Sūkta 45
- Devatā देवता
- 1-9: Agni; 10: Agni (Ab); Devās (Cd)
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles anuṣṭup (2, 3, 7, 8); virāḍanuṣṭup (6, 9, 10); bhuriguṣṇik (1); nicṛdanuṣṭup (4); uṣṇik (5)
2nd set of styles anuṣṭubh
-
Ṛk 1
त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुषं॑ ॥त्वम् अग्ने वसूंर् इह रुद्रां आदित्यां उत |
यजा स्वध्वरं जनम् मनुजातं घृतप्रुषम् ||tvámagne vásūm̐rihá rudrā́m̐ ādityā́m̐ utá ǀ
yájā svadhvarám jánam mánujātam ghṛtaprúṣam ǁtvam agne vasūṃr iha rudrāṃ ādityāṃ uta |
yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam ||त्वम् । अ॒ग्ने॒ । वसू॑न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त ।
यज॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् । मनु॑ऽजातम् । घृ॒त॒ऽप्रुष॑म् ॥त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । उत ।
यज । सुऽअध्वरम् । जनम् । मनुऽजातम् । घृतऽप्रुषम् ॥tvám ǀ agne ǀ vásūn ǀ ihá ǀ rudrā́n ǀ ādityā́n ǀ utá ǀ
yája ǀ su-adhvarám ǀ jánam ǀ mánu-jātam ǀ ghṛta-prúṣam ǁtvam ǀ agne ǀ vasūn ǀ iha ǀ rudrān ǀ ādityān ǀ uta ǀ
yaja ǀ su-adhvaram ǀ janam ǀ manu-jātam ǀ ghṛta-pruṣam ǁ1.45.1 Aṣṭaka 1.3.31.1Anuvāka 1.9.15
-
Ṛk 2
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।
तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः |
तान् रोहिदश्व गिर्वणस् त्रयस्त्रिंशतम् आ वह ||śruṣṭīvā́no hí dāśúṣe devā́ agne vícetasaḥ ǀ
tā́nrohidaśva girvaṇastráyastriṃśatamā́ vaha ǁśruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ |
tān rohidaśva girvaṇas trayastriṃśatam ā vaha ||श्रु॒ष्टी॒ऽवानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विऽचे॑तसः ।
तान् । रो॒हि॒त्ऽअ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑ऽत्रिंशतम् । आ । व॒ह॒ ॥श्रुष्टीऽवानः । हि । दाशुषे । देवाः । अग्ने । विऽचेतसः ।
तान् । रोहित्ऽअश्व । गिर्वणः । त्रयःऽत्रिंशतम् । आ । वह ॥śruṣṭī-vā́náḥ ǀ hí ǀ dāśúṣe ǀ devā́ḥ ǀ agne ǀ ví-cetasaḥ ǀ
tā́n ǀ rohit-aśva ǀ girvaṇaḥ ǀ tráyaḥ-triṃśatam ǀ ā́ ǀ vaha ǁśruṣṭī-vānaḥ ǀ hi ǀ dāśuṣe ǀ devāḥ ǀ agne ǀ vi-cetasaḥ ǀ
tān ǀ rohit-aśva ǀ girvaṇaḥ ǀ trayaḥ-triṃśatam ǀ ā ǀ vaha ǁ1.45.2 Aṣṭaka 1.3.31.2Anuvāka 1.9.16
-
Ṛk 3
प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् ।
अं॒गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हवं॑ ॥प्रियमेधवद् अत्रिवज् जातवेदो विरूपवत् |
अङ्गिरस्वन् महिव्रत प्रस्कण्वस्य श्रुधी हवम् ||priyamedhavádatrivájjā́tavedo virūpavát ǀ
aṅgirasvánmahivrata práskaṇvasya śrudhī hávam ǁpriyamedhavad atrivaj jātavedo virūpavat |
aṅgirasvan mahivrata praskaṇvasya śrudhī havam ||प्रि॒य॒मे॒ध॒ऽवत् । अ॒त्रि॒ऽवत् । जात॑ऽवेदः । वि॒रू॒प॒ऽवत् ।
अ॒ङ्गि॒र॒स्वत् । म॒हि॒ऽव्र॒त॒ । प्रस्क॑ण्वस्य । श्रु॒धि॒ । हव॑म् ॥प्रियमेधऽवत् । अत्रिऽवत् । जातऽवेदः । विरूपऽवत् ।
अङ्गिरस्वत् । महिऽव्रत । प्रस्कण्वस्य । श्रुधि । हवम् ॥priyamedha-vát ǀ atri-vát ǀ jā́ta-vedaḥ ǀ virūpa-vát ǀ
aṅgirasvát ǀ mahi-vrata ǀ práskaṇvasya ǀ śrudhi ǀ hávam ǁpriyamedha-vat ǀ atri-vat ǀ jāta-vedaḥ ǀ virūpa-vat ǀ
aṅgirasvat ǀ mahi-vrata ǀ praskaṇvasya ǀ śrudhi ǀ havam ǁ1.45.3 Aṣṭaka 1.3.31.3Anuvāka 1.9.17
-
Ṛk 4
महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत ।
राजं॑तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥महिकेरव ऊतये प्रियमेधा अहूषत |
राजन्तम् अध्वराणाम् अग्निं शुक्रेण शोचिषा ||máhikerava ūtáye priyámedhā ahūṣata ǀ
rā́jantamadhvarā́ṇāmagním śukréṇa śocíṣā ǁmahikerava ūtaye priyamedhā ahūṣata |
rājantam adhvarāṇām agniṃ śukreṇa śociṣā ||महि॑ऽकेरवः । ऊ॒तये॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
राज॑न्तम् । अ॒ध्व॒राणा॑म् । अ॒ग्निम् । शु॒क्रेण॑ । शो॒चिषा॑ ॥महिऽकेरवः । ऊतये । प्रियऽमेधाः । अहूषत ।
राजन्तम् । अध्वराणाम् । अग्निम् । शुक्रेण । शोचिषा ॥máhi-keravaḥ ǀ ūtáye ǀ priyá-medhāḥ ǀ ahūṣata ǀ
rā́jantam ǀ adhvarā́ṇām ǀ agním ǀ śukréṇa ǀ śocíṣā ǁmahi-keravaḥ ǀ ūtaye ǀ priya-medhāḥ ǀ ahūṣata ǀ
rājantam ǀ adhvarāṇām ǀ agnim ǀ śukreṇa ǀ śociṣā ǁ1.45.4 Aṣṭaka 1.3.31.4Anuvāka 1.9.18
-
Ṛk 5
घृता॑हवन संत्ये॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ।
याभिः॒ कण्व॑स्य सू॒नवो॒ हवं॒तेऽव॑से त्वा ॥घृताहवन सन्त्येमा उ षु श्रुधी गिरः |
याभिः कण्वस्य सूनवो हवन्ते ऽवसे त्वा ||ghṛ́tāhavana santyemā́ u ṣú śrudhī gíraḥ ǀ
yā́bhiḥ káṇvasya sūnávo hávanté’vase tvā ǁghṛtāhavana santyemā u ṣu śrudhī giraḥ |
yābhiḥ kaṇvasya sūnavo havante 'vase tvā ||घृत॑ऽआहवन । स॒न्त्य॒ । इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ।
याभिः॑ । कण्व॑स्य । सू॒नवः॑ । हव॑न्ते । अव॑से । त्वा॒ ॥घृतऽआहवन । सन्त्य । इमाः । ऊं इति । सु । श्रुधि । गिरः ।
याभिः । कण्वस्य । सूनवः । हवन्ते । अवसे । त्वा ॥ghṛ́ta-āhavana ǀ santya ǀ imā́ḥ ǀ ūṃ íti ǀ sú ǀ śrudhi ǀ gíraḥ ǀ
yā́bhiḥ ǀ káṇvasya ǀ sūnávaḥ ǀ hávante ǀ ávase ǀ tvā ǁghṛta-āhavana ǀ santya ǀ imāḥ ǀ ūṃ iti ǀ su ǀ śrudhi ǀ giraḥ ǀ
yābhiḥ ǀ kaṇvasya ǀ sūnavaḥ ǀ havante ǀ avase ǀ tvā ǁ1.45.5 Aṣṭaka 1.3.31.5Anuvāka 1.9.19
-
Ṛk 6
त्वां चि॑त्रश्रवस्तम॒ हवं॑ते वि॒क्षु जं॒तवः॑ ।
शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः |
शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोऌहवे ||tvā́m citraśravastama hávante vikṣú jantávaḥ ǀ
śocíṣkeśam purupriyā́gne havyā́ya vóḷhave ǁtvāṃ citraśravastama havante vikṣu jantavaḥ |
śociṣkeśam purupriyāgne havyāya voḷhave ||त्वाम् । चि॒त्र॒श्र॒वः॒ऽत॒म॒ । हव॑न्ते । वि॒क्षु । ज॒न्तवः॑ ।
शो॒चिःऽके॑शम् । पु॒रु॒ऽप्रि॒य॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥त्वाम् । चित्रश्रवःऽतम । हवन्ते । विक्षु । जन्तवः ।
शोचिःऽकेशम् । पुरुऽप्रिय । अग्ने । हव्याय । वोळ्हवे ॥tvā́m ǀ citraśravaḥ-tama ǀ hávante ǀ vikṣú ǀ jantávaḥ ǀ
śocíḥ-keśam ǀ puru-priya ǀ ágne ǀ havyā́ya ǀ vóḷhave ǁtvām ǀ citraśravaḥ-tama ǀ havante ǀ vikṣu ǀ jantavaḥ ǀ
śociḥ-keśam ǀ puru-priya ǀ agne ǀ havyāya ǀ voḷhave ǁ1.45.6 Aṣṭaka 1.3.32.1Anuvāka 1.9.20
-
Ṛk 7
नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मं ।
श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् |
श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ||ní tvā hótāramṛtvíjam dadhiré vasuvíttamam ǀ
śrútkarṇam sapráthastamam víprā agne díviṣṭiṣu ǁni tvā hotāram ṛtvijaṃ dadhire vasuvittamam |
śrutkarṇaṃ saprathastamaṃ viprā agne diviṣṭiṣu ||नि । त्वा॒ । होता॑रम् । ऋ॒त्विज॑म् । द॒धि॒रे । व॒सु॒वित्ऽत॑मम् ।
श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । विप्राः॑ । अ॒ग्ने॒ । दिवि॑ष्टिषु ॥नि । त्वा । होतारम् । ऋत्विजम् । दधिरे । वसुवित्ऽतमम् ।
श्रुत्ऽकर्णम् । सप्रथःऽतमम् । विप्राः । अग्ने । दिविष्टिषु ॥ní ǀ tvā ǀ hótāram ǀ ṛtvíjam ǀ dadhiré ǀ vasuvít-tamam ǀ
śrút-karṇam ǀ sapráthaḥ-tamam ǀ víprāḥ ǀ agne ǀ díviṣṭiṣu ǁni ǀ tvā ǀ hotāram ǀ ṛtvijam ǀ dadhire ǀ vasuvit-tamam ǀ
śrut-karṇam ǀ saprathaḥ-tamam ǀ viprāḥ ǀ agne ǀ diviṣṭiṣu ǁ1.45.7 Aṣṭaka 1.3.32.2Anuvāka 1.9.21
-
Ṛk 8
आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रयः॑ ।
बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः |
बृहद् भा बिभ्रतो हविर् अग्ने मर्ताय दाशुषे ||ā́ tvā víprā acucyavuḥ sutásomā abhí práyaḥ ǀ
bṛhádbhā́ bíbhrato havírágne mártāya dāśúṣe ǁā tvā viprā acucyavuḥ sutasomā abhi prayaḥ |
bṛhad bhā bibhrato havir agne martāya dāśuṣe ||आ । त्वा॒ । विप्राः॑ । अ॒चु॒च्य॒वुः॒ । सु॒तऽसो॑माः । अ॒भि । प्रयः॑ ।
बृ॒हत् । भाः । बिभ्र॑तः । ह॒विः । अग्ने॑ । मर्ता॑य । दा॒शुषे॑ ॥आ । त्वा । विप्राः । अचुच्यवुः । सुतऽसोमाः । अभि । प्रयः ।
बृहत् । भाः । बिभ्रतः । हविः । अग्ने । मर्ताय । दाशुषे ॥ā́ ǀ tvā ǀ víprāḥ ǀ acucyavuḥ ǀ sutá-somāḥ ǀ abhí ǀ práyaḥ ǀ
bṛhát ǀ bhā́ḥ ǀ bíbhrataḥ ǀ havíḥ ǀ ágne ǀ mártāya ǀ dāśúṣe ǁā ǀ tvā ǀ viprāḥ ǀ acucyavuḥ ǀ suta-somāḥ ǀ abhi ǀ prayaḥ ǀ
bṛhat ǀ bhāḥ ǀ bibhrataḥ ǀ haviḥ ǀ agne ǀ martāya ǀ dāśuṣe ǁ1.45.8 Aṣṭaka 1.3.32.3Anuvāka 1.9.22
-
Ṛk 9
प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया॑य संत्य ।
इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य |
इहाद्य दैव्यं जनम् बर्हिर् आ सादया वसो ||prātaryā́vṇaḥ sahaskṛta somapéyāya santya ǀ
ihā́dyá dáivyam jánam barhírā́ sādayā vaso ǁprātaryāvṇaḥ sahaskṛta somapeyāya santya |
ihādya daivyaṃ janam barhir ā sādayā vaso ||प्रा॒तः॒ऽयाव्नः॑ । स॒हः॒ऽकृ॒त॒ । सो॒म॒ऽपेया॑य । स॒न्त्य॒ ।
इ॒ह । अ॒द्य । दैव्य॑म् । जन॑म् । ब॒र्हिः । आ । सा॒द॒य॒ । व॒सो॒ इति॑ ॥प्रातःऽयाव्नः । सहःऽकृत । सोमऽपेयाय । सन्त्य ।
इह । अद्य । दैव्यम् । जनम् । बर्हिः । आ । सादय । वसो इति ॥prātaḥ-yā́vnaḥ ǀ sahaḥ-kṛta ǀ soma-péyāya ǀ santya ǀ
ihá ǀ adyá ǀ dáivyam ǀ jánam ǀ barhíḥ ǀ ā́ ǀ sādaya ǀ vaso íti ǁprātaḥ-yāvnaḥ ǀ sahaḥ-kṛta ǀ soma-peyāya ǀ santya ǀ
iha ǀ adya ǀ daivyam ǀ janam ǀ barhiḥ ǀ ā ǀ sādaya ǀ vaso iti ǁ1.45.9 Aṣṭaka 1.3.32.4Anuvāka 1.9.23
-
Ṛk 10
अ॒र्वांचं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः ।
अ॒यं सोमः॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यं ॥अर्वाञ्चं दैव्यं जनम् अग्ने यक्ष्व सहूतिभिः |
अयं सोमः सुदानवस् तम् पात तिरोअह्न्यम् ||arvā́ñcam dáivyam jánamágne yákṣva sáhūtibhiḥ ǀ
ayám sómaḥ sudānavastám pāta tiróahnyam ǁarvāñcaṃ daivyaṃ janam agne yakṣva sahūtibhiḥ |
ayaṃ somaḥ sudānavas tam pāta tiroahnyam ||अ॒र्वाञ्च॑म् । दैव्य॑म् । जन॑म् । अग्ने॑ । यक्ष्व॑ । सहू॑तिऽभिः ।
अ॒यम् । सोमः॑ । सु॒ऽदा॒न॒वः॒ । तम् । पा॒त॒ । ति॒रःऽअ॑ह्न्यम् ॥अर्वाञ्चम् । दैव्यम् । जनम् । अग्ने । यक्ष्व । सहूतिऽभिः ।
अयम् । सोमः । सुऽदानवः । तम् । पात । तिरःऽअह्न्यम् ॥arvā́ñcam ǀ dáivyam ǀ jánam ǀ ágne ǀ yákṣva ǀ sáhūti-bhiḥ ǀ
ayám ǀ sómaḥ ǀ su-dānavaḥ ǀ tám ǀ pāta ǀ tiráḥ-ahnyam ǁarvāñcam ǀ daivyam ǀ janam ǀ agne ǀ yakṣva ǀ sahūti-bhiḥ ǀ
ayam ǀ somaḥ ǀ su-dānavaḥ ǀ tam ǀ pāta ǀ tiraḥ-ahnyam ǁ1.45.10 Aṣṭaka 1.3.32.5Anuvāka 1.9.24
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.