Sūkta 174
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (2, 3, 6, 8, 10); paṅktiḥ (5, 7, 9); nicṛtpaṅkti (1); svarāṭpaṅkti (4)
2nd set of styles triṣṭubh
-
Ṛk 1
त्वं राजें॑द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् ।
त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥त्वं राजेन्द्र ये च देवा रक्षा नॄन् पाह्य् असुर त्वम् अस्मान् |
त्वं सत्पतिर् मघवा नस् तरुत्रस् त्वं सत्यो वसवानः सहोदाः ||tvám rā́jendra yé ca devā́ rákṣā nṝ́npāhyásura tvámasmā́n ǀ
tvám sátpatirmaghávā nastárutrastvám satyó vásavānaḥ sahodā́ḥ ǁtvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān |
tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ ||त्वम् । राजा॑ । इ॒न्द्र॒ । ये । च॒ । दे॒वाः । रक्ष॑ । नॄन् । पा॒हि । अ॒सु॒र॒ । त्वम् । अ॒स्मान् ।
त्वम् । सत्ऽप॑तिः । म॒घऽवा॑ । नः॒ । तरु॑त्रः । त्वम् । स॒त्यः । वस॑वानः । स॒हः॒ऽदाः ॥त्वम् । राजा । इन्द्र । ये । च । देवाः । रक्ष । नॄन् । पाहि । असुर । त्वम् । अस्मान् ।
त्वम् । सत्ऽपतिः । मघऽवा । नः । तरुत्रः । त्वम् । सत्यः । वसवानः । सहःऽदाः ॥tvám ǀ rā́jā ǀ indra ǀ yé ǀ ca ǀ devā́ḥ ǀ rákṣa ǀ nṝ́n ǀ pāhí ǀ asura ǀ tvám ǀ asmā́n ǀ
tvám ǀ sát-patiḥ ǀ maghá-vā ǀ naḥ ǀ tárutraḥ ǀ tvám ǀ satyáḥ ǀ vásavānaḥ ǀ sahaḥ-dā́ḥ ǁtvam ǀ rājā ǀ indra ǀ ye ǀ ca ǀ devāḥ ǀ rakṣa ǀ nṝn ǀ pāhi ǀ asura ǀ tvam ǀ asmān ǀ
tvam ǀ sat-patiḥ ǀ magha-vā ǀ naḥ ǀ tarutraḥ ǀ tvam ǀ satyaḥ ǀ vasavānaḥ ǀ sahaḥ-dāḥ ǁ1.174.1 Aṣṭaka 2.4.16.1Anuvāka 1.23.87
-
Ṛk 2
दनो॒ विश॑ इंद्र मृ॒ध्रवा॑चः स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्त् ।
ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रंधीः ॥दनो विश इन्द्र मृध्रवाचः सप्त यत् पुरः शर्म शारदीर् दर्त् |
ऋणोर् अपो अनवद्यार्णा यूने वृत्रम् पुरुकुत्साय रन्धीः ||dáno víśa indra mṛdhrávācaḥ saptá yátpúraḥ śárma śā́radīrdárt ǀ
ṛṇórapó anavadyā́rṇā yū́ne vṛtrám purukútsāya randhīḥ ǁdano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart |
ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ ||दनः॑ । विशः॑ । इ॒न्द्र॒ । मृ॒ध्रऽवा॑चः । स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् ।
ऋ॒णोः । अ॒पः । अ॒न॒व॒द्य॒ । अर्णाः॑ । यूने॑ । वृ॒त्रम् । पु॒रु॒ऽकुत्सा॑य । र॒न्धीः॒ ॥दनः । विशः । इन्द्र । मृध्रऽवाचः । सप्त । यत् । पुरः । शर्म । शारदीः । दर्त् ।
ऋणोः । अपः । अनवद्य । अर्णाः । यूने । वृत्रम् । पुरुऽकुत्साय । रन्धीः ॥dánaḥ ǀ víśaḥ ǀ indra ǀ mṛdhrá-vācaḥ ǀ saptá ǀ yát ǀ púraḥ ǀ śárma ǀ śā́radīḥ ǀ dárt ǀ
ṛṇóḥ ǀ apáḥ ǀ anavadya ǀ árṇāḥ ǀ yū́ne ǀ vṛtrám ǀ puru-kútsāya ǀ randhīḥ ǁdanaḥ ǀ viśaḥ ǀ indra ǀ mṛdhra-vācaḥ ǀ sapta ǀ yat ǀ puraḥ ǀ śarma ǀ śāradīḥ ǀ dart ǀ
ṛṇoḥ ǀ apaḥ ǀ anavadya ǀ arṇāḥ ǀ yūne ǀ vṛtram ǀ puru-kutsāya ǀ randhīḥ ǁ1.174.2 Aṣṭaka 2.4.16.2Anuvāka 1.23.88
-
Ṛk 3
अजा॒ वृत॑ इंद्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नं ।
रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तोः॑ ॥अजा वृत इन्द्र शूरपत्नीर् द्यां च येभिः पुरुहूत नूनम् |
रक्षो अग्निम् अशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ||ájā vṛ́ta indra śū́rapatnīrdyā́m ca yébhiḥ puruhūta nūnám ǀ
rákṣo agnímaśúṣam tū́rvayāṇam siṃhó ná dáme ápāṃsi vástoḥ ǁajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam |
rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ ||अज॑ । वृतः॑ । इ॒न्द्र॒ । शूर॑ऽपत्नीः । द्याम् । च॒ । येभिः॑ । पु॒रु॒ऽहू॒त॒ । नू॒नम् ।
रक्षो॒ इति॑ । अ॒ग्निम् । अ॒शुष॑म् । तूर्व॑याणम् । सिं॒हः । न । दमे॑ । अपां॑सि । वस्तोः॑ ॥अज । वृतः । इन्द्र । शूरऽपत्नीः । द्याम् । च । येभिः । पुरुऽहूत । नूनम् ।
रक्षो इति । अग्निम् । अशुषम् । तूर्वयाणम् । सिंहः । न । दमे । अपांसि । वस्तोः ॥ája ǀ vṛ́taḥ ǀ indra ǀ śū́ra-patnīḥ ǀ dyā́m ǀ ca ǀ yébhiḥ ǀ puru-hūta ǀ nūnám ǀ
rákṣo íti ǀ agním ǀ aśúṣam ǀ tū́rvayāṇam ǀ siṃháḥ ǀ ná ǀ dáme ǀ ápāṃsi ǀ vástoḥ ǁaja ǀ vṛtaḥ ǀ indra ǀ śūra-patnīḥ ǀ dyām ǀ ca ǀ yebhiḥ ǀ puru-hūta ǀ nūnam ǀ
rakṣo iti ǀ agnim ǀ aśuṣam ǀ tūrvayāṇam ǀ siṃhaḥ ǀ na ǀ dame ǀ apāṃsi ǀ vastoḥ ǁ1.174.3 Aṣṭaka 2.4.16.3Anuvāka 1.23.89
-
Ṛk 4
शेष॒न्नु त इं॑द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना ।
सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥शेषन् नु त इन्द्र सस्मिन् योनौ प्रशस्तये पवीरवस्य मह्ना |
सृजद् अर्णांस्य् अव यद् युधा गास् तिष्ठद् धरी धृषता मृष्ट वाजान् ||śéṣannú tá indra sásminyónau práśastaye pávīravasya mahnā́ ǀ
sṛjádárṇāṃsyáva yádyudhā́ gā́stíṣṭhaddhárī dhṛṣatā́ mṛṣṭa vā́jān ǁśeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā |
sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhad dharī dhṛṣatā mṛṣṭa vājān ||शेष॑न् । नु । ते । इ॒न्द्र॒ । सस्मि॑न् । योनौ॑ । प्रऽश॑स्तये । पवी॑रवस्य । म॒ह्ना ।
सृ॒जत् । अर्णां॑सि । अव॑ । यत् । यु॒धा । गाः । तिष्ठ॑त् । हरी॒ इति॑ । धृ॒ष॒ता । मृ॒ष्ट॒ । वाजा॑न् ॥शेषन् । नु । ते । इन्द्र । सस्मिन् । योनौ । प्रऽशस्तये । पवीरवस्य । मह्ना ।
सृजत् । अर्णांसि । अव । यत् । युधा । गाः । तिष्ठत् । हरी इति । धृषता । मृष्ट । वाजान् ॥śéṣan ǀ nú ǀ té ǀ indra ǀ sásmin ǀ yónau ǀ prá-śastaye ǀ pávīravasya ǀ mahnā́ ǀ
sṛját ǀ árṇāṃsi ǀ áva ǀ yát ǀ yudhā́ ǀ gā́ḥ ǀ tíṣṭhat ǀ hárī íti ǀ dhṛṣatā́ ǀ mṛṣṭa ǀ vā́jān ǁśeṣan ǀ nu ǀ te ǀ indra ǀ sasmin ǀ yonau ǀ pra-śastaye ǀ pavīravasya ǀ mahnā ǀ
sṛjat ǀ arṇāṃsi ǀ ava ǀ yat ǀ yudhā ǀ gāḥ ǀ tiṣṭhat ǀ harī iti ǀ dhṛṣatā ǀ mṛṣṭa ǀ vājān ǁ1.174.4 Aṣṭaka 2.4.16.4Anuvāka 1.23.90
-
Ṛk 5
वह॒ कुत्स॑मिंद्र॒ यस्मिं॑चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ ।
प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥वह कुत्सम् इन्द्र यस्मिञ् चाकन् स्यूमन्यू ऋज्रा वातस्याश्वा |
प्र सूरश् चक्रं वृहताद् अभीके ऽभि स्पृधो यासिषद् वज्रबाहुः ||váha kútsamindra yásmiñcākántsyūmanyū́ ṛjrā́ vā́tasyā́śvā ǀ
prá sū́raścakrám vṛhatādabhī́ke’bhí spṛ́dho yāsiṣadvájrabāhuḥ ǁvaha kutsam indra yasmiñ cākan syūmanyū ṛjrā vātasyāśvā |
pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ ||वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अश्वा॑ ।
प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥वह । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । स्यूमन्यू इति । ऋज्रा । वातस्य । अश्वा ।
प्र । सूरः । चक्रम् । वृहतात् । अभीके । अभि । स्पृधः । यासिषत् । वज्रऽबाहुः ॥váha ǀ kútsam ǀ indra ǀ yásmin ǀ cākán ǀ syūmanyū́ íti ǀ ṛjrā́ ǀ vā́tasya ǀ áśvā ǀ
prá ǀ sū́raḥ ǀ cakrám ǀ vṛhatāt ǀ abhī́ke ǀ abhí ǀ spṛ́dhaḥ ǀ yāsiṣat ǀ vájra-bāhuḥ ǁvaha ǀ kutsam ǀ indra ǀ yasmin ǀ cākan ǀ syūmanyū iti ǀ ṛjrā ǀ vātasya ǀ aśvā ǀ
pra ǀ sūraḥ ǀ cakram ǀ vṛhatāt ǀ abhīke ǀ abhi ǀ spṛdhaḥ ǀ yāsiṣat ǀ vajra-bāhuḥ ǁ1.174.5 Aṣṭaka 2.4.16.5Anuvāka 1.23.91
-
Ṛk 6
ज॒घ॒न्वाँ इं॑द्र मि॒त्रेरूं॑चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् ।
प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यं ॥जघन्वां इन्द्र मित्रेरूञ् चोदप्रवृद्धो हरिवो अदाशून् |
प्र ये पश्यन्न् अर्यमणं सचायोस् त्वया शूर्ता वहमाना अपत्यम् ||jaghanvā́m̐ indra mitrérūñcodápravṛddho harivo ádāśūn ǀ
prá yé páśyannaryamáṇam sácāyóstváyā śūrtā́ váhamānā ápatyam ǁjaghanvāṃ indra mitrerūñ codapravṛddho harivo adāśūn |
pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam ||ज॒घ॒न्वान् । इ॒न्द्र॒ । मि॒त्रेरू॑न् । चो॒दऽप्र॑वृद्धः । ह॒रि॒ऽवः॒ । अदा॑शून् ।
प्र । ये । पश्य॑न् । अ॒र्य॒मण॑म् । सचा॑ । आ॒योः । त्वया॑ । शू॒र्ताः । वह॑मानाः । अप॑त्यम् ॥जघन्वान् । इन्द्र । मित्रेरून् । चोदऽप्रवृद्धः । हरिऽवः । अदाशून् ।
प्र । ये । पश्यन् । अर्यमणम् । सचा । आयोः । त्वया । शूर्ताः । वहमानाः । अपत्यम् ॥jaghanvā́n ǀ indra ǀ mitrérūn ǀ codá-pravṛddhaḥ ǀ hari-vaḥ ǀ ádāśūn ǀ
prá ǀ yé ǀ páśyan ǀ aryamáṇam ǀ sácā ǀ āyóḥ ǀ tváyā ǀ śūrtā́ḥ ǀ váhamānāḥ ǀ ápatyam ǁjaghanvān ǀ indra ǀ mitrerūn ǀ coda-pravṛddhaḥ ǀ hari-vaḥ ǀ adāśūn ǀ
pra ǀ ye ǀ paśyan ǀ aryamaṇam ǀ sacā ǀ āyoḥ ǀ tvayā ǀ śūrtāḥ ǀ vahamānāḥ ǀ apatyam ǁ1.174.6 Aṣṭaka 2.4.17.1Anuvāka 1.23.92
-
Ṛk 7
रप॑त्क॒विरिं॑द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः ।
कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥रपत् कविर् इन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः |
करत् तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचम् मृधि श्रेत् ||rápatkavírindrārkásātau kṣā́m dāsā́yopabárhaṇīm kaḥ ǀ
kárattisró maghávā dā́nucitrā ní duryoṇé kúyavācam mṛdhí śret ǁrapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ |
karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret ||रप॑त् । क॒विः । इ॒न्द्र॒ । अ॒र्कऽसा॑तौ । क्षाम् । दा॒साय॑ । उ॒प॒ऽबर्ह॑णीम् । क॒रिति॑ कः ।
कर॑त् । ति॒स्रः । म॒घऽवा॑ । दानु॑ऽचित्राः । नि । दु॒र्यो॒णे । कुय॑वाचम् । मृ॒धि । श्रे॒त् ॥रपत् । कविः । इन्द्र । अर्कऽसातौ । क्षाम् । दासाय । उपऽबर्हणीम् । करिति कः ।
करत् । तिस्रः । मघऽवा । दानुऽचित्राः । नि । दुर्योणे । कुयवाचम् । मृधि । श्रेत् ॥rápat ǀ kavíḥ ǀ indra ǀ arká-sātau ǀ kṣā́m ǀ dāsā́ya ǀ upa-bárhaṇīm ǀ karíti kaḥ ǀ
kárat ǀ tisráḥ ǀ maghá-vā ǀ dā́nu-citrāḥ ǀ ní ǀ duryoṇé ǀ kúyavācam ǀ mṛdhí ǀ śret ǁrapat ǀ kaviḥ ǀ indra ǀ arka-sātau ǀ kṣām ǀ dāsāya ǀ upa-barhaṇīm ǀ kariti kaḥ ǀ
karat ǀ tisraḥ ǀ magha-vā ǀ dānu-citrāḥ ǀ ni ǀ duryoṇe ǀ kuyavācam ǀ mṛdhi ǀ śret ǁ1.174.7 Aṣṭaka 2.4.17.2Anuvāka 1.23.93
-
Ṛk 8
सना॒ ता त॑ इंद्र॒ नव्या॒ आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः ।
भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥सना ता त इन्द्र नव्या आगुः सहो नभो ऽविरणाय पूर्वीः |
भिनत् पुरो न भिदो अदेवीर् ननमो वधर् अदेवस्य पीयोः ||sánā tā́ ta indra návyā ā́guḥ sáho nábhó’viraṇāya pūrvī́ḥ ǀ
bhinátpúro ná bhído ádevīrnanámo vádharádevasya pīyóḥ ǁsanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ |
bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ ||सना॑ । ता । ते॒ । इ॒न्द्र॒ । नव्याः॑ । आ । अ॒गुः॒ । सहः॑ । नभः॑ । अवि॑ऽरणाय । पू॒र्वीः ।
भि॒नत् । पुरः॑ । न । भिदः॑ । अदे॑वीः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥सना । ता । ते । इन्द्र । नव्याः । आ । अगुः । सहः । नभः । अविऽरणाय । पूर्वीः ।
भिनत् । पुरः । न । भिदः । अदेवीः । ननमः । वधः । अदेवस्य । पीयोः ॥sánā ǀ tā́ ǀ te ǀ indra ǀ návyāḥ ǀ ā́ ǀ aguḥ ǀ sáhaḥ ǀ nábhaḥ ǀ ávi-raṇāya ǀ pūrvī́ḥ ǀ
bhinát ǀ púraḥ ǀ ná ǀ bhídaḥ ǀ ádevīḥ ǀ nanámaḥ ǀ vádhaḥ ǀ ádevasya ǀ pīyóḥ ǁsanā ǀ tā ǀ te ǀ indra ǀ navyāḥ ǀ ā ǀ aguḥ ǀ sahaḥ ǀ nabhaḥ ǀ avi-raṇāya ǀ pūrvīḥ ǀ
bhinat ǀ puraḥ ǀ na ǀ bhidaḥ ǀ adevīḥ ǀ nanamaḥ ǀ vadhaḥ ǀ adevasya ǀ pīyoḥ ǁ1.174.8 Aṣṭaka 2.4.17.3Anuvāka 1.23.94
-
Ṛk 9
त्वं धुनि॑रिंद्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रवं॑तीः ।
प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः |
प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ||tvám dhúnirindra dhúnimatīrṛṇórapáḥ sīrā́ ná srávantīḥ ǀ
prá yátsamudrámáti śūra párṣi pāráyā turváśam yádum svastí ǁtvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ |
pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti ||त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः ।
प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥त्वम् । धुनिः । इन्द्र । धुनिऽमतीः । ऋणोः । अपः । सीराः । न । स्रवन्तीः ।
प्र । यत् । समुद्रम् । अति । शूर । पर्षि । पारय । तुर्वशम् । यदुम् । स्वस्ति ॥tvám ǀ dhúniḥ ǀ indra ǀ dhúni-matīḥ ǀ ṛṇóḥ ǀ apáḥ ǀ sīrā́ḥ ǀ ná ǀ srávantīḥ ǀ
prá ǀ yát ǀ samudrám ǀ áti ǀ śūra ǀ párṣi ǀ pāráya ǀ turváśam ǀ yádum ǀ svastí ǁtvam ǀ dhuniḥ ǀ indra ǀ dhuni-matīḥ ǀ ṛṇoḥ ǀ apaḥ ǀ sīrāḥ ǀ na ǀ sravantīḥ ǀ
pra ǀ yat ǀ samudram ǀ ati ǀ śūra ǀ parṣi ǀ pāraya ǀ turvaśam ǀ yadum ǀ svasti ǁ1.174.9 Aṣṭaka 2.4.17.4Anuvāka 1.23.95
-
Ṛk 10
त्वम॒स्माक॑मिंद्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता ।
स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नरां नृपाता |
स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ||tvámasmā́kamindra viśvádha syā avṛkátamo narā́m nṛpātā́ ǀ
sá no víśvāsām spṛdhā́m sahodā́ vidyā́meṣám vṛjánam jīrádānum ǁtvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā |
sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum ||त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । वि॒श्वध॑ । स्याः॒ । अ॒वृ॒कऽत॑मः । न॒राम् । नृ॒ऽपा॒ता ।
सः । नः॒ । विश्वा॑साम् । स्पृ॒धाम् । स॒हः॒ऽदाः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥त्वम् । अस्माकम् । इन्द्र । विश्वध । स्याः । अवृकऽतमः । नराम् । नृऽपाता ।
सः । नः । विश्वासाम् । स्पृधाम् । सहःऽदाः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥tvám ǀ asmā́kam ǀ indra ǀ viśvádha ǀ syāḥ ǀ avṛká-tamaḥ ǀ narā́m ǀ nṛ-pātā́ ǀ
sáḥ ǀ naḥ ǀ víśvāsām ǀ spṛdhā́m ǀ sahaḥ-dā́ḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁtvam ǀ asmākam ǀ indra ǀ viśvadha ǀ syāḥ ǀ avṛka-tamaḥ ǀ narām ǀ nṛ-pātā ǀ
saḥ ǀ naḥ ǀ viśvāsām ǀ spṛdhām ǀ sahaḥ-dāḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.174.10 Aṣṭaka 2.4.17.5Anuvāka 1.23.96
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.