Ṛgveda · Maṇḍala 1

Sūkta 137

Mitra, Varuṇa · Parucchepa Daivodāsi · 3 ṛks

Link
Devatā देवता
Mitra, Varuṇa
Ṛṣi ऋषि
Parucchepa Daivodāsi
Chandas छन्दस्
Atiśakvarī
Metres by ṛk

1st set of styles nicṛdatiśakvarī (1); virāḍatiśakvarī (2); bhurikśakvarī (3)

2nd set of styles atiśakvarī

  1. Ṛk 1

    सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे ।
    आ रा॑जाना दिविस्पृशास्म॒त्रा गं॑त॒मुप॑ नः ।
    इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिरः॒ सोमाः॑ शु॒क्रा गवा॑शिरः ॥

    सुषुमा यातम् अद्रिभिर् गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे |
    आ राजाना दिविस्पृशास्मत्रा गन्तम् उप नः |
    इमे वाम् मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ||

    suṣumā́ yātamádribhirgóśrītā matsarā́ imé sómāso matsarā́ imé ǀ
    ā́ rājānā divispṛśāsmatrā́ gantamúpa naḥ ǀ
    imé vām mitrāvaruṇā gávāśiraḥ sómāḥ śukrā́ gávāśiraḥ ǁ

    suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime |
    ā rājānā divispṛśāsmatrā gantam upa naḥ |
    ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ ||

    सु॒सु॒म । आ । या॒त॒म् । अद्रि॑ऽभिः । गोऽश्री॑ताः । म॒त्स॒राः । इ॒मे । सोमा॑सः । म॒त्स॒राः । इ॒मे ।
    आ । रा॒जा॒ना॒ । दि॒वि॒ऽस्पृ॒शा॒ । अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ ।
    इ॒मे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । गोऽआ॑शिरः । सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥

    सुसुम । आ । यातम् । अद्रिऽभिः । गोऽश्रीताः । मत्सराः । इमे । सोमासः । मत्सराः । इमे ।
    आ । राजाना । दिविऽस्पृशा । अस्मऽत्रा । गन्तम् । उप । नः ।
    इमे । वाम् । मित्रावरुणा । गोऽआशिरः । सोमाः । शुक्राः । गोऽआशिरः ॥

    susumá ǀ ā́ ǀ yātam ǀ ádri-bhiḥ ǀ gó-śrītāḥ ǀ matsarā́ḥ ǀ imé ǀ sómāsaḥ ǀ matsarā́ḥ ǀ imé ǀ
    ā́ ǀ rājānā ǀ divi-spṛśā ǀ asma-trā́ ǀ gantam ǀ úpa ǀ naḥ ǀ
    imé ǀ vām ǀ mitrāvaruṇā ǀ gó-āśiraḥ ǀ sómāḥ ǀ śukrā́ḥ ǀ gó-āśiraḥ ǁ

    susuma ǀ ā ǀ yātam ǀ adri-bhiḥ ǀ go-śrītāḥ ǀ matsarāḥ ǀ ime ǀ somāsaḥ ǀ matsarāḥ ǀ ime ǀ
    ā ǀ rājānā ǀ divi-spṛśā ǀ asma-trā ǀ gantam ǀ upa ǀ naḥ ǀ
    ime ǀ vām ǀ mitrāvaruṇā ǀ go-āśiraḥ ǀ somāḥ ǀ śukrāḥ ǀ go-āśiraḥ ǁ

    1.137.1 Aṣṭaka 2.2.1.0

  2. Ṛk 2

    इ॒म आ या॑त॒मिंद॑वः॒ सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः ।
    उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ।
    सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥

    इम आ यातम् इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः |
    उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः |
    सुतो मित्राय वरुणाय पीतये चारुर् ऋताय पीतये ||

    imá ā́ yātamíndavaḥ sómāso dádhyāśiraḥ sutā́so dádhyāśiraḥ ǀ
    utá vāmuṣáso budhí sākám sū́ryasya raśmíbhiḥ ǀ
    sutó mitrā́ya váruṇāya pītáye cā́rurṛtā́ya pītáye ǁ

    ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ |
    uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ |
    suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye ||

    इ॒मे । आ । या॒त॒म् । इन्द॑वः । सोमा॑सः । दधि॑ऽआशिरः । सु॒तासः॑ । दधि॑ऽआशिरः ।
    उ॒त । वा॒म् । उ॒षसः॑ । बु॒धि । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ।
    सु॒तः । मि॒त्राय॑ । वरु॑णाय । पी॒तये॑ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥

    इमे । आ । यातम् । इन्दवः । सोमासः । दधिऽआशिरः । सुतासः । दधिऽआशिरः ।
    उत । वाम् । उषसः । बुधि । साकम् । सूर्यस्य । रश्मिऽभिः ।
    सुतः । मित्राय । वरुणाय । पीतये । चारुः । ऋताय । पीतये ॥

    imé ǀ ā́ ǀ yātam ǀ índavaḥ ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ sutā́saḥ ǀ dádhi-āśiraḥ ǀ
    utá ǀ vām ǀ uṣásaḥ ǀ budhí ǀ sākám ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ
    sutáḥ ǀ mitrā́ya ǀ váruṇāya ǀ pītáye ǀ cā́ruḥ ǀ ṛtā́ya ǀ pītáye ǁ

    ime ǀ ā ǀ yātam ǀ indavaḥ ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ sutāsaḥ ǀ dadhi-āśiraḥ ǀ
    uta ǀ vām ǀ uṣasaḥ ǀ budhi ǀ sākam ǀ sūryasya ǀ raśmi-bhiḥ ǀ
    sutaḥ ǀ mitrāya ǀ varuṇāya ǀ pītaye ǀ cāruḥ ǀ ṛtāya ǀ pītaye ǁ

    1.137.2 Aṣṭaka 2.2.1.0

  3. Ṛk 3

    तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑हं॒त्यद्रि॑भिः॒ सोमं॑ दुहं॒त्यद्रि॑भिः ।
    अ॒स्म॒त्रा गं॑त॒मुप॑ नो॒ऽर्वांचा॒ सोम॑पीतये ।
    अ॒यं वां॑ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥

    तां वां धेनुं न वासरीम् अंशुं दुहन्त्य् अद्रिभिः सोमं दुहन्त्य् अद्रिभिः |
    अस्मत्रा गन्तम् उप नो ऽर्वाञ्चा सोमपीतये |
    अयं वाम् मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ||

    tā́m vām dhenúm ná vāsarī́maṃśúm duhantyádribhiḥ sómam duhantyádribhiḥ ǀ
    asmatrā́ gantamúpa no’rvā́ñcā sómapītaye ǀ
    ayám vām mitrāvaruṇā nṛ́bhiḥ sutáḥ sóma ā́ pītáye sutáḥ ǁ

    tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ |
    asmatrā gantam upa no 'rvāñcā somapītaye |
    ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ ||

    ताम् । वा॒म् । धे॒नुम् । न । वा॒स॒रीम् । अं॒शुम् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः । सोम॑म् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः ।
    अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ । अ॒र्वाञ्चा॑ । सोम॑ऽपीतये ।
    अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । नृऽभिः॑ । सु॒तः । सोमः॑ । आ । पी॒तये॑ । सु॒तः ॥

    ताम् । वाम् । धेनुम् । न । वासरीम् । अंशुम् । दुहन्ति । अद्रिऽभिः । सोमम् । दुहन्ति । अद्रिऽभिः ।
    अस्मऽत्रा । गन्तम् । उप । नः । अर्वाञ्चा । सोमऽपीतये ।
    अयम् । वाम् । मित्रावरुणा । नृऽभिः । सुतः । सोमः । आ । पीतये । सुतः ॥

    tā́m ǀ vām ǀ dhenúm ǀ ná ǀ vāsarī́m ǀ aṃśúm ǀ duhanti ǀ ádri-bhiḥ ǀ sómam ǀ duhanti ǀ ádri-bhiḥ ǀ
    asma-trā́ ǀ gantam ǀ úpa ǀ naḥ ǀ arvā́ñcā ǀ sóma-pītaye ǀ
    ayám ǀ vām ǀ mitrāvaruṇā ǀ nṛ́-bhiḥ ǀ sutáḥ ǀ sómaḥ ǀ ā́ ǀ pītáye ǀ sutáḥ ǁ

    tām ǀ vām ǀ dhenum ǀ na ǀ vāsarīm ǀ aṃśum ǀ duhanti ǀ adri-bhiḥ ǀ somam ǀ duhanti ǀ adri-bhiḥ ǀ
    asma-trā ǀ gantam ǀ upa ǀ naḥ ǀ arvāñcā ǀ soma-pītaye ǀ
    ayam ǀ vām ǀ mitrāvaruṇā ǀ nṛ-bhiḥ ǀ sutaḥ ǀ somaḥ ǀ ā ǀ pītaye ǀ sutaḥ ǁ

    1.137.3 Aṣṭaka 2.2.1.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.137 · Mitra, Varuṇa

Interpretations

Ralph T. H. Griffith

Ṛk 1

WITH stones have we pressed out: O come; these gladdening drops are blent with milk, these Soma-drops which gladden you. Come to us, Kings who reach to heaven, approach us, coming hitherward. These milky drops are yours, Mitra and Varuṇa, bright Soma juices blent with milk.

Ṛk 2

Here are the droppings; come ye nigh the Soma-droppings blent with curd, juices expressed and blent with curd. Now for the wakening of your Dawn together with the Sun-God's rays, juice waits for Mitra and for Varuṇa to drink, fair juice for drink, for sacrifice.