Ṛgveda · Maṇḍala 1

Sūkta 92

Uṣas · Aśvins · Gotama Rāhūgaṇa · 18 ṛks

Link
Devatā देवता
1-15: Uṣas; 16-18: Aśvins
Ṛṣi ऋषि
Gotama Rāhūgaṇa
Chandas छन्दस्
Triṣṭubh, Uṣṇih, Jagatī
Metres by ṛk

1st set of styles virāṭtrisṭup (5, 7, 12); uṣṇik (16-18); nicṛjjagatī (1, 2); nicṛttriṣṭup (6, 10); triṣṭup (8, 9); virāṭparoṣṇik (14, 15); jagatī (3); virāḍjagatī (4); bhurikpaṅkti (11); nicṛtparoṣṇik (13)

2nd set of styles triṣṭubh (5-12); uṣṇih (13-18); jagatī (1-4)

  1. Ṛk 1

    ए॒ता उ॒ त्या उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुमं॑जते ।
    नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णवः॒ प्रति॒ गावोऽरु॑षीर्यंति मा॒तरः॑ ॥

    एता उ त्या उषसः केतुम् अक्रत पूर्वे अर्धे रजसो भानुम् अञ्जते |
    निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर् यन्ति मातरः ||

    etā́ u tyā́ uṣásaḥ ketúmakrata pū́rve árdhe rájaso bhānúmañjate ǀ
    niṣkṛṇvānā́ ā́yudhānīva dhṛṣṇávaḥ práti gā́vó’ruṣīryanti mātáraḥ ǁ

    etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate |
    niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ ||

    ए॒ताः । ऊं॒ इति॑ । त्याः । उ॒षसः॑ । के॒तुम् । अ॒क्र॒त॒ । पूर्वे॑ । अर्धे॑ । रज॑सः । भा॒नुम् । अ॒ञ्ज॒ते॒ ।
    निः॒ऽकृ॒ण्वा॒नाः । आयु॑धानिऽइव । धृ॒ष्णवः॑ । प्रति॑ । गावः॑ । अरु॑षीः । य॒न्ति॒ । मा॒तरः॑ ॥

    एताः । ऊं इति । त्याः । उषसः । केतुम् । अक्रत । पूर्वे । अर्धे । रजसः । भानुम् । अञ्जते ।
    निःऽकृण्वानाः । आयुधानिऽइव । धृष्णवः । प्रति । गावः । अरुषीः । यन्ति । मातरः ॥

    etā́ḥ ǀ ūṃ íti ǀ tyā́ḥ ǀ uṣásaḥ ǀ ketúm ǀ akrata ǀ pū́rve ǀ árdhe ǀ rájasaḥ ǀ bhānúm ǀ añjate ǀ
    niḥ-kṛṇvānā́ḥ ǀ ā́yudhāni-iva ǀ dhṛṣṇávaḥ ǀ práti ǀ gā́vaḥ ǀ áruṣīḥ ǀ yanti ǀ mātáraḥ ǁ

    etāḥ ǀ ūṃ iti ǀ tyāḥ ǀ uṣasaḥ ǀ ketum ǀ akrata ǀ pūrve ǀ ardhe ǀ rajasaḥ ǀ bhānum ǀ añjate ǀ
    niḥ-kṛṇvānāḥ ǀ āyudhāni-iva ǀ dhṛṣṇavaḥ ǀ prati ǀ gāvaḥ ǀ aruṣīḥ ǀ yanti ǀ mātaraḥ ǁ

    1.92.1 Aṣṭaka 1.6.24.1Anuvāka 1.14.77

  2. Ṛk 2

    उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत ।
    अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुशं॑तं भा॒नुमरु॑षीरशिश्रयुः ॥

    उद् अपप्तन्न् अरुणा भानवो वृथा स्वायुजो अरुषीर् गा अयुक्षत |
    अक्रन्न् उषासो वयुनानि पूर्वथा रुशन्तम् भानुम् अरुषीर् अशिश्रयुः ||

    údapaptannaruṇā́ bhānávo vṛ́thā svāyújo áruṣīrgā́ ayukṣata ǀ
    ákrannuṣā́so vayúnāni pūrváthā rúśantam bhānúmáruṣīraśiśrayuḥ ǁ

    ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata |
    akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ ||

    उत् । अ॒प॒प्त॒न् । अ॒रु॒णाः । भा॒नवः॑ । वृथा॑ । सु॒ऽआ॒युजः॑ । अरु॑षीः । गाः । अ॒यु॒क्ष॒त॒ ।
    अक्र॑न् । उ॒षसः॑ । व॒युना॑नि । पू॒र्वऽथा॑ । रुश॑न्तम् । भा॒नुम् । अरु॑षीः । अ॒शि॒श्र॒युः॒ ॥

    उत् । अपप्तन् । अरुणाः । भानवः । वृथा । सुऽआयुजः । अरुषीः । गाः । अयुक्षत ।
    अक्रन् । उषसः । वयुनानि । पूर्वऽथा । रुशन्तम् । भानुम् । अरुषीः । अशिश्रयुः ॥

    út ǀ apaptan ǀ aruṇā́ḥ ǀ bhānávaḥ ǀ vṛ́thā ǀ su-āyújaḥ ǀ áruṣīḥ ǀ gā́ḥ ǀ ayukṣata ǀ
    ákran ǀ uṣásaḥ ǀ vayúnāni ǀ pūrvá-thā ǀ rúśantam ǀ bhānúm ǀ áruṣīḥ ǀ aśiśrayuḥ ǁ

    ut ǀ apaptan ǀ aruṇāḥ ǀ bhānavaḥ ǀ vṛthā ǀ su-āyujaḥ ǀ aruṣīḥ ǀ gāḥ ǀ ayukṣata ǀ
    akran ǀ uṣasaḥ ǀ vayunāni ǀ pūrva-thā ǀ ruśantam ǀ bhānum ǀ aruṣīḥ ǀ aśiśrayuḥ ǁ

    1.92.2 Aṣṭaka 1.6.24.2Anuvāka 1.14.78

  3. Ṛk 3

    अर्चं॑ति॒ नारी॑र॒पसो॒ न वि॒ष्टिभिः॑ समा॒नेन॒ योज॑ने॒ना प॑रा॒वतः॑ ।
    इषं॒ वहं॑तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ॥

    अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना परावतः |
    इषं वहन्तीः सुकृते सुदानवे विश्वेद् अह यजमानाय सुन्वते ||

    árcanti nā́rīrapáso ná viṣṭíbhiḥ samānéna yójanenā́ parāvátaḥ ǀ
    íṣam váhantīḥ sukṛ́te sudā́nave víśvédáha yájamānāya sunvaté ǁ

    arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ |
    iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate ||

    अर्च॑न्ति । नारीः॑ । अ॒पसः॑ । न । वि॒ष्टिऽभिः॑ । स॒मा॒नेन॑ । योज॑नेन । आ । प॒रा॒ऽवतः॑ ।
    इष॑म् । वह॑न्तीः । सु॒ऽकृते॑ । सु॒ऽदान॑वे । विश्वा॑ । इत् । अह॑ । यज॑मानाय । सु॒न्व॒ते ॥

    अर्चन्ति । नारीः । अपसः । न । विष्टिऽभिः । समानेन । योजनेन । आ । पराऽवतः ।
    इषम् । वहन्तीः । सुऽकृते । सुऽदानवे । विश्वा । इत् । अह । यजमानाय । सुन्वते ॥

    árcanti ǀ nā́rīḥ ǀ apásaḥ ǀ ná ǀ viṣṭí-bhiḥ ǀ samānéna ǀ yójanena ǀ ā́ ǀ parā-vátaḥ ǀ
    íṣam ǀ váhantīḥ ǀ su-kṛ́te ǀ su-dā́nave ǀ víśvā ǀ ít ǀ áha ǀ yájamānāya ǀ sunvaté ǁ

    arcanti ǀ nārīḥ ǀ apasaḥ ǀ na ǀ viṣṭi-bhiḥ ǀ samānena ǀ yojanena ǀ ā ǀ parā-vataḥ ǀ
    iṣam ǀ vahantīḥ ǀ su-kṛte ǀ su-dānave ǀ viśvā ǀ it ǀ aha ǀ yajamānāya ǀ sunvate ǁ

    1.92.3 Aṣṭaka 1.6.24.3Anuvāka 1.14.79

  4. Ṛk 4

    अधि॒ पेशां॑सि वपते नृ॒तूरि॒वापो॑र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हं ।
    ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॒॑षा आ॑व॒र्तमः॑ ॥

    अधि पेशांसि वपते नृतूर् इवापोर्णुते वक्ष उस्रेव बर्जहम् |
    ज्योतिर् विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्य् उषा आवर् तमः ||

    ádhi péśāṃsi vapate nṛtū́rivā́porṇute vákṣa usréva bárjaham ǀ
    jyótirvíśvasmai bhúvanāya kṛṇvatī́ gā́vo ná vrajám vyúṣā́ āvartámaḥ ǁ

    adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham |
    jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ ||

    अधि॑ । पेशां॑सि । व॒प॒ते॒ । नृ॒तूःऽइ॑व । अप॑ । ऊ॒र्णु॒ते॒ । वक्षः॑ । उ॒स्राऽइ॑व । बर्ज॑हम् ।
    ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्व॒ती । गावः॑ । न । व्र॒जम् । वि । उ॒षाः । आ॒व॒रित्या॑वः । तमः॑ ॥

    अधि । पेशांसि । वपते । नृतूःऽइव । अप । ऊर्णुते । वक्षः । उस्राऽइव । बर्जहम् ।
    ज्योतिः । विश्वस्मै । भुवनाय । कृण्वती । गावः । न । व्रजम् । वि । उषाः । आवरित्यावः । तमः ॥

    ádhi ǀ péśāṃsi ǀ vapate ǀ nṛtū́ḥ-iva ǀ ápa ǀ ūrṇute ǀ vákṣaḥ ǀ usrā́-iva ǀ bárjaham ǀ
    jyótiḥ ǀ víśvasmai ǀ bhúvanāya ǀ kṛṇvatī́ ǀ gā́vaḥ ǀ ná ǀ vrajám ǀ ví ǀ uṣā́ḥ ǀ āvarítyāvaḥ ǀ támaḥ ǁ

    adhi ǀ peśāṃsi ǀ vapate ǀ nṛtūḥ-iva ǀ apa ǀ ūrṇute ǀ vakṣaḥ ǀ usrā-iva ǀ barjaham ǀ
    jyotiḥ ǀ viśvasmai ǀ bhuvanāya ǀ kṛṇvatī ǀ gāvaḥ ǀ na ǀ vrajam ǀ vi ǀ uṣāḥ ǀ āvarityāvaḥ ǀ tamaḥ ǁ

    1.92.4 Aṣṭaka 1.6.24.4Anuvāka 1.14.80

  5. Ṛk 5

    प्रत्य॒र्ची रुश॑दस्या अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्वं॑ ।
    स्वरुं॒ न पेशो॑ वि॒दथे॑ष्वं॒जंचि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ॥

    प्रत्य् अर्ची रुशद् अस्या अदर्शि वि तिष्ठते बाधते कृष्णम् अभ्वम् |
    स्वरुं न पेशो विदथेष्व् अञ्जञ् चित्रं दिवो दुहिता भानुम् अश्रेत् ||

    prátyarcī́ rúśadasyā adarśi ví tiṣṭhate bā́dhate kṛṣṇámábhvam ǀ
    svárum ná péśo vidátheṣvañjáñcitrám divó duhitā́ bhānúmaśret ǁ

    praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam |
    svaruṃ na peśo vidatheṣv añjañ citraṃ divo duhitā bhānum aśret ||

    प्रति॑ । अ॒र्चिः । रुश॑त् । अ॒स्याः॒ । अ॒द॒र्शि॒ । वि । ति॒ष्ठ॒ते॒ । बाध॑ते । कृ॒ष्णम् । अभ्व॑म् ।
    स्वरु॑म् । न । पेशः॑ । वि॒दथे॑षु । अ॒ञ्जन् । चि॒त्रम् । दि॒वः । दु॒हि॒ता । भा॒नुम् । अ॒श्रे॒त् ॥

    प्रति । अर्चिः । रुशत् । अस्याः । अदर्शि । वि । तिष्ठते । बाधते । कृष्णम् । अभ्वम् ।
    स्वरुम् । न । पेशः । विदथेषु । अञ्जन् । चित्रम् । दिवः । दुहिता । भानुम् । अश्रेत् ॥

    práti ǀ arcíḥ ǀ rúśat ǀ asyāḥ ǀ adarśi ǀ ví ǀ tiṣṭhate ǀ bā́dhate ǀ kṛṣṇám ǀ ábhvam ǀ
    svárum ǀ ná ǀ péśaḥ ǀ vidátheṣu ǀ añján ǀ citrám ǀ diváḥ ǀ duhitā́ ǀ bhānúm ǀ aśret ǁ

    prati ǀ arciḥ ǀ ruśat ǀ asyāḥ ǀ adarśi ǀ vi ǀ tiṣṭhate ǀ bādhate ǀ kṛṣṇam ǀ abhvam ǀ
    svarum ǀ na ǀ peśaḥ ǀ vidatheṣu ǀ añjan ǀ citram ǀ divaḥ ǀ duhitā ǀ bhānum ǀ aśret ǁ

    1.92.5 Aṣṭaka 1.6.24.5Anuvāka 1.14.81

  6. Ṛk 6

    अता॑रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छंती॑ व॒युना॑ कृणोति ।
    श्रि॒ये छंदो॒ न स्म॑यते विभा॒ती सु॒प्रती॑का सौमन॒साया॑जीगः ॥

    अतारिष्म तमसस् पारम् अस्योषा उच्छन्ती वयुना कृणोति |
    श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ||

    átāriṣma támasaspārámasyóṣā́ ucchántī vayúnā kṛṇoti ǀ
    śriyé chándo ná smayate vibhātī́ suprátīkā saumanasā́yājīgaḥ ǁ

    atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti |
    śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ ||

    अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । उ॒षाः । उ॒च्छन्ती॑ । व॒युना॑ । कृ॒णो॒ति॒ ।
    श्रि॒ये । छन्दः॑ । न । स्म॒य॒ते॒ । वि॒ऽभा॒ती । सु॒ऽप्रती॑का । सौ॒म॒न॒साय॑ । अ॒जी॒ग॒रिति॑ ॥

    अतारिष्म । तमसः । पारम् । अस्य । उषाः । उच्छन्ती । वयुना । कृणोति ।
    श्रिये । छन्दः । न । स्मयते । विऽभाती । सुऽप्रतीका । सौमनसाय । अजीगरिति ॥

    átāriṣma ǀ támasaḥ ǀ pārám ǀ asyá ǀ uṣā́ḥ ǀ ucchántī ǀ vayúnā ǀ kṛṇoti ǀ
    śriyé ǀ chándaḥ ǀ ná ǀ smayate ǀ vi-bhātī́ ǀ su-prátīkā ǀ saumanasā́ya ǀ ajīgaríti ǁ

    atāriṣma ǀ tamasaḥ ǀ pāram ǀ asya ǀ uṣāḥ ǀ ucchantī ǀ vayunā ǀ kṛṇoti ǀ
    śriye ǀ chandaḥ ǀ na ǀ smayate ǀ vi-bhātī ǀ su-pratīkā ǀ saumanasāya ǀ ajīgariti ǁ

    1.92.6 Aṣṭaka 1.6.25.1Anuvāka 1.14.82

  7. Ṛk 7

    भास्व॑ती ने॒त्री सू॒नृता॑नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः ।
    प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्राँ॒ उप॑ मासि॒ वाजा॑न् ॥

    भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः |
    प्रजावतो नृवतो अश्वबुध्यान् उषो गोअग्रां उप मासि वाजान् ||

    bhā́svatī netrī́ sūnṛ́tānām diváḥ stave duhitā́ gótamebhiḥ ǀ
    prajā́vato nṛváto áśvabudhyānúṣo góagrām̐ úpa māsi vā́jān ǁ

    bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ |
    prajāvato nṛvato aśvabudhyān uṣo goagrāṃ upa māsi vājān ||

    भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । दि॒वः । स्त॒वे॒ । दु॒हि॒ता । गोत॑मेभिः ।
    प्र॒जाऽव॑तः । नृ॒ऽवतः॑ । अश्व॑ऽबुध्यान् । उषः॑ । गोऽअ॑ग्रान् । उप॑ । मा॒सि॒ । वाजा॑न् ॥

    भास्वती । नेत्री । सूनृतानाम् । दिवः । स्तवे । दुहिता । गोतमेभिः ।
    प्रजाऽवतः । नृऽवतः । अश्वऽबुध्यान् । उषः । गोऽअग्रान् । उप । मासि । वाजान् ॥

    bhā́svatī ǀ netrī́ ǀ sūnṛ́tānām ǀ diváḥ ǀ stave ǀ duhitā́ ǀ gótamebhiḥ ǀ
    prajā́-vataḥ ǀ nṛ-vátaḥ ǀ áśva-budhyān ǀ úṣaḥ ǀ gó-agrān ǀ úpa ǀ māsi ǀ vā́jān ǁ

    bhāsvatī ǀ netrī ǀ sūnṛtānām ǀ divaḥ ǀ stave ǀ duhitā ǀ gotamebhiḥ ǀ
    prajā-vataḥ ǀ nṛ-vataḥ ǀ aśva-budhyān ǀ uṣaḥ ǀ go-agrān ǀ upa ǀ māsi ǀ vājān ǁ

    1.92.7 Aṣṭaka 1.6.25.2Anuvāka 1.14.83

  8. Ṛk 8

    उष॒स्तम॑श्यां य॒शसं॑ सु॒वीरं॑ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यं ।
    सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हंतं॑ ॥

    उषस् तम् अश्यां यशसं सुवीरं दासप्रवर्गं रयिम् अश्वबुध्यम् |
    सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ||

    úṣastámaśyām yaśásam suvī́ram dāsápravargam rayímáśvabudhyam ǀ
    sudáṃsasā śrávasā yā́ vibhā́si vā́japrasūtā subhage bṛhántam ǁ

    uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam |
    sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam ||

    उषः॑ । तम् । अ॒श्या॒म् । य॒शस॑म् । सु॒ऽवीर॑म् । दा॒सऽप्र॑वर्गम् । र॒यिम् । अश्व॑ऽबुध्यम् ।
    सु॒ऽदंस॑सा । श्रव॑सा । या । वि॒ऽभासि॑ । वाज॑ऽप्रसूता । सु॒ऽभ॒गे॒ । बृ॒हन्त॑म् ॥

    उषः । तम् । अश्याम् । यशसम् । सुऽवीरम् । दासऽप्रवर्गम् । रयिम् । अश्वऽबुध्यम् ।
    सुऽदंससा । श्रवसा । या । विऽभासि । वाजऽप्रसूता । सुऽभगे । बृहन्तम् ॥

    úṣaḥ ǀ tám ǀ aśyām ǀ yaśásam ǀ su-vī́ram ǀ dāsá-pravargam ǀ rayím ǀ áśva-budhyam ǀ
    su-dáṃsasā ǀ śrávasā ǀ yā́ ǀ vi-bhā́si ǀ vā́ja-prasūtā ǀ su-bhage ǀ bṛhántam ǁ

    uṣaḥ ǀ tam ǀ aśyām ǀ yaśasam ǀ su-vīram ǀ dāsa-pravargam ǀ rayim ǀ aśva-budhyam ǀ
    su-daṃsasā ǀ śravasā ǀ yā ǀ vi-bhāsi ǀ vāja-prasūtā ǀ su-bhage ǀ bṛhantam ǁ

    1.92.8 Aṣṭaka 1.6.25.3Anuvāka 1.14.84

  9. Ṛk 9

    विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति ।
    विश्वं॑ जी॒वं च॒रसे॑ बो॒धयं॑ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥

    विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुर् उर्विया वि भाति |
    विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचम् अविदन् मनायोः ||

    víśvāni devī́ bhúvanābhicákṣyā pratīcī́ cákṣururviyā́ ví bhāti ǀ
    víśvam jīvám caráse bodháyantī víśvasya vā́camavidanmanāyóḥ ǁ

    viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti |
    viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ ||

    विश्वा॑नि । दे॒वी । भुव॑ना । अ॒भि॒ऽचक्ष्य॑ । प्र॒ती॒ची । चक्षुः॑ । उ॒र्वि॒या । वि । भा॒ति॒ ।
    विश्व॑म् । जी॒वम् । च॒रसे॑ । बो॒धय॑न्ती । विश्व॑स्य । वाच॑म् । अ॒वि॒द॒त् । म॒ना॒योः ॥

    विश्वानि । देवी । भुवना । अभिऽचक्ष्य । प्रतीची । चक्षुः । उर्विया । वि । भाति ।
    विश्वम् । जीवम् । चरसे । बोधयन्ती । विश्वस्य । वाचम् । अविदत् । मनायोः ॥

    víśvāni ǀ devī́ ǀ bhúvanā ǀ abhi-cákṣya ǀ pratīcī́ ǀ cákṣuḥ ǀ urviyā́ ǀ ví ǀ bhāti ǀ
    víśvam ǀ jīvám ǀ caráse ǀ bodháyantī ǀ víśvasya ǀ vā́cam ǀ avidat ǀ manāyóḥ ǁ

    viśvāni ǀ devī ǀ bhuvanā ǀ abhi-cakṣya ǀ pratīcī ǀ cakṣuḥ ǀ urviyā ǀ vi ǀ bhāti ǀ
    viśvam ǀ jīvam ǀ carase ǀ bodhayantī ǀ viśvasya ǀ vācam ǀ avidat ǀ manāyoḥ ǁ

    1.92.9 Aṣṭaka 1.6.25.4Anuvāka 1.14.85

  10. Ṛk 10

    पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुंभ॑माना ।
    श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रयं॒त्यायुः॑ ॥

    पुनः-पुनर् जायमाना पुराणी समानं वर्णम् अभि शुम्भमाना |
    श्वघ्नीव कृत्नुर् विज आमिनाना मर्तस्य देवी जरयन्त्य् आयुः ||

    púnaḥpunarjā́yamānā purāṇī́ samānám várṇamabhí śúmbhamānā ǀ
    śvaghnī́va kṛtnúrvíja āminānā́ mártasya devī́ jaráyantyā́yuḥ ǁ

    punaḥ-punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā |
    śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ ||

    पुनः॑ऽपुनः । जाय॑माना । पु॒रा॒णी । स॒मा॒नम् । वर्ण॑म् । अ॒भि । शुम्भ॑माना ।
    श्व॒घ्नीऽइ॑व । कृ॒त्नुः । विजः॑ । आ॒ऽमि॒ना॒ना । मर्त॑स्य । दे॒वी । ज॒रय॑न्ती । आयुः॑ ॥

    पुनःऽपुनः । जायमाना । पुराणी । समानम् । वर्णम् । अभि । शुम्भमाना ।
    श्वघ्नीऽइव । कृत्नुः । विजः । आऽमिनाना । मर्तस्य । देवी । जरयन्ती । आयुः ॥

    púnaḥ-punaḥ ǀ jā́yamānā ǀ purāṇī́ ǀ samānám ǀ várṇam ǀ abhí ǀ śúmbhamānā ǀ
    śvaghnī́-iva ǀ kṛtnúḥ ǀ víjaḥ ǀ ā-minānā́ ǀ mártasya ǀ devī́ ǀ jaráyantī ǀ ā́yuḥ ǁ

    punaḥ-punaḥ ǀ jāyamānā ǀ purāṇī ǀ samānam ǀ varṇam ǀ abhi ǀ śumbhamānā ǀ
    śvaghnī-iva ǀ kṛtnuḥ ǀ vijaḥ ǀ ā-minānā ǀ martasya ǀ devī ǀ jarayantī ǀ āyuḥ ǁ

    1.92.10 Aṣṭaka 1.6.25.5Anuvāka 1.14.86

  11. Ṛk 11

    व्यू॒र्ण्व॒ती दि॒वो अंताँ॑ अबो॒ध्यप॒ स्वसा॑रं सनु॒तर्यु॑योति ।
    प्र॒मि॒न॒ती म॑नु॒ष्या॑ यु॒गानि॒ योषा॑ जा॒रस्य॒ चक्ष॑सा॒ वि भा॑ति ॥

    व्यूर्ण्वती दिवो अन्तां अबोध्य् अप स्वसारं सनुतर् युयोति |
    प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ||

    vyūrṇvatī́ divó ántām̐ abodhyápa svásāram sanutáryuyoti ǀ
    praminatī́ manuṣyā́ yugā́ni yóṣā jārásya cákṣasā ví bhāti ǁ

    vyūrṇvatī divo antāṃ abodhy apa svasāraṃ sanutar yuyoti |
    praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti ||

    वि॒ऽऊ॒र्ण्व॒ती । दि॒वः । अन्ता॑न् । अ॒बो॒धि॒ । अप॑ । स्वसा॑रम् । स॒नु॒तः । यु॒यो॒ति॒ ।
    प्र॒ऽमि॒न॒ती । म॒नु॒ष्या॑ । यु॒गानि॑ । योषा॑ । जा॒रस्य॑ । चक्ष॑सा । वि । भा॒ति॒ ॥

    विऽऊर्ण्वती । दिवः । अन्तान् । अबोधि । अप । स्वसारम् । सनुतः । युयोति ।
    प्रऽमिनती । मनुष्या । युगानि । योषा । जारस्य । चक्षसा । वि । भाति ॥

    vi-ūrṇvatī́ ǀ diváḥ ǀ ántān ǀ abodhi ǀ ápa ǀ svásāram ǀ sanutáḥ ǀ yuyoti ǀ
    pra-minatī́ ǀ manuṣyā́ ǀ yugā́ni ǀ yóṣā ǀ jārásya ǀ cákṣasā ǀ ví ǀ bhāti ǁ

    vi-ūrṇvatī ǀ divaḥ ǀ antān ǀ abodhi ǀ apa ǀ svasāram ǀ sanutaḥ ǀ yuyoti ǀ
    pra-minatī ǀ manuṣyā ǀ yugāni ǀ yoṣā ǀ jārasya ǀ cakṣasā ǀ vi ǀ bhāti ǁ

    1.92.11 Aṣṭaka 1.6.26.1Anuvāka 1.14.87

  12. Ṛk 12

    प॒शून्न चि॒त्रा सु॒भगा॑ प्रथा॒ना सिंधु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् ।
    अमि॑नती॒ दैव्या॑नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ॥

    पशून् न चित्रा सुभगा प्रथाना सिन्धुर् न क्षोद उर्विया व्य् अश्वैत् |
    अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर् दृशाना ||

    paśū́nná citrā́ subhágā prathānā́ síndhurná kṣóda urviyā́ vyáśvait ǀ
    áminatī dáivyāni vratā́ni sū́ryasya ceti raśmíbhirdṛśānā́ ǁ

    paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait |
    aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā ||

    प॒शून् । न । चि॒त्रा । सु॒ऽभगा॑ । प्र॒था॒ना । सिन्धुः॑ । न । क्षोदः॑ । उ॒र्वि॒या । वि । अ॒श्वै॒त् ।
    अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । सूर्य॑स्य । चे॒ति॒ । र॒श्मिऽभिः॑ । दृ॒शा॒ना ॥

    पशून् । न । चित्रा । सुऽभगा । प्रथाना । सिन्धुः । न । क्षोदः । उर्विया । वि । अश्वैत् ।
    अमिनती । दैव्यानि । व्रतानि । सूर्यस्य । चेति । रश्मिऽभिः । दृशाना ॥

    paśū́n ǀ ná ǀ citrā́ ǀ su-bhágā ǀ prathānā́ ǀ síndhuḥ ǀ ná ǀ kṣódaḥ ǀ urviyā́ ǀ ví ǀ aśvait ǀ
    áminatī ǀ dáivyāni ǀ vratā́ni ǀ sū́ryasya ǀ ceti ǀ raśmí-bhiḥ ǀ dṛśānā́ ǁ

    paśūn ǀ na ǀ citrā ǀ su-bhagā ǀ prathānā ǀ sindhuḥ ǀ na ǀ kṣodaḥ ǀ urviyā ǀ vi ǀ aśvait ǀ
    aminatī ǀ daivyāni ǀ vratāni ǀ sūryasya ǀ ceti ǀ raśmi-bhiḥ ǀ dṛśānā ǁ

    1.92.12 Aṣṭaka 1.6.26.2Anuvāka 1.14.88

  13. Ṛk 13

    उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति ।
    येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥

    उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति |
    येन तोकं च तनयं च धामहे ||

    úṣastáccitrámā́ bharāsmábhyam vājinīvati ǀ
    yéna tokám ca tánayam ca dhā́mahe ǁ

    uṣas tac citram ā bharāsmabhyaṃ vājinīvati |
    yena tokaṃ ca tanayaṃ ca dhāmahe ||

    उषः॑ । तत् । चि॒त्रम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । वा॒जि॒नी॒ऽव॒ति॒ ।
    येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥

    उषः । तत् । चित्रम् । आ । भर । अस्मभ्यम् । वाजिनीऽवति ।
    येन । तोकम् । च । तनयम् । च । धामहे ॥

    úṣaḥ ǀ tát ǀ citrám ǀ ā́ ǀ bhara ǀ asmábhyam ǀ vājinī-vati ǀ
    yéna ǀ tokám ǀ ca ǀ tánayam ǀ ca ǀ dhā́mahe ǁ

    uṣaḥ ǀ tat ǀ citram ǀ ā ǀ bhara ǀ asmabhyam ǀ vājinī-vati ǀ
    yena ǀ tokam ǀ ca ǀ tanayam ǀ ca ǀ dhāmahe ǁ

    1.92.13 Aṣṭaka 1.6.26.3Anuvāka 1.14.89

  14. Ṛk 14

    उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि ।
    रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥

    उषो अद्येह गोमत्य् अश्वावति विभावरि |
    रेवद् अस्मे व्य् उच्छ सूनृतावति ||

    úṣo adyéhá gomatyáśvāvati vibhāvari ǀ
    revádasmé vyúccha sūnṛtāvati ǁ

    uṣo adyeha gomaty aśvāvati vibhāvari |
    revad asme vy uccha sūnṛtāvati ||

    उषः॑ । अ॒द्य । इ॒ह । गो॒ऽम॒ति॒ । अश्व॑ऽवति । वि॒भा॒ऽव॒रि॒ ।
    रे॒वत् । अ॒स्मे इति॑ । वि । उ॒च्छ॒ । सू॒नृ॒ता॒ऽव॒ति॒ ॥

    उषः । अद्य । इह । गोऽमति । अश्वऽवति । विभाऽवरि ।
    रेवत् । अस्मे इति । वि । उच्छ । सूनृताऽवति ॥

    úṣaḥ ǀ adyá ǀ ihá ǀ go-mati ǀ áśva-vati ǀ vibhā-vari ǀ
    revát ǀ asmé íti ǀ ví ǀ uccha ǀ sūnṛtā-vati ǁ

    uṣaḥ ǀ adya ǀ iha ǀ go-mati ǀ aśva-vati ǀ vibhā-vari ǀ
    revat ǀ asme iti ǀ vi ǀ uccha ǀ sūnṛtā-vati ǁ

    1.92.14 Aṣṭaka 1.6.26.4Anuvāka 1.14.90

  15. Ṛk 15

    यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वाँ॑ अ॒द्यारु॒णाँ उ॑षः ।
    अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥

    युक्ष्वा हि वाजिनीवत्य् अश्वां अद्यारुणां उषः |
    अथा नो विश्वा सौभगान्य् आ वह ||

    yukṣvā́ hí vājinīvatyáśvām̐ adyā́ruṇā́m̐ uṣaḥ ǀ
    áthā no víśvā sáubhagānyā́ vaha ǁ

    yukṣvā hi vājinīvaty aśvāṃ adyāruṇāṃ uṣaḥ |
    athā no viśvā saubhagāny ā vaha ||

    यु॒क्ष्व । हि । वा॒जि॒नी॒ऽव॒ति॒ । अश्वा॑न् । अ॒द्य । अ॒रु॒णान् । उ॒षः॒ ।
    अथ॑ । नः॒ । विश्वा॑ । सौभ॑गानि । आ । व॒ह॒ ॥

    युक्ष्व । हि । वाजिनीऽवति । अश्वान् । अद्य । अरुणान् । उषः ।
    अथ । नः । विश्वा । सौभगानि । आ । वह ॥

    yukṣvá ǀ hí ǀ vājinī-vati ǀ áśvān ǀ adyá ǀ aruṇā́n ǀ uṣaḥ ǀ
    átha ǀ naḥ ǀ víśvā ǀ sáubhagāni ǀ ā́ ǀ vaha ǁ

    yukṣva ǀ hi ǀ vājinī-vati ǀ aśvān ǀ adya ǀ aruṇān ǀ uṣaḥ ǀ
    atha ǀ naḥ ǀ viśvā ǀ saubhagāni ǀ ā ǀ vaha ǁ

    1.92.15 Aṣṭaka 1.6.26.5Anuvāka 1.14.91

  16. Ṛk 16

    अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर॑ण्यवत् ।
    अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं ॥

    अश्विना वर्तिर् अस्मद् आ गोमद् दस्रा हिरण्यवत् |
    अर्वाग् रथं समनसा नि यच्छतम् ||

    áśvinā vartírasmádā́ gómaddasrā híraṇyavat ǀ
    arvā́grátham sámanasā ní yacchatam ǁ

    aśvinā vartir asmad ā gomad dasrā hiraṇyavat |
    arvāg rathaṃ samanasā ni yacchatam ||

    अश्वि॑ना । व॒र्तिः । अ॒स्मत् । आ । गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ।
    अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् ॥

    अश्विना । वर्तिः । अस्मत् । आ । गोऽमत् । दस्रा । हिरण्यऽवत् ।
    अर्वाक् । रथम् । सऽमनसा । नि । यच्छतम् ॥

    áśvinā ǀ vartíḥ ǀ asmát ǀ ā́ ǀ gó-mat ǀ dasrā ǀ híraṇya-vat ǀ
    arvā́k ǀ rátham ǀ sá-manasā ǀ ní ǀ yacchatam ǁ

    aśvinā ǀ vartiḥ ǀ asmat ǀ ā ǀ go-mat ǀ dasrā ǀ hiraṇya-vat ǀ
    arvāk ǀ ratham ǀ sa-manasā ǀ ni ǀ yacchatam ǁ

    1.92.16 Aṣṭaka 1.6.27.1Anuvāka 1.14.92

  17. Ṛk 17

    यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथुः॑ ।
    आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं ॥

    याव् इत्था श्लोकम् आ दिवो ज्योतिर् जनाय चक्रथुः |
    आ न ऊर्जं वहतम् अश्विना युवम् ||

    yā́vitthā́ ślókamā́ divó jyótirjánāya cakráthuḥ ǀ
    ā́ na ū́rjam vahatamaśvinā yuvám ǁ

    yāv itthā ślokam ā divo jyotir janāya cakrathuḥ |
    ā na ūrjaṃ vahatam aśvinā yuvam ||

    यौ । इ॒त्था । श्लोक॑म् । आ । दि॒वः । ज्योतिः॑ । जना॑य । च॒क्रथुः॑ ।
    आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् ॥

    यौ । इत्था । श्लोकम् । आ । दिवः । ज्योतिः । जनाय । चक्रथुः ।
    आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् ॥

    yáu ǀ itthā́ ǀ ślókam ǀ ā́ ǀ diváḥ ǀ jyótiḥ ǀ jánāya ǀ cakráthuḥ ǀ
    ā́ ǀ naḥ ǀ ū́rjam ǀ vahatam ǀ aśvinā ǀ yuvám ǁ

    yau ǀ itthā ǀ ślokam ǀ ā ǀ divaḥ ǀ jyotiḥ ǀ janāya ǀ cakrathuḥ ǀ
    ā ǀ naḥ ǀ ūrjam ǀ vahatam ǀ aśvinā ǀ yuvam ǁ

    1.92.17 Aṣṭaka 1.6.27.2Anuvāka 1.14.93

  18. Ṛk 18

    एह दे॒वा म॑यो॒भुवा॑ द॒स्रा हिर॑ण्यवर्तनी ।
    उ॒ष॒र्बुधो॑ वहंतु॒ सोम॑पीतये ॥

    एह देवा मयोभुवा दस्रा हिरण्यवर्तनी |
    उषर्बुधो वहन्तु सोमपीतये ||

    éhá devā́ mayobhúvā dasrā́ híraṇyavartanī ǀ
    uṣarbúdho vahantu sómapītaye ǁ

    eha devā mayobhuvā dasrā hiraṇyavartanī |
    uṣarbudho vahantu somapītaye ||

    आ । इ॒ह । दे॒वा । म॒यः॒ऽभुवा॑ । द॒स्रा । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी ।
    उ॒षः॒ऽबुधः॑ । व॒ह॒न्तु॒ । सोम॑ऽपीतये ॥

    आ । इह । देवा । मयःऽभुवा । दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी ।
    उषःऽबुधः । वहन्तु । सोमऽपीतये ॥

    ā́ ǀ ihá ǀ devā́ ǀ mayaḥ-bhúvā ǀ dasrā́ ǀ híraṇyavartanī íti híraṇya-vartanī ǀ
    uṣaḥ-búdhaḥ ǀ vahantu ǀ sóma-pītaye ǁ

    ā ǀ iha ǀ devā ǀ mayaḥ-bhuvā ǀ dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ
    uṣaḥ-budhaḥ ǀ vahantu ǀ soma-pītaye ǁ

    1.92.18 Aṣṭaka 1.6.27.3Anuvāka 1.14.94

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.92 · Uṣas · Aśvins

Interpretations

Sri Aurobindo

Ṛk 1

Lo these are those Dawns that create for us the perception; in the highest realm of the luminous kingdom they brighten the Light perfecting it like violent men who furbish their arms; the ruddy mothers come, the radiant herds.

Ṛk 2

Upward have soared the red-active lustres covering heaven; yoked are the ruddy Rays that set themselves perfectly to the work. The Dawns have made the manifestations of things even as before and their ruddinesses have entered into the reddening Light.

Ṛk 3

For as forces that work the bright Energies give their illumination by entering into all things with an equal self-yoking from the supreme realm and thence they bring energy to the right doer, the right giver (who perfectly effects his aims); yea, all things here they bring to the sacrificer who expresses the Soma bliss.

Ṛk 4

Like a dancing-girl she lays bare her clear forms of beauty, like a Paramour she opens her breast casting aside its defences creating Light for the whole world. The radiant herds have left their pen; Dawn has uncovered herself of her robe of darkness.

Ṛk 5

Reddening, the illumination of her has appeared in front; it spreads and assails the Black Dense. They adorn her body as if sunshine in the things of the knowledge; the Daughter of Heaven has entered into the varied Lustre.

Ṛk 6

We have crossed over to the other side of this darkness and Dawn widening makes her revelations of Light; she smiles and shines wide as joy towards beauty; she manifests in a front of fairness that the mind may be glad and perfect.

Ṛk 7

Luminous guide to true thinkings, the Daughter of Heaven has been affirmed in praise by the Gotamas (the men of light). Thou supportest in us plentifulnesses rich in creations and energies, perceptively received in the nervous movements, led by the rays of illumination.

Ṛk 8

O Dawn, may I enjoy a victorious and energetic felicity, delivered from the Enemy, perceptively received in the nervous powers, thou who shinest wide by an inspiration perfect inactivity giving birth to richnesses,—O blissful one, to a plenty vast.

Ṛk 9

Divine she beholds all the worlds, wide shines her vision and she gazes straight at things; she awakens every living soul for action and finds the Word for all that aspires to mind.