Ṛgveda · Maṇḍala 1 · Sūkta 174

Ṛk 1.174.10

Indra · Agastya Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

त्वम॒स्माक॑मिंद्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता ।
स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नरां नृपाता |
स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ||

tvámasmā́kamindra viśvádha syā avṛkátamo narā́m nṛpātā́ ǀ
sá no víśvāsām spṛdhā́m sahodā́ vidyā́meṣám vṛjánam jīrádānum ǁ

tvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā |
sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum ||

Padapāṭha

त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । वि॒श्वध॑ । स्याः॒ । अ॒वृ॒कऽत॑मः । न॒राम् । नृ॒ऽपा॒ता ।
सः । नः॒ । विश्वा॑साम् । स्पृ॒धाम् । स॒हः॒ऽदाः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

त्वम् । अस्माकम् । इन्द्र । विश्वध । स्याः । अवृकऽतमः । नराम् । नृऽपाता ।
सः । नः । विश्वासाम् । स्पृधाम् । सहःऽदाः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

tvám ǀ asmā́kam ǀ indra ǀ viśvádha ǀ syāḥ ǀ avṛká-tamaḥ ǀ narā́m ǀ nṛ-pātā́ ǀ
sáḥ ǀ naḥ ǀ víśvāsām ǀ spṛdhā́m ǀ sahaḥ-dā́ḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

tvam ǀ asmākam ǀ indra ǀ viśvadha ǀ syāḥ ǀ avṛka-tamaḥ ǀ narām ǀ nṛ-pātā ǀ
saḥ ǀ naḥ ǀ viśvāsām ǀ spṛdhām ǀ sahaḥ-dāḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

References

Maṇḍala · Sūkta · Ṛk
01.174.10
Aṣṭaka · Adhyāya · Varga · Ṛk
2.4.17.05
Maṇḍala · Anuvāka · Ṛk
1.23.096
Devatā देवता
Indra
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.174.10

Interpretations

Sāyaṇa

मत्स्यपायीतिषळृचमेकादशंसूक्तंआगस्त्यमैन्द्रं आद्यास्कन्धोग्रीवीबृहती द्वितीयपादस्य द्वादशा- क्षरत्वात् इतरेषांत्रयाणामष्टाक्षरत्वाच्च द्वितीयश्चेन्न्यंकुसारिण्युरोवृहतीवास्कन्धोग्रीवीवेत्युक्तलक्षण- सद्भावात् अन्त्यात्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया आनुष्टुभन्त्वितिविशेषवचनेनापोहितत्वादनुष्टु- भः मत्सिषळानुष्टुबंतुत्रिष्टुबन्तंत्वाद्यास्कन्धोग्रीवीत्यनुक्रान्तम् । द्वितीयेस्वरसाम्नि आद्यस्तृचःस्तो- त्रियः अभिजिद्बृहत्पृष्ठइतिखण्डेसूत्रितम्—मत्स्यपायितेमहएमेनंप्रत्येतनेति ।