य रायो गवां केतम् परम् आवर्जते नः ||étā́yāmópa gavyánta índramasmā́kam sú prámatim vāvṛdhāti ǀ
anāmṛṇáḥ kuvídā́dasyá rāyó gávām kétam páramāvárjate naḥ ǁetāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti |
anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ ||आ । इ॒त॒ । अया॑म । उप॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । अ॒स्माक॑म् । सु । प्रऽम॑तिम् । व॒वृ॒धा॒ति॒ ।
अ॒ना॒मृ॒णः । कु॒वित् । आत् । अ॒स्य । रा॒यः । गवा॑म् । केत॑म् । पर॑म् । आ॒ऽवर्ज॑ते । नः॒ ॥आ । इत । अयाम । उप । गव्यन्तः । इन्द्रम् । अस्माकम् । सु । प्रऽमतिम् । ववृधाति ।
अनामृणः । कुवित् । आत् । अस्य । रायः । गवाम् । केतम् । परम् । आऽवर्जते । नः ॥ā́ ǀ ita ǀ áyāma ǀ úpa ǀ gavyántaḥ ǀ índram ǀ asmā́kam ǀ sú ǀ prá-matim ǀ vavṛdhāti ǀ
anāmṛṇáḥ ǀ kuvít ǀ ā́t ǀ asyá ǀ rāyáḥ ǀ gávām ǀ kétam ǀ páram ǀ ā-várjate ǀ naḥ ǁā ǀ ita ǀ ayāma ǀ upa ǀ gavyantaḥ ǀ indram ǀ asmākam ǀ su ǀ pra-matim ǀ vavṛdhāti ǀ
anāmṛṇaḥ ǀ kuvit ǀ āt ǀ asya ǀ rāyaḥ ǀ gavām ǀ ketam ǀ param ǀ ā-varjate ǀ naḥ ǁ1.33.1 Aṣṭaka 1.3.1.1Anuvāka 1.7.34
-
Ṛk 2
उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि ।
इंद्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥उपेद् अहं धनदाम् अप्रतीतं जुष्टां न श्येनो वसतिम् पतामि |
इन्द्रं नमस्यन्न् उपमेभिर् अर्कैर् य स्तोतृभ्यो हव्यो अस्ति यामन् ||úpédahám dhanadā́mápratītam júṣṭām ná śyenó vasatím patāmi ǀ
índram namasyánnupamébhirarkáiryáḥ stotṛ́bhyo hávyo ásti yā́man ǁuped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi |
indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman ||उप॑ । इत् । अ॒हम् । ध॒न॒ऽदाम् । अप्र॑तिऽइतम् । जुष्टा॑म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ ।
इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒ऽमेभिः॑ । अ॒र्कैः । यः । स्तो॒तृऽभ्यः॑ । हव्यः॑ । अस्ति॑ । याम॑न् ॥उप । इत् । अहम् । धनऽदाम् । अप्रतिऽइतम् । जुष्टाम् । न । श्येनः । वसतिम् । पतामि ।
इन्द्रम् । नमस्यन् । उपऽमेभिः । अर्कैः । यः । स्तोतृऽभ्यः । हव्यः । अस्ति । यामन् ॥úpa ǀ ít ǀ ahám ǀ dhana-dā́m ǀ áprati-itam ǀ júṣṭām ǀ ná ǀ śyenáḥ ǀ vasatím ǀ patāmi ǀ
índram ǀ namasyán ǀ upa-mébhiḥ ǀ arkáiḥ ǀ yáḥ ǀ stotṛ́-bhyaḥ ǀ hávyaḥ ǀ ásti ǀ yā́man ǁupa ǀ it ǀ aham ǀ dhana-dām ǀ aprati-itam ǀ juṣṭām ǀ na ǀ śyenaḥ ǀ vasatim ǀ patāmi ǀ
indram ǀ namasyan ǀ upa-mebhiḥ ǀ arkaiḥ ǀ yaḥ ǀ stotṛ-bhyaḥ ǀ havyaḥ ǀ asti ǀ yāman ǁ1.33.2 Aṣṭaka 1.3.1.2Anuvāka 1.7.35
-
Ṛk 3
नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ ।
चो॒ष्कू॒यमा॑ण इंद्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥नि सर्वसेन इषुधींर् असक्त सम् अर्यो गा अजति यस्य वष्टि |
चोष्कूयमाण इन्द्र भूरि वामम् मा पणिर् भूर् अस्मद् अधि प्रवृद्ध ||ní sárvasena iṣudhī́m̐rasakta sámaryó gā́ ajati yásya váṣṭi ǀ
coṣkūyámāṇa indra bhū́ri vāmám mā́ paṇírbhūrasmádádhi pravṛddha ǁni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi |
coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha ||नि । सर्व॑ऽसेनः । इ॒षु॒ऽधीन् । अ॒स॒क्त॒ । सम् । अ॒र्यः । गाः । अ॒ज॒ति॒ । यस्य॑ । वष्टि॑ ।
चो॒ष्कू॒यमा॑णः । इ॒न्द्र॒ । भूरि॑ । वा॒मम् । मा । प॒णिः । भूः॒ । अ॒स्मत् । अधि॑ । प्र॒ऽवृ॒द्ध॒ ॥नि । सर्वऽसेनः । इषुऽधीन् । असक्त । सम् । अर्यः । गाः । अजति । यस्य । वष्टि ।
चोष्कूयमाणः । इन्द्र । भूरि । वामम् । मा । पणिः । भूः । अस्मत् । अधि । प्रऽवृद्ध ॥ní ǀ sárva-senaḥ ǀ iṣu-dhī́n ǀ asakta ǀ sám ǀ aryáḥ ǀ gā́ḥ ǀ ajati ǀ yásya ǀ váṣṭi ǀ
coṣkūyámāṇaḥ ǀ indra ǀ bhū́ri ǀ vāmám ǀ mā́ ǀ paṇíḥ ǀ bhūḥ ǀ asmát ǀ ádhi ǀ pra-vṛddha ǁni ǀ sarva-senaḥ ǀ iṣu-dhīn ǀ asakta ǀ sam ǀ aryaḥ ǀ gāḥ ǀ ajati ǀ yasya ǀ vaṣṭi ǀ
coṣkūyamāṇaḥ ǀ indra ǀ bhūri ǀ vāmam ǀ mā ǀ paṇiḥ ǀ bhūḥ ǀ asmat ǀ adhi ǀ pra-vṛddha ǁ1.33.3 Aṣṭaka 1.3.1.3Anuvāka 1.7.36
-
Ṛk 4
वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिंद्र ।
धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥वधीर् हि दस्युं धनिनं घनेनं एकश् चरन्न् उपशाकेभिर् इन्द्र |
धनोर् अधि विषुणक् ते व्य् आयन्न् अयज्वानः सनकाः प्रेतिम् ईयुः ||vádhīrhí dásyum dhanínam ghanénam̐ ékaścárannupaśākébhirindra ǀ
dhánorádhi viṣuṇákté vyā́yannáyajvānaḥ sanakā́ḥ prétimīyuḥ ǁvadhīr hi dasyuṃ dhaninaṃ ghanenaṃ ekaś carann upaśākebhir indra |
dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ ||वधीः॑ । हि । दस्यु॑म् । ध॒निन॑म् । घ॒नेन॑ । एकः॑ । चर॑न् । उ॒प॒ऽशा॒केभिः॑ । इ॒न्द्र॒ ।
धनोः॑ । अधि॑ । वि॒षु॒णक् । ते । वि । आ॒य॒न् । अय॑ज्वानः । स॒न॒काः । प्रऽइ॑तिम् । ई॒युः॒ ॥वधीः । हि । दस्युम् । धनिनम् । घनेन । एकः । चरन् । उपऽशाकेभिः । इन्द्र ।
धनोः । अधि । विषुणक् । ते । वि । आयन् । अयज्वानः । सनकाः । प्रऽइतिम् । ईयुः ॥vádhīḥ ǀ hí ǀ dásyum ǀ dhanínam ǀ ghanéna ǀ ékaḥ ǀ cáran ǀ upa-śākébhiḥ ǀ indra ǀ
dhánoḥ ǀ ádhi ǀ viṣuṇák ǀ té ǀ ví ǀ āyan ǀ áyajvānaḥ ǀ sanakā́ḥ ǀ prá-itim ǀ īyuḥ ǁvadhīḥ ǀ hi ǀ dasyum ǀ dhaninam ǀ ghanena ǀ ekaḥ ǀ caran ǀ upa-śākebhiḥ ǀ indra ǀ
dhanoḥ ǀ adhi ǀ viṣuṇak ǀ te ǀ vi ǀ āyan ǀ ayajvānaḥ ǀ sanakāḥ ǀ pra-itim ǀ īyuḥ ǁ1.33.4 Aṣṭaka 1.3.1.4Anuvāka 1.7.37
-
Ṛk 5
परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इं॒द्राय॑ज्वानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः ।
प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥परा चिच् छीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभि स्पर्धमानाः |
प्र यद् दिवो हरिव स्थातर् उग्र निर् अव्रतां अधमो रोदस्योः ||párā cicchīrṣā́ vavṛjustá indrā́yajvāno yájvabhiḥ spárdhamānāḥ ǀ
prá yáddivó harivaḥ sthātarugra níravratā́m̐ adhamo ródasyoḥ ǁparā cic chīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ |
pra yad divo hariva sthātar ugra nir avratāṃ adhamo rodasyoḥ ||परा॑ । चि॒त् । शी॒र्षा । व॒वृ॒जुः॒ । ते । इ॒न्द्र॒ । अय॑ज्वानः । यज्व॑ऽभिः । स्पर्ध॑मानाः ।
प्र । यत् । दि॒वः । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । निः । अ॒व्र॒तान् । अ॒ध॒मः॒ । रोद॑स्योः ॥परा । चित् । शीर्षा । ववृजुः । ते । इन्द्र । अयज्वानः । यज्वऽभिः । स्पर्धमानाः ।
प्र । यत् । दिवः । हरिऽवः । स्थातः । उग्र । निः । अव्रतान् । अधमः । रोदस्योः ॥párā ǀ cit ǀ śīrṣā́ ǀ vavṛjuḥ ǀ té ǀ indra ǀ áyajvānaḥ ǀ yájva-bhiḥ ǀ spárdhamānāḥ ǀ
prá ǀ yát ǀ diváḥ ǀ hari-vaḥ ǀ sthātaḥ ǀ ugra ǀ níḥ ǀ avratā́n ǀ adhamaḥ ǀ ródasyoḥ ǁparā ǀ cit ǀ śīrṣā ǀ vavṛjuḥ ǀ te ǀ indra ǀ ayajvānaḥ ǀ yajva-bhiḥ ǀ spardhamānāḥ ǀ
pra ǀ yat ǀ divaḥ ǀ hari-vaḥ ǀ sthātaḥ ǀ ugra ǀ niḥ ǀ avratān ǀ adhamaḥ ǀ rodasyoḥ ǁ1.33.5 Aṣṭaka 1.3.1.5Anuvāka 1.7.38
-
Ṛk 6
अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयंत क्षि॒तयो॒ नव॑ग्वाः ।
वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिंद्रा॑च्चि॒तयं॑त आयन् ॥अयुयुत्सन्न् अनवद्यस्य सेनाम् अयातयन्त क्षितयो नवग्वाः |
वृषायुधो न वध्रयो निरष्टाः प्रवद्भिर् इन्द्राच् चितयन्त आयन् ||áyuyutsannanavadyásya sénāmáyātayanta kṣitáyo návagvāḥ ǀ
vṛṣāyúdho ná vádhrayo níraṣṭāḥ pravádbhiríndrāccitáyanta āyan ǁayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ |
vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan ||अयु॑युत्सन् । अ॒न॒व॒द्यस्य॑ । सेना॑म् । अया॑तयन्त । क्षि॒तयः॑ । नव॑ऽग्वाः ।
वृ॒ष॒ऽयुधः॑ । न । वध्र॑यः । निःऽअ॑ष्टाः । प्र॒वत्ऽभिः॑ । इन्द्रा॑त् । चि॒तय॑न्तः । आ॒य॒न् ॥अयुयुत्सन् । अनवद्यस्य । सेनाम् । अयातयन्त । क्षितयः । नवऽग्वाः ।
वृषऽयुधः । न । वध्रयः । निःऽअष्टाः । प्रवत्ऽभिः । इन्द्रात् । चितयन्तः । आयन् ॥áyuyutsan ǀ anavadyásya ǀ sénām ǀ áyātayanta ǀ kṣitáyaḥ ǀ náva-gvāḥ ǀ
vṛṣa-yúdhaḥ ǀ ná ǀ vádhrayaḥ ǀ níḥ-aṣṭāḥ ǀ pravát-bhiḥ ǀ índrāt ǀ citáyantaḥ ǀ āyan ǁayuyutsan ǀ anavadyasya ǀ senām ǀ ayātayanta ǀ kṣitayaḥ ǀ nava-gvāḥ ǀ
vṛṣa-yudhaḥ ǀ na ǀ vadhrayaḥ ǀ niḥ-aṣṭāḥ ǀ pravat-bhiḥ ǀ indrāt ǀ citayantaḥ ǀ āyan ǁ1.33.6 Aṣṭaka 1.3.2.1Anuvāka 1.7.39
-
Ṛk 7
त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इंद्र पा॒रे ।
अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥त्वम् एतान् रुदतो जक्षतश् चायोधयो रजस इन्द्र पारे |
अवादहो दिव आ दस्युम् उच्चा प्र सुन्वत स्तुवतः शंसम् आवः ||tvámetā́nrudató jákṣataścā́yodhayo rájasa indra pāré ǀ
ávādaho divá ā́ dásyumuccā́ prá sunvatáḥ stuvatáḥ śáṃsamāvaḥ ǁtvam etān rudato jakṣataś cāyodhayo rajasa indra pāre |
avādaho diva ā dasyum uccā pra sunvata stuvataḥ śaṃsam āvaḥ ||त्वम् । ए॒तान् । रु॒द॒तः । जक्ष॑तः । च॒ । अयो॑धयः । रज॑सः । इ॒न्द्र॒ । पा॒रे ।
अव॑ । अ॒द॒हः॒ । दि॒वः । आ । दस्यु॑म् । उ॒च्चा । प्र । सु॒न्व॒तः । स्तु॒व॒तः । शंस॑म् । आ॒वः॒ ॥त्वम् । एतान् । रुदतः । जक्षतः । च । अयोधयः । रजसः । इन्द्र । पारे ।
अव । अदहः । दिवः । आ । दस्युम् । उच्चा । प्र । सुन्वतः । स्तुवतः । शंसम् । आवः ॥tvám ǀ etā́n ǀ rudatáḥ ǀ jákṣataḥ ǀ ca ǀ áyodhayaḥ ǀ rájasaḥ ǀ indra ǀ pāré ǀ
áva ǀ adahaḥ ǀ diváḥ ǀ ā́ ǀ dásyum ǀ uccā́ ǀ prá ǀ sunvatáḥ ǀ stuvatáḥ ǀ śáṃsam ǀ āvaḥ ǁtvam ǀ etān ǀ rudataḥ ǀ jakṣataḥ ǀ ca ǀ ayodhayaḥ ǀ rajasaḥ ǀ indra ǀ pāre ǀ
ava ǀ adahaḥ ǀ divaḥ ǀ ā ǀ dasyum ǀ uccā ǀ pra ǀ sunvataḥ ǀ stuvataḥ ǀ śaṃsam ǀ āvaḥ ǁ1.33.7 Aṣṭaka 1.3.2.2Anuvāka 1.7.40
-
Ṛk 8
च॒क्रा॒णासः॑ परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुंभ॑मानाः ।
न हि॑न्वा॒नास॑स्तितिरु॒स्त इंद्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥चक्राणासः परीणहम् पृथिव्या हिरण्येन मणिना शुम्भमानाः |
न हिन्वानासस् तितिरुस् त इन्द्रम् परि स्पशो अदधात् सूर्येण ||cakrāṇā́saḥ parīṇáham pṛthivyā́ híraṇyena maṇínā śúmbhamānāḥ ǀ
ná hinvānā́sastitirustá índram pári spáśo adadhātsū́ryeṇa ǁcakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ |
na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa ||च॒क्रा॒णासः॑ । प॒रि॒ऽनह॑म् । पृ॒थि॒व्याः । हिर॑ण्येन । म॒णिना॑ । शुम्भ॑मानाः ।
न । हि॒न्वा॒नासः॑ । ति॒ति॒रुः॒ । ते । इन्द्र॑म् । परि॑ । स्पशः॑ । अ॒द॒धा॒त् । सूर्ये॑ण ॥चक्राणासः । परिऽनहम् । पृथिव्याः । हिरण्येन । मणिना । शुम्भमानाः ।
न । हिन्वानासः । तितिरुः । ते । इन्द्रम् । परि । स्पशः । अदधात् । सूर्येण ॥cakrāṇā́saḥ ǀ pari-náham ǀ pṛthivyā́ḥ ǀ híraṇyena ǀ maṇínā ǀ śúmbhamānāḥ ǀ
ná ǀ hinvānā́saḥ ǀ titiruḥ ǀ té ǀ índram ǀ pári ǀ spáśaḥ ǀ adadhāt ǀ sū́ryeṇa ǁcakrāṇāsaḥ ǀ pari-naham ǀ pṛthivyāḥ ǀ hiraṇyena ǀ maṇinā ǀ śumbhamānāḥ ǀ
na ǀ hinvānāsaḥ ǀ titiruḥ ǀ te ǀ indram ǀ pari ǀ spaśaḥ ǀ adadhāt ǀ sūryeṇa ǁ1.33.8 Aṣṭaka 1.3.2.3Anuvāka 1.7.41
-
Ṛk 9
परि॒ यदिं॑द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वतः॑ सीं ।
अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिंद्र ॥परि यद् इन्द्र रोदसी उभे अबुभोजीर् महिना विश्वतः सीम् |
अमन्यमानां अभि मन्यमानैर् निर् ब्रह्मभिर् अधमो दस्युम् इन्द्र ||pári yádindra ródasī ubhé ábubhojīrmahinā́ viśvátaḥ sīm ǀ
ámanyamānām̐ abhí mányamānairnírbrahmábhiradhamo dásyumindra ǁpari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm |
amanyamānāṃ abhi manyamānair nir brahmabhir adhamo dasyum indra ||परि॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अबु॑भोजीः । म॒हि॒ना । वि॒श्वतः॑ । सी॒म् ।
अम॑न्यमानान् । अ॒भि । मन्य॑मानैः । निः । ब्र॒ह्मऽभिः॑ । अ॒ध॒मः॒ । दस्यु॑म् । इ॒न्द्र॒ ॥परि । यत् । इन्द्र । रोदसी इति । उभे इति । अबुभोजीः । महिना । विश्वतः । सीम् ।
अमन्यमानान् । अभि । मन्यमानैः । निः । ब्रह्मऽभिः । अधमः । दस्युम् । इन्द्र ॥pári ǀ yát ǀ indra ǀ ródasī íti ǀ ubhé íti ǀ ábubhojīḥ ǀ mahinā́ ǀ viśvátaḥ ǀ sīm ǀ
ámanyamānān ǀ abhí ǀ mányamānaiḥ ǀ níḥ ǀ brahmá-bhiḥ ǀ adhamaḥ ǀ dásyum ǀ indra ǁpari ǀ yat ǀ indra ǀ rodasī iti ǀ ubhe iti ǀ abubhojīḥ ǀ mahinā ǀ viśvataḥ ǀ sīm ǀ
amanyamānān ǀ abhi ǀ manyamānaiḥ ǀ niḥ ǀ brahma-bhiḥ ǀ adhamaḥ ǀ dasyum ǀ indra ǁ1.33.9 Aṣṭaka 1.3.2.4Anuvāka 1.7.42
-
Ṛk 10
न ये दि॒वः पृ॑थि॒व्या अंत॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन् ।
युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इंद्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ॥न ये दिवः पृथिव्या अन्तम् आपुर् न मायाभिर् धनदाम् पर्यभूवन् |
युजं वज्रं वृषभश् चक्र इन्द्रो निर् ज्योतिषा तमसो गा अदुक्षत् ||ná yé diváḥ pṛthivyā́ ántamāpúrná māyā́bhirdhanadā́m paryábhūvan ǀ
yújam vájram vṛṣabháścakra índro nírjyótiṣā támaso gā́ adukṣat ǁna ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan |
yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat ||न । ये । दि॒वः । पृ॒थि॒व्याः । अन्त॑म् । आ॒पुः । न । मा॒याभिः॑ । ध॒न॒ऽदाम् । प॒रि॒ऽअभू॑वन् ।
युज॑म् । वज्र॑म् । वृ॒ष॒भः । च॒क्रे॒ । इन्द्रः॑ । निः । ज्योति॑षा । तम॑सः । गाः । अ॒धु॒क्ष॒त् ॥न । ये । दिवः । पृथिव्याः । अन्तम् । आपुः । न । मायाभिः । धनऽदाम् । परिऽअभूवन् ।
युजम् । वज्रम् । वृषभः । चक्रे । इन्द्रः । निः । ज्योतिषा । तमसः । गाः । अधुक्षत् ॥ná ǀ yé ǀ diváḥ ǀ pṛthivyā́ḥ ǀ ántam ǀ āpúḥ ǀ ná ǀ māyā́bhiḥ ǀ dhana-dā́m ǀ pari-ábhūvan ǀ
yújam ǀ vájram ǀ vṛṣabháḥ ǀ cakre ǀ índraḥ ǀ níḥ ǀ jyótiṣā ǀ támasaḥ ǀ gā́ḥ ǀ adhukṣat ǁna ǀ ye ǀ divaḥ ǀ pṛthivyāḥ ǀ antam ǀ āpuḥ ǀ na ǀ māyābhiḥ ǀ dhana-dām ǀ pari-abhūvan ǀ
yujam ǀ vajram ǀ vṛṣabhaḥ ǀ cakre ǀ indraḥ ǀ niḥ ǀ jyotiṣā ǀ tamasaḥ ǀ gāḥ ǀ adhukṣat ǁ1.33.10 Aṣṭaka 1.3.2.5Anuvāka 1.7.43
-
Ṛk 11
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नां ।
स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिंद्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ॥अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्य आ नाव्यानाम् |
सध्रीचीनेन मनसा तम् इन्द्र ओजिष्ठेन हन्मनाहन्न् अभि द्यून् ||ánu svadhā́makṣarannā́po asyā́vardhata mádhya ā́ nāvyā́nām ǀ
sadhrīcī́nena mánasā támíndra ójiṣṭhena hánmanāhannabhí dyū́n ǁanu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām |
sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn ||अनु॑ । स्व॒धाम् । अ॒क्ष॒र॒न् । आपः॑ । अ॒स्य॒ । अव॑र्धत । मध्ये॑ । आ । ना॒व्या॑नाम् ।
स॒ध्री॒चीने॑न । मन॑सा । तम् । इन्द्रः॑ । ओजि॑ष्ठेन । हन्म॑ना । अ॒ह॒न् । अ॒भि । द्यून् ॥अनु । स्वधाम् । अक्षरन् । आपः । अस्य । अवर्धत । मध्ये । आ । नाव्यानाम् ।
सध्रीचीनेन । मनसा । तम् । इन्द्रः । ओजिष्ठेन । हन्मना । अहन् । अभि । द्यून् ॥ánu ǀ svadhā́m ǀ akṣaran ǀ ā́paḥ ǀ asya ǀ ávardhata ǀ mádhye ǀ ā́ ǀ nāvyā́nām ǀ
sadhrīcī́nena ǀ mánasā ǀ tám ǀ índraḥ ǀ ójiṣṭhena ǀ hánmanā ǀ ahan ǀ abhí ǀ dyū́n ǁanu ǀ svadhām ǀ akṣaran ǀ āpaḥ ǀ asya ǀ avardhata ǀ madhye ǀ ā ǀ nāvyānām ǀ
sadhrīcīnena ǀ manasā ǀ tam ǀ indraḥ ǀ ojiṣṭhena ǀ hanmanā ǀ ahan ǀ abhi ǀ dyūn ǁ1.33.11 Aṣṭaka 1.3.3.1Anuvāka 1.7.44
-
Ṛk 12
न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृं॒गिण॑मभिन॒च्छुष्ण॒मिंद्रः॑ ।
याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युं ॥न्य् आविध्यद् इलीबिशस्य दृऌहा वि शृङ्गिणम् अभिनच् छुष्णम् इन्द्रः |
यावत् तरो मघवन् यावद् ओजो वज्रेण शत्रुम् अवधीः पृतन्युम् ||nyā́vidhyadilībíśasya dṛḷhā́ ví śṛṅgíṇamabhinacchúṣṇamíndraḥ ǀ
yā́vattáro maghavanyā́vadójo vájreṇa śátrumavadhīḥ pṛtanyúm ǁny āvidhyad ilībiśasya dṛḷhā vi śṛṅgiṇam abhinac chuṣṇam indraḥ |
yāvat taro maghavan yāvad ojo vajreṇa śatrum avadhīḥ pṛtanyum ||नि । अ॒वि॒ध्य॒त् । इ॒ली॒बिश॑स्य । दृ॒ळ्हा । वि । शृ॒ङ्गिण॑म् । अ॒भि॒न॒त् । शुष्ण॑म् । इन्द्रः॑ ।
याव॑त् । तरः॑ । म॒घ॒ऽव॒न् । याव॑त् । ओजः॑ । वज्रे॑ण । शत्रु॑म् । अ॒व॒धीः॒ । पृ॒त॒न्युम् ॥नि । अविध्यत् । इलीबिशस्य । दृळ्हा । वि । शृङ्गिणम् । अभिनत् । शुष्णम् । इन्द्रः ।
यावत् । तरः । मघऽवन् । यावत् । ओजः । वज्रेण । शत्रुम् । अवधीः । पृतन्युम् ॥ní ǀ avidhyat ǀ ilībíśasya ǀ dṛḷhā́ ǀ ví ǀ śṛṅgíṇam ǀ abhinat ǀ śúṣṇam ǀ índraḥ ǀ
yā́vat ǀ táraḥ ǀ magha-van ǀ yā́vat ǀ ójaḥ ǀ vájreṇa ǀ śátrum ǀ avadhīḥ ǀ pṛtanyúm ǁni ǀ avidhyat ǀ ilībiśasya ǀ dṛḷhā ǀ vi ǀ śṛṅgiṇam ǀ abhinat ǀ śuṣṇam ǀ indraḥ ǀ
yāvat ǀ taraḥ ǀ magha-van ǀ yāvat ǀ ojaḥ ǀ vajreṇa ǀ śatrum ǀ avadhīḥ ǀ pṛtanyum ǁ1.33.12 Aṣṭaka 1.3.3.2Anuvāka 1.7.45
-
Ṛk 13
अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् ।
सं वज्रे॑णासृजद्वृ॒त्रमिंद्रः॒ प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् |
सं वज्रेणासृजद् वृत्रम् इन्द्रः प्र स्वाम् मतिम् अतिरच् छाशदानः ||abhí sidhmó ajigādasya śátrūnví tigména vṛṣabhéṇā púro’bhet ǀ
sám vájreṇāsṛjadvṛtrámíndraḥ prá svā́m matímatiracchā́śadānaḥ ǁabhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet |
saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atirac chāśadānaḥ ||अ॒भि । सि॒ध्मः । अ॒जि॒गा॒त् । अ॒स्य॒ । शत्रू॑न् । वि । ति॒ग्मेन॑ । वृ॒ष॒भेण॑ । पुरः॑ । अ॒भे॒त् ।
सम् । वज्रे॑ण । अ॒सृ॒ज॒त् । वृ॒त्रम् । इन्द्रः॑ । प्र । स्वाम् । म॒तिम् । अ॒ति॒र॒त् । शाश॑दानः ॥अभि । सिध्मः । अजिगात् । अस्य । शत्रून् । वि । तिग्मेन । वृषभेण । पुरः । अभेत् ।
सम् । वज्रेण । असृजत् । वृत्रम् । इन्द्रः । प्र । स्वाम् । मतिम् । अतिरत् । शाशदानः ॥abhí ǀ sidhmáḥ ǀ ajigāt ǀ asya ǀ śátrūn ǀ ví ǀ tigména ǀ vṛṣabhéṇa ǀ púraḥ ǀ abhet ǀ
sám ǀ vájreṇa ǀ asṛjat ǀ vṛtrám ǀ índraḥ ǀ prá ǀ svā́m ǀ matím ǀ atirat ǀ śā́śadānaḥ ǁabhi ǀ sidhmaḥ ǀ ajigāt ǀ asya ǀ śatrūn ǀ vi ǀ tigmena ǀ vṛṣabheṇa ǀ puraḥ ǀ abhet ǀ
sam ǀ vajreṇa ǀ asṛjat ǀ vṛtram ǀ indraḥ ǀ pra ǀ svām ǀ matim ǀ atirat ǀ śāśadānaḥ ǁ1.33.13 Aṣṭaka 1.3.3.3Anuvāka 1.7.46
-
Ṛk 14
आवः॒ कुत्स॑मिंद्र॒ यस्मिं॑चा॒कन्प्रावो॒ युध्यं॑तं वृष॒भं दश॑द्युं ।
श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥आवः कुत्सम् इन्द्र यस्मिञ् चाकन् प्रावो युध्यन्तं वृषभं दशद्युम् |
शफच्युतो रेणुर् नक्षत द्याम् उच् छ्वैत्रेयो नृषाह्याय तस्थौ ||ā́vaḥ kútsamindra yásmiñcākánprā́vo yúdhyantam vṛṣabhám dáśadyum ǀ
śaphácyuto reṇúrnakṣata dyā́múcchvaitreyó nṛṣā́hyāya tasthau ǁāvaḥ kutsam indra yasmiñ cākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau ||आवः॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । प्र । आ॒वः॒ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् ।
श॒फऽच्यु॑तः । रे॒णुः । न॒क्ष॒त॒ । द्याम् । उत् । श्वै॒त्रे॒यः । नृ॒ऽसह्या॑य । त॒स्थौ॒ ॥आवः । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । प्र । आवः । युध्यन्तम् । वृषभम् । दशऽद्युम् ।
शफऽच्युतः । रेणुः । नक्षत । द्याम् । उत् । श्वैत्रेयः । नृऽसह्याय । तस्थौ ॥ā́vaḥ ǀ kútsam ǀ indra ǀ yásmin ǀ cākán ǀ prá ǀ āvaḥ ǀ yúdhyantam ǀ vṛṣabhám ǀ dáśa-dyum ǀ
śaphá-cyutaḥ ǀ reṇúḥ ǀ nakṣata ǀ dyā́m ǀ út ǀ śvaitreyáḥ ǀ nṛ-sáhyāya ǀ tasthau ǁāvaḥ ǀ kutsam ǀ indra ǀ yasmin ǀ cākan ǀ pra ǀ āvaḥ ǀ yudhyantam ǀ vṛṣabham ǀ daśa-dyum ǀ
śapha-cyutaḥ ǀ reṇuḥ ǀ nakṣata ǀ dyām ǀ ut ǀ śvaitreyaḥ ǀ nṛ-sahyāya ǀ tasthau ǁ1.33.14 Aṣṭaka 1.3.3.4Anuvāka 1.7.47
-
Ṛk 15
आवः॒ शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घवं॒छ्वित्र्यं॒ गां ।
ज्योक् चि॒दत्र॑ तस्थि॒वांसो॑ अक्रंछत्रूय॒तामध॑रा॒ वेद॑नाकः ॥आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ् छ्वित्र्यं गाम् |
ज्योक् चिद् अत्र तस्थिवांसो अक्रञ् छत्रूयताम् अधरा वेदनाकः ||ā́vaḥ śámam vṛṣabhám túgryāsu kṣetrajeṣé maghavañchvítryam gā́m ǀ
jyók cidátra tasthivā́ṃso akrañchatrūyatā́mádharā védanākaḥ ǁāvaḥ śamaṃ vṛṣabhaṃ tugryāsu kṣetrajeṣe maghavañ chvitryaṃ gām |
jyok cid atra tasthivāṃso akrañ chatrūyatām adharā vedanākaḥ ||आवः॑ । शम॑म् । वृ॒ष॒भम् । तुग्र्या॑सु । क्षे॒त्र॒ऽजे॒षे । म॒घ॒ऽव॒न् । श्वित्र्य॑म् । गाम् ।
ज्योक् । चि॒त् । अत्र॑ । त॒स्थि॒ऽवांसः॑ । अ॒क्र॒न् । श॒त्रु॒ऽय॒ताम् । अध॑रा । वेद॑ना । अ॒क॒रित्य॑कः ॥आवः । शमम् । वृषभम् । तुग्र्यासु । क्षेत्रऽजेषे । मघऽवन् । श्वित्र्यम् । गाम् ।
ज्योक् । चित् । अत्र । तस्थिऽवांसः । अक्रन् । शत्रुऽयताम् । अधरा । वेदना । अकरित्यकः ॥ā́vaḥ ǀ śámam ǀ vṛṣabhám ǀ túgryāsu ǀ kṣetra-jeṣé ǀ magha-van ǀ śvítryam ǀ gā́m ǀ
jyók ǀ cit ǀ átra ǀ tasthi-vā́ṃsaḥ ǀ akran ǀ śatru-yatā́m ǀ ádharā ǀ védanā ǀ akarítyakaḥ ǁāvaḥ ǀ śamam ǀ vṛṣabham ǀ tugryāsu ǀ kṣetra-jeṣe ǀ magha-van ǀ śvitryam ǀ gām ǀ
jyok ǀ cit ǀ atra ǀ tasthi-vāṃsaḥ ǀ akran ǀ śatru-yatām ǀ adharā ǀ vedanā ǀ akarityakaḥ ǁ1.33.15 Aṣṭaka 1.3.3.5Anuvāka 1.7.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.