Sūkta 80
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
Metres by ṛk
1st set of styles bhurigbṛhatī (2-4, 7, 12, 15); virāṭpaṅkti (5, 6, 9, 10, 13, 14); nicṛdāstārapaṅkti (1, 11); bṛhatī (8, 16)
2nd set of styles paṅkti
-
Ṛk 1
इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नं ।
शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्यं॑ ॥इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् |
शविष्ठ वज्रिन्न् ओजसा पृथिव्या निः शशा अहिम् अर्चन्न् अनु स्वराज्यम् ||itthā́ hí sóma ínmáde brahmā́ cakā́ra várdhanam ǀ
śáviṣṭha vajrinnójasā pṛthivyā́ níḥ śaśā áhimárcannánu svarā́jyam ǁitthā hi soma in made brahmā cakāra vardhanam |
śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam ||इ॒त्था । हि । सोमे॑ । इत् । मदे॑ । ब्र॒ह्मा । च॒कार॑ । वर्ध॑नम् ।
शवि॑ष्ठ । व॒ज्रि॒न् । ओज॑सा । पृ॒थि॒व्याः । निः । श॒शाः॒ । अहि॑म् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इत्था । हि । सोमे । इत् । मदे । ब्रह्मा । चकार । वर्धनम् ।
शविष्ठ । वज्रिन् । ओजसा । पृथिव्याः । निः । शशाः । अहिम् । अर्चन् । अनु । स्वऽराज्यम् ॥itthā́ ǀ hí ǀ sóme ǀ ít ǀ máde ǀ brahmā́ ǀ cakā́ra ǀ várdhanam ǀ
śáviṣṭha ǀ vajrin ǀ ójasā ǀ pṛthivyā́ḥ ǀ níḥ ǀ śaśāḥ ǀ áhim ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁitthā ǀ hi ǀ some ǀ it ǀ made ǀ brahmā ǀ cakāra ǀ vardhanam ǀ
śaviṣṭha ǀ vajrin ǀ ojasā ǀ pṛthivyāḥ ǀ niḥ ǀ śaśāḥ ǀ ahim ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.1 Aṣṭaka 1.5.29.1Anuvāka 1.13.42
-
Ṛk 2
स त्वा॑मद॒द्वृषा॒ मदः॒ सोमः॑ श्ये॒नाभृ॑तः सु॒तः ।
येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घंथ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्यं॑ ॥स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः |
येना वृत्रं निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु स्वराज्यम् ||sá tvāmadadvṛ́ṣā mádaḥ sómaḥ śyenā́bhṛtaḥ sutáḥ ǀ
yénā vṛtrám níradbhyó jaghántha vajrinnójasā́rcannánu svarā́jyam ǁsa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ |
yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam ||सः । त्वा॒ । अ॒म॒द॒त् । वृषा॑ । मदः॑ । सोमः॑ । श्ये॒नऽआ॑भृतः । सु॒तः ।
येन॑ । वृ॒त्रम् । निः । अ॒त्ऽभ्यः । ज॒घन्थ॑ । व॒ज्रि॒न् । ओज॑सा । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥सः । त्वा । अमदत् । वृषा । मदः । सोमः । श्येनऽआभृतः । सुतः ।
येन । वृत्रम् । निः । अत्ऽभ्यः । जघन्थ । वज्रिन् । ओजसा । अर्चन् । अनु । स्वऽराज्यम् ॥sáḥ ǀ tvā ǀ amadat ǀ vṛ́ṣā ǀ mádaḥ ǀ sómaḥ ǀ śyená-ābhṛtaḥ ǀ sutáḥ ǀ
yéna ǀ vṛtrám ǀ níḥ ǀ at-bhyáḥ ǀ jaghántha ǀ vajrin ǀ ójasā ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁsaḥ ǀ tvā ǀ amadat ǀ vṛṣā ǀ madaḥ ǀ somaḥ ǀ śyena-ābhṛtaḥ ǀ sutaḥ ǀ
yena ǀ vṛtram ǀ niḥ ǀ at-bhyaḥ ǀ jaghantha ǀ vajrin ǀ ojasā ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.2 Aṣṭaka 1.5.29.2Anuvāka 1.13.43
-
Ṛk 3
प्रेह्य॒भी॑हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं॑सते ।
इंद्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्यं॑ ॥प्रेह्य् अभीहि धृष्णुहि न ते वज्रो नि यंसते |
इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्न् अनु स्वराज्यम् ||préhyabhī́hi dhṛṣṇuhí ná te vájro ní yaṃsate ǀ
índra nṛmṇám hí te śávo háno vṛtrám jáyā apó’rcannánu svarā́jyam ǁprehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate |
indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam ||प्र । इ॒हि॒ । अ॒भि । इ॒हि॒ । धृ॒ष्णु॒हि । न । ते॒ । वज्रः॑ । नि । यं॒स॒ते॒ ।
इन्द्र॑ । नृ॒म्णम् । हि । ते॒ । शवः॑ । हनः॑ । वृ॒त्रम् । जयाः॑ । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥प्र । इहि । अभि । इहि । धृष्णुहि । न । ते । वज्रः । नि । यंसते ।
इन्द्र । नृम्णम् । हि । ते । शवः । हनः । वृत्रम् । जयाः । अपः । अर्चन् । अनु । स्वऽराज्यम् ॥prá ǀ ihi ǀ abhí ǀ ihi ǀ dhṛṣṇuhí ǀ ná ǀ te ǀ vájraḥ ǀ ní ǀ yaṃsate ǀ
índra ǀ nṛmṇám ǀ hí ǀ te ǀ śávaḥ ǀ hánaḥ ǀ vṛtrám ǀ jáyāḥ ǀ apáḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁpra ǀ ihi ǀ abhi ǀ ihi ǀ dhṛṣṇuhi ǀ na ǀ te ǀ vajraḥ ǀ ni ǀ yaṃsate ǀ
indra ǀ nṛmṇam ǀ hi ǀ te ǀ śavaḥ ǀ hanaḥ ǀ vṛtram ǀ jayāḥ ǀ apaḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.3 Aṣṭaka 1.5.29.3Anuvāka 1.13.44
-
Ṛk 4
निरिं॑द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घंथ॒ निर्दि॒वः ।
सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्यं॑ ॥निर् इन्द्र भूम्या अधि वृत्रं जघन्थ निर् दिवः |
सृजा मरुत्वतीर् अव जीवधन्या इमा अपो ऽर्चन्न् अनु स्वराज्यम् ||nírindra bhū́myā ádhi vṛtrám jaghantha nírdiváḥ ǀ
sṛjā́ marútvatīráva jīvádhanyā imā́ apó’rcannánu svarā́jyam ǁnir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ |
sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam ||निः । इ॒न्द्र॒ । भूम्याः॑ । अधि॑ । वृ॒त्रम् । ज॒घ॒न्थ॒ । निः । दि॒वः ।
सृ॒ज । म॒रुत्व॑तीः । अव॑ । जी॒वऽध॑न्याः । इ॒माः । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥निः । इन्द्र । भूम्याः । अधि । वृत्रम् । जघन्थ । निः । दिवः ।
सृज । मरुत्वतीः । अव । जीवऽधन्याः । इमाः । अपः । अर्चन् । अनु । स्वऽराज्यम् ॥níḥ ǀ indra ǀ bhū́myāḥ ǀ ádhi ǀ vṛtrám ǀ jaghantha ǀ níḥ ǀ diváḥ ǀ
sṛjá ǀ marútvatīḥ ǀ áva ǀ jīvá-dhanyāḥ ǀ imā́ḥ ǀ apáḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁniḥ ǀ indra ǀ bhūmyāḥ ǀ adhi ǀ vṛtram ǀ jaghantha ǀ niḥ ǀ divaḥ ǀ
sṛja ǀ marutvatīḥ ǀ ava ǀ jīva-dhanyāḥ ǀ imāḥ ǀ apaḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.4 Aṣṭaka 1.5.29.4Anuvāka 1.13.45
-
Ṛk 5
इंद्रो॑ वृ॒त्रस्य॒ दोध॑तः॒ सानुं॒ वज्रे॑ण हीळि॒तः ।
अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्यं॑ ॥इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीऌइतः |
अभिक्रम्याव जिघ्नते ऽपः सर्माय चोदयन्न् अर्चन्न् अनु स्वराज्यम् ||índro vṛtrásya dódhataḥ sā́num vájreṇa hīḷitáḥ ǀ
abhikrámyā́va jighnate’páḥ sármāya codáyannárcannánu svarā́jyam ǁindro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḷitaḥ |
abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam ||इन्द्रः॑ । वृ॒त्रस्य॑ । दोध॑तः । सानु॑म् । वज्रे॑ण । ही॒ळि॒तः ।
अ॒भि॒ऽक्रम्य॑ । अव॑ । जि॒घ्न॒ते॒ । अ॒पः । सर्मा॑य । चो॒दय॑न् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इन्द्रः । वृत्रस्य । दोधतः । सानुम् । वज्रेण । हीळितः ।
अभिऽक्रम्य । अव । जिघ्नते । अपः । सर्माय । चोदयन् । अर्चन् । अनु । स्वऽराज्यम् ॥índraḥ ǀ vṛtrásya ǀ dódhataḥ ǀ sā́num ǀ vájreṇa ǀ hīḷitáḥ ǀ
abhi-krámya ǀ áva ǀ jighnate ǀ apáḥ ǀ sármāya ǀ codáyan ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁindraḥ ǀ vṛtrasya ǀ dodhataḥ ǀ sānum ǀ vajreṇa ǀ hīḷitaḥ ǀ
abhi-kramya ǀ ava ǀ jighnate ǀ apaḥ ǀ sarmāya ǀ codayan ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.5 Aṣṭaka 1.5.29.5Anuvāka 1.13.46
-
Ṛk 6
अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा ।
मं॒दा॒न इंद्रो॒ अंध॑सः॒ सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्यं॑ ॥अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा |
मन्दान इन्द्रो अन्धसः सखिभ्यो गातुम् इच्छत्य् अर्चन्न् अनु स्वराज्यम् ||ádhi sā́nau ní jighnate vájreṇa śatáparvaṇā ǀ
mandāná índro ándhasaḥ sákhibhyo gātúmicchatyárcannánu svarā́jyam ǁadhi sānau ni jighnate vajreṇa śataparvaṇā |
mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam ||अधि॑ । सानौ॑ । नि । जि॒घ्न॒ते॒ । वज्रे॑ण । श॒तऽप॑र्वणा ।
म॒न्दा॒नः । इन्द्रः॑ । अन्ध॑सः । सखि॑ऽभ्यः । गा॒तुम् । इ॒च्छ॒ति॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥अधि । सानौ । नि । जिघ्नते । वज्रेण । शतऽपर्वणा ।
मन्दानः । इन्द्रः । अन्धसः । सखिऽभ्यः । गातुम् । इच्छति । अर्चन् । अनु । स्वऽराज्यम् ॥ádhi ǀ sā́nau ǀ ní ǀ jighnate ǀ vájreṇa ǀ śatá-parvaṇā ǀ
mandānáḥ ǀ índraḥ ǀ ándhasaḥ ǀ sákhi-bhyaḥ ǀ gātúm ǀ icchati ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁadhi ǀ sānau ǀ ni ǀ jighnate ǀ vajreṇa ǀ śata-parvaṇā ǀ
mandānaḥ ǀ indraḥ ǀ andhasaḥ ǀ sakhi-bhyaḥ ǀ gātum ǀ icchati ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.6 Aṣṭaka 1.5.30.1Anuvāka 1.13.47
-
Ṛk 7
इंद्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्यं॑ ।
यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥इन्द्र तुभ्यम् इद् अद्रिवो ऽनुत्तं वज्रिन् वीर्यम् |
यद् ध त्यम् मायिनम् मृगं तम् उ त्वम् माययावधीर् अर्चन्न् अनु स्वराज्यम् ||índra túbhyamídadrivó’nuttam vajrinvīryám ǀ
yáddha tyám māyínam mṛgám támu tvám māyáyāvadhīrárcannánu svarā́jyam ǁindra tubhyam id adrivo 'nuttaṃ vajrin vīryam |
yad dha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam ||इन्द्र॑ । तुभ्य॑म् । इत् । अ॒द्रि॒ऽवः॒ । अनु॑त्तम् । व॒ज्रि॒न् । वी॒र्य॑म् ।
यत् । ह॒ । त्यम् । मा॒यिन॑म् । मृ॒गम् । तम् । ऊं॒ इति॑ । त्वम् । मा॒यया॑ । अ॒व॒धीः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इन्द्र । तुभ्यम् । इत् । अद्रिऽवः । अनुत्तम् । वज्रिन् । वीर्यम् ।
यत् । ह । त्यम् । मायिनम् । मृगम् । तम् । ऊं इति । त्वम् । मायया । अवधीः । अर्चन् । अनु । स्वऽराज्यम् ॥índra ǀ túbhyam ǀ ít ǀ adri-vaḥ ǀ ánuttam ǀ vajrin ǀ vīryám ǀ
yát ǀ ha ǀ tyám ǀ māyínam ǀ mṛgám ǀ tám ǀ ūṃ íti ǀ tvám ǀ māyáyā ǀ avadhīḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁindra ǀ tubhyam ǀ it ǀ adri-vaḥ ǀ anuttam ǀ vajrin ǀ vīryam ǀ
yat ǀ ha ǀ tyam ǀ māyinam ǀ mṛgam ǀ tam ǀ ūṃ iti ǀ tvam ǀ māyayā ǀ avadhīḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.7 Aṣṭaka 1.5.30.2Anuvāka 1.13.48
-
Ṛk 8
वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ ।
म॒हत्त॑ इंद्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्यं॑ ॥वि ते वज्रासो अस्थिरन् नवतिं नाव्या अनु |
महत् त इन्द्र वीर्यम् बाह्वोस् ते बलं हितम् अर्चन्न् अनु स्वराज्यम् ||ví te vájrāso asthirannavatím nāvyā́ ánu ǀ
mahátta indra vīryám bāhvóste bálam hitámárcannánu svarā́jyam ǁvi te vajrāso asthiran navatiṃ nāvyā anu |
mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam ||वि । ते॒ । वज्रा॑सः । अ॒स्थि॒र॒न् । न॒व॒तिम् । ना॒व्याः॑ । अनु॑ ।
म॒हत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । बा॒ह्वोः । ते॒ । बल॑म् । हि॒तम् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥वि । ते । वज्रासः । अस्थिरन् । नवतिम् । नाव्याः । अनु ।
महत् । ते । इन्द्र । वीर्यम् । बाह्वोः । ते । बलम् । हितम् । अर्चन् । अनु । स्वऽराज्यम् ॥ví ǀ te ǀ vájrāsaḥ ǀ asthiran ǀ navatím ǀ nāvyā́ḥ ǀ ánu ǀ
mahát ǀ te ǀ indra ǀ vīryám ǀ bāhvóḥ ǀ te ǀ bálam ǀ hitám ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁvi ǀ te ǀ vajrāsaḥ ǀ asthiran ǀ navatim ǀ nāvyāḥ ǀ anu ǀ
mahat ǀ te ǀ indra ǀ vīryam ǀ bāhvoḥ ǀ te ǀ balam ǀ hitam ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.8 Aṣṭaka 1.5.30.3Anuvāka 1.13.49
-
Ṛk 9
स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः ।
श॒तैन॒मन्व॑नोनवु॒रिंद्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्यं॑ ॥सहस्रं साकम् अर्चत परि ष्टोभत विंशतिः |
शतैनम् अन्व् अनोनवुर् इन्द्राय ब्रह्मोद्यतम् अर्चन्न् अनु स्वराज्यम् ||sahásram sākámarcata pári ṣṭobhata viṃśatíḥ ǀ
śatáinamánvanonavuríndrāya bráhmódyatamárcannánu svarā́jyam ǁsahasraṃ sākam arcata pari ṣṭobhata viṃśatiḥ |
śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam ||स॒हस्र॑म् । सा॒कम् । अ॒र्च॒त॒ । परि॑ । स्तो॒भ॒त॒ । विं॒श॒तिः ।
श॒ता । ए॒न॒म् । अनु॑ । अ॒नो॒न॒वुः॒ । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥सहस्रम् । साकम् । अर्चत । परि । स्तोभत । विंशतिः ।
शता । एनम् । अनु । अनोनवुः । इन्द्राय । ब्रह्म । उत्ऽयतम् । अर्चन् । अनु । स्वऽराज्यम् ॥sahásram ǀ sākám ǀ arcata ǀ pári ǀ stobhata ǀ viṃśatíḥ ǀ
śatā́ ǀ enam ǀ ánu ǀ anonavuḥ ǀ índrāya ǀ bráhma ǀ út-yatam ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁsahasram ǀ sākam ǀ arcata ǀ pari ǀ stobhata ǀ viṃśatiḥ ǀ
śatā ǀ enam ǀ anu ǀ anonavuḥ ǀ indrāya ǀ brahma ǀ ut-yatam ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.9 Aṣṭaka 1.5.30.4Anuvāka 1.13.50
-
Ṛk 10
इंद्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्त्सह॑सा॒ सहः॑ ।
म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्यं॑ ॥इन्द्रो वृत्रस्य तविषीं निर् अहन् सहसा सहः |
महत् तद् अस्य पौंस्यं वृत्रं जघन्वां असृजद् अर्चन्न् अनु स्वराज्यम् ||índro vṛtrásya táviṣīm nírahantsáhasā sáhaḥ ǀ
maháttádasya páuṃsyam vṛtrám jaghanvā́m̐ asṛjadárcannánu svarā́jyam ǁindro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ |
mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṃ asṛjad arcann anu svarājyam ||इन्द्रः॑ । वृ॒त्रस्य॑ । तवि॑षीम् । निः । अ॒ह॒न् । सह॑सा । सहः॑ ।
म॒हत् । तत् । अ॒स्य॒ । पौंस्य॑म् । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इन्द्रः । वृत्रस्य । तविषीम् । निः । अहन् । सहसा । सहः ।
महत् । तत् । अस्य । पौंस्यम् । वृत्रम् । जघन्वान् । असृजत् । अर्चन् । अनु । स्वऽराज्यम् ॥índraḥ ǀ vṛtrásya ǀ táviṣīm ǀ níḥ ǀ ahan ǀ sáhasā ǀ sáhaḥ ǀ
mahát ǀ tát ǀ asya ǀ páuṃsyam ǀ vṛtrám ǀ jaghanvā́n ǀ asṛjat ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁindraḥ ǀ vṛtrasya ǀ taviṣīm ǀ niḥ ǀ ahan ǀ sahasā ǀ sahaḥ ǀ
mahat ǀ tat ǀ asya ǀ pauṃsyam ǀ vṛtram ǀ jaghanvān ǀ asṛjat ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.10 Aṣṭaka 1.5.30.5Anuvāka 1.13.51
-
Ṛk 11
इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही ।
यदिं॑द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥इमे चित् तव मन्यवे वेपेते भियसा मही |
यद् इन्द्र वज्रिन्न् ओजसा वृत्रम् मरुत्वां अवधीर् अर्चन्न् अनु स्वराज्यम् ||imé cittáva manyáve vépete bhiyásā mahī́ ǀ
yádindra vajrinnójasā vṛtrám marútvām̐ ávadhīrárcannánu svarā́jyam ǁime cit tava manyave vepete bhiyasā mahī |
yad indra vajrinn ojasā vṛtram marutvāṃ avadhīr arcann anu svarājyam ||इ॒मे । चि॒त् । तव॑ । म॒न्यवे॑ । वेपे॑ते॒ इति॑ । भि॒यसा॑ । म॒ही इति॑ ।
यत् । इ॒न्द्र॒ । व॒ज्रि॒न् । ओज॑सा । वृ॒त्रम् । म॒रुत्वा॑न् । अव॑धीः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इमे । चित् । तव । मन्यवे । वेपेते इति । भियसा । मही इति ।
यत् । इन्द्र । वज्रिन् । ओजसा । वृत्रम् । मरुत्वान् । अवधीः । अर्चन् । अनु । स्वऽराज्यम् ॥imé ǀ cit ǀ táva ǀ manyáve ǀ vépete íti ǀ bhiyásā ǀ mahī́ íti ǀ
yát ǀ indra ǀ vajrin ǀ ójasā ǀ vṛtrám ǀ marútvān ǀ ávadhīḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁime ǀ cit ǀ tava ǀ manyave ǀ vepete iti ǀ bhiyasā ǀ mahī iti ǀ
yat ǀ indra ǀ vajrin ǀ ojasā ǀ vṛtram ǀ marutvān ǀ avadhīḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.11 Aṣṭaka 1.5.31.1Anuvāka 1.13.52
-
Ṛk 12
न वेप॑सा॒ न त॑न्य॒तेंद्रं॑ वृ॒त्रो वि बी॑भयत् ।
अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्यं॑ ॥न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् |
अभ्य् एनं वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु स्वराज्यम् ||ná vépasā ná tanyaténdram vṛtró ví bībhayat ǀ
abhyénam vájra āyasáḥ sahásrabhṛṣṭirāyatā́rcannánu svarā́jyam ǁna vepasā na tanyatendraṃ vṛtro vi bībhayat |
abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam ||न । वेप॑सा । न । त॒न्य॒ता । इन्द्र॑म् । वृ॒त्रः । वि । बी॒भ॒य॒त् ।
अ॒भि । ए॒न॒म् । वज्रः॑ । आ॒य॒सः । स॒हस्र॑ऽभृष्टिः । आ॒य॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥न । वेपसा । न । तन्यता । इन्द्रम् । वृत्रः । वि । बीभयत् ।
अभि । एनम् । वज्रः । आयसः । सहस्रऽभृष्टिः । आयत । अर्चन् । अनु । स्वऽराज्यम् ॥ná ǀ vépasā ǀ ná ǀ tanyatā́ ǀ índram ǀ vṛtráḥ ǀ ví ǀ bībhayat ǀ
abhí ǀ enam ǀ vájraḥ ǀ āyasáḥ ǀ sahásra-bhṛṣṭiḥ ǀ āyata ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁna ǀ vepasā ǀ na ǀ tanyatā ǀ indram ǀ vṛtraḥ ǀ vi ǀ bībhayat ǀ
abhi ǀ enam ǀ vajraḥ ǀ āyasaḥ ǀ sahasra-bhṛṣṭiḥ ǀ āyata ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.12 Aṣṭaka 1.5.31.2Anuvāka 1.13.53
-
Ṛk 13
यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः ।
अहि॑मिंद्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्यं॑ ॥यद् वृत्रं तव चाशनिं वज्रेण समयोधयः |
अहिम् इन्द्र जिघांसतो दिवि ते बद्बधे शवो ऽर्चन्न् अनु स्वराज्यम् ||yádvṛtrám táva cāśánim vájreṇa samáyodhayaḥ ǀ
áhimindra jíghāṃsato diví te badbadhe śávó’rcannánu svarā́jyam ǁyad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ |
ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam ||यत् । वृ॒त्रम् । तव॑ । च॒ । अ॒शनि॑म् । वज्रे॑ण । स॒म्ऽअयो॑धयः ।
अहि॑म् । इ॒न्द्र॒ । जिघां॑सतः । दि॒वि । ते॒ । ब॒द्ब॒धे॒ । शवः॑ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥यत् । वृत्रम् । तव । च । अशनिम् । वज्रेण । सम्ऽअयोधयः ।
अहिम् । इन्द्र । जिघांसतः । दिवि । ते । बद्बधे । शवः । अर्चन् । अनु । स्वऽराज्यम् ॥yát ǀ vṛtrám ǀ táva ǀ ca ǀ aśánim ǀ vájreṇa ǀ sam-áyodhayaḥ ǀ
áhim ǀ indra ǀ jíghāṃsataḥ ǀ diví ǀ te ǀ badbadhe ǀ śávaḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁyat ǀ vṛtram ǀ tava ǀ ca ǀ aśanim ǀ vajreṇa ǀ sam-ayodhayaḥ ǀ
ahim ǀ indra ǀ jighāṃsataḥ ǀ divi ǀ te ǀ badbadhe ǀ śavaḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.13 Aṣṭaka 1.5.31.3Anuvāka 1.13.54
-
Ṛk 14
अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते ।
त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इंद्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्यं॑ ॥अभिष्टने ते अद्रिवो यत् स्था जगच् च रेजते |
त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न् अनु स्वराज्यम् ||abhiṣṭané te adrivo yátsthā́ jágacca rejate ǀ
tváṣṭā cittáva manyáva índra vevijyáte bhiyā́rcannánu svarā́jyam ǁabhiṣṭane te adrivo yat sthā jagac ca rejate |
tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam ||अ॒भि॒ऽस्त॒ने । ते॒ । अ॒द्रि॒ऽवः॒ । यत् । स्थाः । जग॑त् । च॒ । रे॒ज॒ते॒ ।
त्वष्टा॑ । चि॒त् । तव॑ । म॒न्यवे॑ । इन्द्र॑ । वे॒वि॒ज्यते॑ । भि॒या । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥अभिऽस्तने । ते । अद्रिऽवः । यत् । स्थाः । जगत् । च । रेजते ।
त्वष्टा । चित् । तव । मन्यवे । इन्द्र । वेविज्यते । भिया । अर्चन् । अनु । स्वऽराज्यम् ॥abhi-stané ǀ te ǀ adri-vaḥ ǀ yát ǀ sthā́ḥ ǀ jágat ǀ ca ǀ rejate ǀ
tváṣṭā ǀ cit ǀ táva ǀ manyáve ǀ índra ǀ vevijyáte ǀ bhiyā́ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁabhi-stane ǀ te ǀ adri-vaḥ ǀ yat ǀ sthāḥ ǀ jagat ǀ ca ǀ rejate ǀ
tvaṣṭā ǀ cit ǀ tava ǀ manyave ǀ indra ǀ vevijyate ǀ bhiyā ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.14 Aṣṭaka 1.5.31.4Anuvāka 1.13.55
-
Ṛk 15
न॒हि नु याद॑धी॒मसींद्रं॒ को वी॒र्या॑ प॒रः ।
तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्यं॑ ॥नहि नु याद् अधीमसीन्द्रं को वीर्या परः |
तस्मिन् नृम्णम् उत क्रतुं देवा ओजांसि सं दधुर् अर्चन्न् अनु स्वराज्यम् ||nahí nú yā́dadhīmásī́ndram kó vīryā́ paráḥ ǀ
tásminnṛmṇámutá krátum devā́ ójāṃsi sám dadhurárcannánu svarā́jyam ǁnahi nu yād adhīmasīndraṃ ko vīryā paraḥ |
tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam ||न॒हि । नु । यात् । अ॒धि॒ऽइ॒मसि॑ । इन्द्र॑म् । कः । वी॒र्या॑ । प॒रः ।
तस्मि॑न् । नृ॒म्णम् । उ॒त । क्रतु॑म् । दे॒वाः । ओजां॑सि । सम् । द॒धुः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥नहि । नु । यात् । अधिऽइमसि । इन्द्रम् । कः । वीर्या । परः ।
तस्मिन् । नृम्णम् । उत । क्रतुम् । देवाः । ओजांसि । सम् । दधुः । अर्चन् । अनु । स्वऽराज्यम् ॥nahí ǀ nú ǀ yā́t ǀ adhi-imási ǀ índram ǀ káḥ ǀ vīryā́ ǀ paráḥ ǀ
tásmin ǀ nṛmṇám ǀ utá ǀ krátum ǀ devā́ḥ ǀ ójāṃsi ǀ sám ǀ dadhuḥ ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁnahi ǀ nu ǀ yāt ǀ adhi-imasi ǀ indram ǀ kaḥ ǀ vīryā ǀ paraḥ ǀ
tasmin ǀ nṛmṇam ǀ uta ǀ kratum ǀ devāḥ ǀ ojāṃsi ǀ sam ǀ dadhuḥ ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.15 Aṣṭaka 1.5.31.5Anuvāka 1.13.56
-
Ṛk 16
यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ् धिय॒मत्न॑त ।
तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेंद्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्यं॑ ॥याम् अथर्वा मनुष् पिता दध्यङ् धियम् अत्नत |
तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु स्वराज्यम् ||yā́mátharvā mánuṣpitā́ dadhyáṅ dhíyamátnata ǀ
tásminbráhmāṇi pūrváthéndra ukthā́ sámagmatā́rcannánu svarā́jyam ǁyām atharvā manuṣ pitā dadhyaṅ dhiyam atnata |
tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam ||याम् । अथ॑र्वा । मनुः॑ । पि॒ता । द॒ध्यङ् । धिय॑म् । अत्न॑त ।
तस्मि॑न् । ब्रह्मा॑णि । पू॒र्वऽथा॑ । इन्द्रे॑ । उ॒क्था । सम् । अ॒ग्म॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥याम् । अथर्वा । मनुः । पिता । दध्यङ् । धियम् । अत्नत ।
तस्मिन् । ब्रह्माणि । पूर्वऽथा । इन्द्रे । उक्था । सम् । अग्मत । अर्चन् । अनु । स्वऽराज्यम् ॥yā́m ǀ átharvā ǀ mánuḥ ǀ pitā́ ǀ dadhyáṅ ǀ dhíyam ǀ átnata ǀ
tásmin ǀ bráhmāṇi ǀ pūrvá-thā ǀ índre ǀ ukthā́ ǀ sám ǀ agmata ǀ árcan ǀ ánu ǀ sva-rā́jyam ǁyām ǀ atharvā ǀ manuḥ ǀ pitā ǀ dadhyaṅ ǀ dhiyam ǀ atnata ǀ
tasmin ǀ brahmāṇi ǀ pūrva-thā ǀ indre ǀ ukthā ǀ sam ǀ agmata ǀ arcan ǀ anu ǀ sva-rājyam ǁ1.80.16 Aṣṭaka 1.5.31.6Anuvāka 1.13.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.