Ṛgveda · Maṇḍala 1

Sūkta 190

Bṛhaspati · Agastya Maitrāvaruṇi · 8 ṛks

Link
Devatā देवता
Bṛhaspati
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1-3); svarāṭpaṅkti (5-7); triṣṭup (4, 8)

2nd set of styles triṣṭubh

  1. Ṛk 1

    अ॒न॒र्वाणं॑ वृष॒भं मं॒द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः ।
    गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वंति॒ नव॑मानस्य॒ मर्ताः॑ ॥

    अनर्वाणं वृषभम् मन्द्रजिह्वम् बृहस्पतिं वर्धया नव्यम् अर्कैः |
    गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ||

    anarvā́ṇam vṛṣabhám mandrájihvam bṛ́haspátim vardhayā návyamarkáiḥ ǀ
    gāthānyáḥ surúco yásya devā́ āśṛṇvánti návamānasya mártāḥ ǁ

    anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ |
    gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ ||

    अ॒न॒र्वाण॑म् । वृ॒ष॒भम् । म॒न्द्रऽजि॑ह्वम् । बृह॒स्पति॑म् । व॒र्ध॒य॒ । नव्य॑म् । अ॒र्कैः ।
    गा॒था॒न्यः॑ । सु॒ऽरुचः॑ । यस्य॑ । दे॒वाः । आ॒ऽशृ॒ण्वन्ति॑ । नव॑मानस्य । मर्ताः॑ ॥

    अनर्वाणम् । वृषभम् । मन्द्रऽजिह्वम् । बृहस्पतिम् । वर्धय । नव्यम् । अर्कैः ।
    गाथान्यः । सुऽरुचः । यस्य । देवाः । आऽशृण्वन्ति । नवमानस्य । मर्ताः ॥

    anarvā́ṇam ǀ vṛṣabhám ǀ mandrá-jihvam ǀ bṛ́haspátim ǀ vardhaya ǀ návyam ǀ arkáiḥ ǀ
    gāthānyáḥ ǀ su-rúcaḥ ǀ yásya ǀ devā́ḥ ǀ ā-śṛṇvánti ǀ návamānasya ǀ mártāḥ ǁ

    anarvāṇam ǀ vṛṣabham ǀ mandra-jihvam ǀ bṛhaspatim ǀ vardhaya ǀ navyam ǀ arkaiḥ ǀ
    gāthānyaḥ ǀ su-rucaḥ ǀ yasya ǀ devāḥ ǀ ā-śṛṇvanti ǀ navamānasya ǀ martāḥ ǁ

    1.190.1 Aṣṭaka 2.5.12.1Anuvāka 1.24.92

  2. Ṛk 2

    तमृ॒त्विया॒ उप॒ वाचः॑ सचंते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि ।
    बृह॒स्पतिः॒ स ह्यंजो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥

    तम् ऋत्विया उप वाचः सचन्ते सर्गो न यो देवयताम् असर्जि |
    बृहस्पतिः स ह्य् अञ्जो वरांसि विभ्वाभवत् सम् ऋते मातरिश्वा ||

    támṛtvíyā úpa vā́caḥ sacante sárgo ná yó devayatā́másarji ǀ
    bṛ́haspátiḥ sá hyáñjo várāṃsi víbhvā́bhavatsámṛté mātaríśvā ǁ

    tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji |
    bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā ||

    तम् । ऋ॒त्वियाः॑ । उप॑ । वाचः॑ । स॒च॒न्ते॒ । सर्गः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ।
    बृह॒स्पतिः॑ । सः । हि । अञ्जः॑ । वरां॑सि । विऽभ्वा॑ । अभ॑वत् । सम् । ऋ॒ते । मा॒त॒रिश्वा॑ ॥

    तम् । ऋत्वियाः । उप । वाचः । सचन्ते । सर्गः । न । यः । देवऽयताम् । असर्जि ।
    बृहस्पतिः । सः । हि । अञ्जः । वरांसि । विऽभ्वा । अभवत् । सम् । ऋते । मातरिश्वा ॥

    tám ǀ ṛtvíyāḥ ǀ úpa ǀ vā́caḥ ǀ sacante ǀ sárgaḥ ǀ ná ǀ yáḥ ǀ deva-yatā́m ǀ ásarji ǀ
    bṛ́haspátiḥ ǀ sáḥ ǀ hí ǀ áñjaḥ ǀ várāṃsi ǀ ví-bhvā ǀ ábhavat ǀ sám ǀ ṛté ǀ mātaríśvā ǁ

    tam ǀ ṛtviyāḥ ǀ upa ǀ vācaḥ ǀ sacante ǀ sargaḥ ǀ na ǀ yaḥ ǀ deva-yatām ǀ asarji ǀ
    bṛhaspatiḥ ǀ saḥ ǀ hi ǀ añjaḥ ǀ varāṃsi ǀ vi-bhvā ǀ abhavat ǀ sam ǀ ṛte ǀ mātariśvā ǁ

    1.190.2 Aṣṭaka 2.5.12.2Anuvāka 1.24.93

  3. Ṛk 3

    उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू ।
    अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥

    उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत् सवितेव प्र बाहू |
    अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस् तुविष्मान् ||

    úpastutim námasa údyatim ca ślókam yaṃsatsavitéva prá bāhū́ ǀ
    asyá krátvāhanyó yó ásti mṛgó ná bhīmó arakṣásastúviṣmān ǁ

    upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū |
    asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān ||

    उप॑ऽस्तुतिम् । नम॑सः । उत्ऽय॑तिम् । च॒ । श्लोक॑म् । यं॒स॒त् । स॒वि॒ताऽइ॑व । प्र । बा॒हू इति॑ ।
    अ॒स्य । क्रत्वा॑ । अ॒ह॒न्यः॑ । यः । अस्ति॑ । मृ॒गः । न । भी॒मः । अ॒र॒क्षसः॑ । तुवि॑ष्मान् ॥

    उपऽस्तुतिम् । नमसः । उत्ऽयतिम् । च । श्लोकम् । यंसत् । सविताऽइव । प्र । बाहू इति ।
    अस्य । क्रत्वा । अहन्यः । यः । अस्ति । मृगः । न । भीमः । अरक्षसः । तुविष्मान् ॥

    úpa-stutim ǀ námasaḥ ǀ út-yatim ǀ ca ǀ ślókam ǀ yaṃsat ǀ savitā́-iva ǀ prá ǀ bāhū́ íti ǀ
    asyá ǀ krátvā ǀ ahanyáḥ ǀ yáḥ ǀ ásti ǀ mṛgáḥ ǀ ná ǀ bhīmáḥ ǀ arakṣásaḥ ǀ túviṣmān ǁ

    upa-stutim ǀ namasaḥ ǀ ut-yatim ǀ ca ǀ ślokam ǀ yaṃsat ǀ savitā-iva ǀ pra ǀ bāhū iti ǀ
    asya ǀ kratvā ǀ ahanyaḥ ǀ yaḥ ǀ asti ǀ mṛgaḥ ǀ na ǀ bhīmaḥ ǀ arakṣasaḥ ǀ tuviṣmān ǁ

    1.190.3 Aṣṭaka 2.5.12.3Anuvāka 1.24.94

  4. Ṛk 4

    अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः ।
    मृ॒गाणां॒ न हे॒तयो॒ यंति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥

    अस्य श्लोको दिवीयते पृथिव्याम् अत्यो न यंसद् यक्षभृद् विचेताः |
    मृगाणां न हेतयो यन्ति चेमा बृहस्पतेर् अहिमायां अभि द्यून् ||

    asyá ślóko divī́yate pṛthivyā́mátyo ná yaṃsadyakṣabhṛ́dvícetāḥ ǀ
    mṛgā́ṇām ná hetáyo yánti cemā́ bṛ́haspáteráhimāyām̐ abhí dyū́n ǁ

    asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ |
    mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṃ abhi dyūn ||

    अ॒स्य । श्लोकः॑ । दि॒वि । ई॒य॒ते॒ । पृ॒थि॒व्याम् । अत्यः॑ । न । यं॒स॒त् । य॒क्ष॒ऽभृत् । विऽचे॑ताः ।
    मृ॒गाणा॑म् । न । हे॒तयः॑ । यन्ति॑ । च॒ । इ॒माः । बृह॒स्पतेः॑ । अहि॑ऽमायान् । अ॒भि । द्यून् ॥

    अस्य । श्लोकः । दिवि । ईयते । पृथिव्याम् । अत्यः । न । यंसत् । यक्षऽभृत् । विऽचेताः ।
    मृगाणाम् । न । हेतयः । यन्ति । च । इमाः । बृहस्पतेः । अहिऽमायान् । अभि । द्यून् ॥

    asyá ǀ ślókaḥ ǀ diví ǀ īyate ǀ pṛthivyā́m ǀ átyaḥ ǀ ná ǀ yaṃsat ǀ yakṣa-bhṛ́t ǀ ví-cetāḥ ǀ
    mṛgā́ṇām ǀ ná ǀ hetáyaḥ ǀ yánti ǀ ca ǀ imā́ḥ ǀ bṛ́haspáteḥ ǀ áhi-māyān ǀ abhí ǀ dyū́n ǁ

    asya ǀ ślokaḥ ǀ divi ǀ īyate ǀ pṛthivyām ǀ atyaḥ ǀ na ǀ yaṃsat ǀ yakṣa-bhṛt ǀ vi-cetāḥ ǀ
    mṛgāṇām ǀ na ǀ hetayaḥ ǀ yanti ǀ ca ǀ imāḥ ǀ bṛhaspateḥ ǀ ahi-māyān ǀ abhi ǀ dyūn ǁ

    1.190.4 Aṣṭaka 2.5.12.4Anuvāka 1.24.95

  5. Ṛk 5

    ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीवं॑ति प॒ज्राः ।
    न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुं ॥

    ये त्वा देवोस्रिकम् मन्यमानाः पापा भद्रम् उपजीवन्ति पज्राः |
    न दूढ्ये अनु ददासि वामम् बृहस्पते चयस इत् पियारुम् ||

    yé tvā devosrikám mányamānāḥ pāpā́ bhadrámupajī́vanti pajrā́ḥ ǀ
    ná dūḍhyé ánu dadāsi vāmám bṛ́haspate cáyasa ítpíyārum ǁ

    ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ |
    na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum ||

    ये । त्वा॒ । दे॒व॒ । उ॒स्रि॒कम् । मन्य॑मानाः । पा॒पाः । भ॒द्रम् । उ॒प॒ऽजीव॑न्ति । प॒ज्राः ।
    न । दुः॒ऽध्ये॑ । अनु॑ । द॒दा॒सि॒ । वा॒मम् । बृह॑स्पते । चय॑से । इत् । पिया॑रुम् ॥

    ये । त्वा । देव । उस्रिकम् । मन्यमानाः । पापाः । भद्रम् । उपऽजीवन्ति । पज्राः ।
    न । दुःऽध्ये । अनु । ददासि । वामम् । बृहस्पते । चयसे । इत् । पियारुम् ॥

    yé ǀ tvā ǀ deva ǀ usrikám ǀ mányamānāḥ ǀ pāpā́ḥ ǀ bhadrám ǀ upa-jī́vanti ǀ pajrā́ḥ ǀ
    ná ǀ duḥ-dhyé ǀ ánu ǀ dadāsi ǀ vāmám ǀ bṛ́haspate ǀ cáyase ǀ ít ǀ píyārum ǁ

    ye ǀ tvā ǀ deva ǀ usrikam ǀ manyamānāḥ ǀ pāpāḥ ǀ bhadram ǀ upa-jīvanti ǀ pajrāḥ ǀ
    na ǀ duḥ-dhye ǀ anu ǀ dadāsi ǀ vāmam ǀ bṛhaspate ǀ cayase ǀ it ǀ piyārum ǁ

    1.190.5 Aṣṭaka 2.5.12.5Anuvāka 1.24.96

  6. Ṛk 6

    सु॒प्रैतुः॑ सू॒यव॑सो॒ न पंथा॑ दुर्नि॒यंतुः॒ परि॑प्रीतो॒ न मि॒त्रः ।
    अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वंतो॑ अस्थुः ॥

    सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः |
    अनर्वाणो अभि ये चक्षते नो ऽपीवृता अपोर्णुवन्तो अस्थुः ||

    supráituḥ sūyávaso ná pánthā durniyántuḥ páriprīto ná mitráḥ ǀ
    anarvā́ṇo abhí yé cákṣate nó’pīvṛtā aporṇuvánto asthuḥ ǁ

    supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ |
    anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ ||

    सु॒ऽप्रैतुः॑ । सु॒ऽयव॑सः । न । पन्थाः॑ । दुः॒ऽनि॒यन्तुः॑ । परि॑ऽप्रीतः । न । मि॒त्रः ।
    अ॒न॒र्वाणः॑ । अ॒भि । ये । चक्ष॑ते । नः॒ । अपि॑ऽवृताः । अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । अ॒स्थुः॒ ॥

    सुऽप्रैतुः । सुऽयवसः । न । पन्थाः । दुःऽनियन्तुः । परिऽप्रीतः । न । मित्रः ।
    अनर्वाणः । अभि । ये । चक्षते । नः । अपिऽवृताः । अपऽऊर्णुवन्तः । अस्थुः ॥

    su-práituḥ ǀ su-yávasaḥ ǀ ná ǀ pánthāḥ ǀ duḥ-niyántuḥ ǀ pári-prītaḥ ǀ ná ǀ mitráḥ ǀ
    anarvā́ṇaḥ ǀ abhí ǀ yé ǀ cákṣate ǀ naḥ ǀ ápi-vṛtāḥ ǀ apa-ūrṇuvántaḥ ǀ asthuḥ ǁ

    su-praituḥ ǀ su-yavasaḥ ǀ na ǀ panthāḥ ǀ duḥ-niyantuḥ ǀ pari-prītaḥ ǀ na ǀ mitraḥ ǀ
    anarvāṇaḥ ǀ abhi ǀ ye ǀ cakṣate ǀ naḥ ǀ api-vṛtāḥ ǀ apa-ūrṇuvantaḥ ǀ asthuḥ ǁ

    1.190.6 Aṣṭaka 2.5.13.1Anuvāka 1.24.97

  7. Ṛk 7

    सं यं स्तुभो॒ऽवन॑यो॒ न यंति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।
    स वि॒द्वाँ उ॒भयं॑ चष्टे अं॒तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥

    सं यं स्तुभो ऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः |
    स विद्वां उभयं चष्टे अन्तर् बृहस्पतिस् तर आपश् च गृध्रः ||

    sám yám stúbho’vánayo ná yánti samudrám ná sraváto ródhacakrāḥ ǀ
    sá vidvā́m̐ ubháyam caṣṭe antárbṛ́haspátistára ā́paśca gṛ́dhraḥ ǁ

    saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ |
    sa vidvāṃ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ ||

    सम् । यम् । स्तुभः॑ । अ॒वन॑यः । न । यन्ति॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । रोध॑ऽचक्राः ।
    सः । वि॒द्वान् । उ॒भय॑म् । च॒ष्टे॒ । अ॒न्तः । बृह॒स्पतिः॑ । तरः॑ । आपः॑ । च॒ । गृध्रः॑ ॥

    सम् । यम् । स्तुभः । अवनयः । न । यन्ति । समुद्रम् । न । स्रवतः । रोधऽचक्राः ।
    सः । विद्वान् । उभयम् । चष्टे । अन्तः । बृहस्पतिः । तरः । आपः । च । गृध्रः ॥

    sám ǀ yám ǀ stúbhaḥ ǀ avánayaḥ ǀ ná ǀ yánti ǀ samudrám ǀ ná ǀ sravátaḥ ǀ ródha-cakrāḥ ǀ
    sáḥ ǀ vidvā́n ǀ ubháyam ǀ caṣṭe ǀ antáḥ ǀ bṛ́haspátiḥ ǀ táraḥ ǀ ā́paḥ ǀ ca ǀ gṛ́dhraḥ ǁ

    sam ǀ yam ǀ stubhaḥ ǀ avanayaḥ ǀ na ǀ yanti ǀ samudram ǀ na ǀ sravataḥ ǀ rodha-cakrāḥ ǀ
    saḥ ǀ vidvān ǀ ubhayam ǀ caṣṭe ǀ antaḥ ǀ bṛhaspatiḥ ǀ taraḥ ǀ āpaḥ ǀ ca ǀ gṛdhraḥ ǁ

    1.190.7 Aṣṭaka 2.5.13.2Anuvāka 1.24.98

  8. Ṛk 8

    ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः ।
    स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

    एवा महस् तुविजातस् तुविष्मान् बृहस्पतिर् वृषभो धायि देवः |
    स न स्तुतो वीरवद् धातु गोमद् विद्यामेषं वृजनं जीरदानुम् ||

    evā́ mahástuvijātástúviṣmānbṛ́haspátirvṛṣabhó dhāyi deváḥ ǀ
    sá naḥ stutó vīrávaddhātu gómadvidyā́meṣám vṛjánam jīrádānum ǁ

    evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ |
    sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum ||

    ए॒व । म॒हः । तु॒वि॒ऽजा॒तः । तुवि॑ष्मान् । बृह॒स्पतिः॑ । वृ॒ष॒भः । धा॒यि॒ । दे॒वः ।
    सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

    एव । महः । तुविऽजातः । तुविष्मान् । बृहस्पतिः । वृषभः । धायि । देवः ।
    सः । नः । स्तुतः । वीरऽवत् । धातु । गोऽमत् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

    evá ǀ maháḥ ǀ tuvi-jātáḥ ǀ túviṣmān ǀ bṛ́haspátiḥ ǀ vṛṣabháḥ ǀ dhāyi ǀ deváḥ ǀ
    sáḥ ǀ naḥ ǀ stutáḥ ǀ vīrá-vat ǀ dhātu ǀ gó-mat ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

    eva ǀ mahaḥ ǀ tuvi-jātaḥ ǀ tuviṣmān ǀ bṛhaspatiḥ ǀ vṛṣabhaḥ ǀ dhāyi ǀ devaḥ ǀ
    saḥ ǀ naḥ ǀ stutaḥ ǀ vīra-vat ǀ dhātu ǀ go-mat ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

    1.190.8 Aṣṭaka 2.5.13.3Anuvāka 1.24.99

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.190 · Bṛhaspati

Interpretations

Ralph T. H. Griffith

Ṛk 1

GLORIFY thou Bṛhaspati, the scatheless, who must be praised with hymns, sweet-tongued and mighty, To whom as leader of the song, resplendent, worthy of lauds, both Gods and mortals listen.

Ṛk 2

On him wait songs according to the season even as a stream of pious men set moving. Bṛhaspati—for he laid out the expanses—was, at the sacrifice, vast Mātariśvan.

Ṛk 3

The praise, the verse that offers adoration, may he bring forth, as the Sun sends his arms out, He who gives daily light through this God's wisdom, strong as a dread wild beast, and inoffensive.

Ṛk 4

His song of praise pervades the earth and heaven: let the wise worshipper draw it, like a courser. These of Bṛhaspati, like hunters' arrows, go to the skies that change their hue like serpents.

Ṛk 5

Those, God, who count thee as a worthless bullock, and, wealthy sinners, live on thee the Bounteous,— On fools like these no blessing thou bestowest: Bṛhaspati, thou punishest the spiteful.

Ṛk 6

Like a fair path is he, where grass is pleasant, though hard to win, a Friend beloved most early. Those who unharmed by enemies behold us, while they would make them bare, stood closely compassed.

Ṛk 7

He to whom songs of praise go forth like torrents, as rivers eddying under banks flow sea-ward— Bṛhaspati the wise, the eager, closely looks upon both, the waters and the vessel.