Sūkta 101
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles virāḍjagatī (2, 5, 7); nicṛjjagatī (1, 4); nicṛttriṣṭup (8, 10); triṣṭup (9, 11); bhuriktriṣṭup (3); svarāṭtriṣṭup (6)
2nd set of styles jagatī (1-7); triṣṭubh (8-11)
-
Ṛk 1
प्र मं॒दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना ।
अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥प्र मन्दिने पितुमद् अर्चता वचो यः कृष्णगर्भा निरहन्न् ऋजिश्वना |
अवस्यवो वृषणं वज्रदक्षिणम् मरुत्वन्तं सख्याय हवामहे ||prá mandíne pitumádarcatā váco yáḥ kṛṣṇágarbhā niráhannṛjíśvanā ǀ
avasyávo vṛ́ṣaṇam vájradakṣiṇam marútvantam sakhyā́ya havāmahe ǁpra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā |
avasyavo vṛṣaṇaṃ vajradakṣiṇam marutvantaṃ sakhyāya havāmahe ||प्र । म॒न्दिने॑ । पि॒तु॒ऽमत् । अ॒र्च॒त॒ । वचः॑ । यः । कृ॒ष्णऽग॑र्भाः । निः॒ऽअह॑न् । ऋ॒जिश्व॑ना ।
अ॒व॒स्यवः॑ । वृष॑णम् । वज्र॑ऽदक्षिणम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥प्र । मन्दिने । पितुऽमत् । अर्चत । वचः । यः । कृष्णऽगर्भाः । निःऽअहन् । ऋजिश्वना ।
अवस्यवः । वृषणम् । वज्रऽदक्षिणम् । मरुत्वन्तम् । सख्याय । हवामहे ॥prá ǀ mandíne ǀ pitu-mát ǀ arcata ǀ vácaḥ ǀ yáḥ ǀ kṛṣṇá-garbhāḥ ǀ niḥ-áhan ǀ ṛjíśvanā ǀ
avasyávaḥ ǀ vṛ́ṣaṇam ǀ vájra-dakṣiṇam ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁpra ǀ mandine ǀ pitu-mat ǀ arcata ǀ vacaḥ ǀ yaḥ ǀ kṛṣṇa-garbhāḥ ǀ niḥ-ahan ǀ ṛjiśvanā ǀ
avasyavaḥ ǀ vṛṣaṇam ǀ vajra-dakṣiṇam ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ1.101.1 Aṣṭaka 1.7.12.1Anuvāka 1.15.68
-
Ṛk 2
यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शंब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तं ।
इंद्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुम् अव्रतम् |
इन्द्रो यः शुष्णम् अशुषं न्य् आवृणङ् मरुत्वन्तं सख्याय हवामहे ||yó vyáṃsam jāhṛṣāṇéna manyúnā yáḥ śámbaram yó áhanpíprumavratám ǀ
índro yáḥ śúṣṇamaśúṣam nyā́vṛṇaṅmarútvantam sakhyā́ya havāmahe ǁyo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam |
indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe ||यः । विऽअं॑सम् । ज॒हृ॒षा॒णेन॑ । म॒न्युना॑ । यः । शम्ब॑रम् । यः । अह॑न् । पिप्रु॑म् । अ॒व्र॒तम् ।
इन्द्रः॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । नि । अवृ॑णक् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यः । विऽअंसम् । जहृषाणेन । मन्युना । यः । शम्बरम् । यः । अहन् । पिप्रुम् । अव्रतम् ।
इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥yáḥ ǀ ví-aṃsam ǀ jahṛṣāṇéna ǀ manyúnā ǀ yáḥ ǀ śámbaram ǀ yáḥ ǀ áhan ǀ píprum ǀ avratám ǀ
índraḥ ǀ yáḥ ǀ śúṣṇam ǀ aśúṣam ǀ ní ǀ ávṛṇak ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁyaḥ ǀ vi-aṃsam ǀ jahṛṣāṇena ǀ manyunā ǀ yaḥ ǀ śambaram ǀ yaḥ ǀ ahan ǀ piprum ǀ avratam ǀ
indraḥ ǀ yaḥ ǀ śuṣṇam ǀ aśuṣam ǀ ni ǀ avṛṇak ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ1.101.2 Aṣṭaka 1.7.12.2Anuvāka 1.15.69
-
Ṛk 3
यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ ।
यस्येंद्र॑स्य॒ सिंध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥यस्य द्यावापृथिवी पौंस्यम् महद् यस्य व्रते वरुणो यस्य सूर्यः |
यस्येन्द्रस्य सिन्धवः सश्चति व्रतम् मरुत्वन्तं सख्याय हवामहे ||yásya dyā́vāpṛthivī́ páuṃsyam mahádyásya vraté váruṇo yásya sū́ryaḥ ǀ
yásyéndrasya síndhavaḥ sáścati vratám marútvantam sakhyā́ya havāmahe ǁyasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ |
yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe ||यस्य॑ । द्यावा॑पृथि॒वी इति॑ । पौंस्य॑म् । म॒हत् । यस्य॑ । व्र॒ते । वरु॑णः । यस्य॑ । सूर्यः॑ ।
यस्य॑ । इन्द्र॑स्य । सिन्ध॑वः । सश्च॑ति । व्र॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यस्य । द्यावापृथिवी इति । पौंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य । सूर्यः ।
यस्य । इन्द्रस्य । सिन्धवः । सश्चति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥yásya ǀ dyā́vāpṛthivī́ íti ǀ páuṃsyam ǀ mahát ǀ yásya ǀ vraté ǀ váruṇaḥ ǀ yásya ǀ sū́ryaḥ ǀ
yásya ǀ índrasya ǀ síndhavaḥ ǀ sáścati ǀ vratám ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁyasya ǀ dyāvāpṛthivī iti ǀ pauṃsyam ǀ mahat ǀ yasya ǀ vrate ǀ varuṇaḥ ǀ yasya ǀ sūryaḥ ǀ
yasya ǀ indrasya ǀ sindhavaḥ ǀ saścati ǀ vratam ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ1.101.3 Aṣṭaka 1.7.12.3Anuvāka 1.15.70
-
Ṛk 4
यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः ।
वी॒ळोश्चि॒दिंद्रो॒ यो असु॑न्वतो व॒धो म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥यो अश्वानां यो गवां गोपतिर् वशी य आरितः कर्मणि-कर्मणि स्थिरः |
वीऌओश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ||yó áśvānām yó gávām gópatirvaśī́ yá āritáḥ kármaṇikarmaṇi sthiráḥ ǀ
vīḷóścidíndro yó ásunvato vadhó marútvantam sakhyā́ya havāmahe ǁyo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi-karmaṇi sthiraḥ |
vīḷoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe ||यः । अश्वा॑नाम् । यः । गवा॑म् । गोऽप॑तिः । व॒शी । यः । आ॒रि॒तः । कर्म॑णिऽकर्मणि । स्थि॒रः ।
वी॒ळोः । चि॒त् । इन्द्रः॑ । यः । असु॑न्वतः । व॒धः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यः । अश्वानाम् । यः । गवाम् । गोऽपतिः । वशी । यः । आरितः । कर्मणिऽकर्मणि । स्थिरः ।
वीळोः । चित् । इन्द्रः । यः । असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥yáḥ ǀ áśvānām ǀ yáḥ ǀ gávām ǀ gó-patiḥ ǀ vaśī́ ǀ yáḥ ǀ āritáḥ ǀ kármaṇi-karmaṇi ǀ sthiráḥ ǀ
vīḷóḥ ǀ cit ǀ índraḥ ǀ yáḥ ǀ ásunvataḥ ǀ vadháḥ ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁyaḥ ǀ aśvānām ǀ yaḥ ǀ gavām ǀ go-patiḥ ǀ vaśī ǀ yaḥ ǀ āritaḥ ǀ karmaṇi-karmaṇi ǀ sthiraḥ ǀ
vīḷoḥ ǀ cit ǀ indraḥ ǀ yaḥ ǀ asunvataḥ ǀ vadhaḥ ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ1.101.4 Aṣṭaka 1.7.12.4Anuvāka 1.15.71
-
Ṛk 5
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अविं॑दत् ।
इंद्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥यो विश्वस्य जगतः प्राणतस् पतिर् यो ब्रह्मणे प्रथमो गा अविन्दत् |
इन्द्रो यो दस्यूंर् अधरां अवातिरन् मरुत्वन्तं सख्याय हवामहे ||yó víśvasya jágataḥ prāṇatáspátiryó brahmáṇe prathamó gā́ ávindat ǀ
índro yó dásyūm̐rádharām̐ avā́tiranmarútvantam sakhyā́ya havāmahe ǁyo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat |
indro yo dasyūṃr adharāṃ avātiran marutvantaṃ sakhyāya havāmahe ||यः । विश्व॑स्य । जग॑तः । प्रा॒ण॒तः । पतिः॑ । यः । ब्र॒ह्मणे॑ । प्र॒थ॒मः । गाः । अवि॑न्दत् ।
इन्द्रः॑ । यः । दस्यू॑न् । अध॑रान् । अ॒व॒ऽअति॑रत् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यः । विश्वस्य । जगतः । प्राणतः । पतिः । यः । ब्रह्मणे । प्रथमः । गाः । अविन्दत् ।
इन्द्रः । यः । दस्यून् । अधरान् । अवऽअतिरत् । मरुत्वन्तम् । सख्याय । हवामहे ॥yáḥ ǀ víśvasya ǀ jágataḥ ǀ prāṇatáḥ ǀ pátiḥ ǀ yáḥ ǀ brahmáṇe ǀ prathamáḥ ǀ gā́ḥ ǀ ávindat ǀ
índraḥ ǀ yáḥ ǀ dásyūn ǀ ádharān ǀ ava-átirat ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁyaḥ ǀ viśvasya ǀ jagataḥ ǀ prāṇataḥ ǀ patiḥ ǀ yaḥ ǀ brahmaṇe ǀ prathamaḥ ǀ gāḥ ǀ avindat ǀ
indraḥ ǀ yaḥ ǀ dasyūn ǀ adharān ǀ ava-atirat ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ1.101.5 Aṣṭaka 1.7.12.5Anuvāka 1.15.72
-
Ṛk 6
यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ ।
इंद्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर् हूयते यश् च जिग्युभिः |
इन्द्रं यं विश्वा भुवनाभि संदधुर् मरुत्वन्तं सख्याय हवामहे ||yáḥ śū́rebhirhávyo yáśca bhīrúbhiryó dhā́vadbhirhūyáte yáśca jigyúbhiḥ ǀ
índram yám víśvā bhúvanābhí saṃdadhúrmarútvantam sakhyā́ya havāmahe ǁyaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ |
indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe ||यः । शूरे॑भिः । हव्यः॑ । यः । च॒ । भी॒रुऽभिः॑ । यः । धाव॑त्ऽभिः । हू॒यते॑ । यः । च॒ । जि॒ग्युभिः॑ ।
इन्द्र॑म् । यम् । विश्वा॑ । भुव॑ना । अ॒भि । स॒म्ऽद॒धुः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यः । शूरेभिः । हव्यः । यः । च । भीरुऽभिः । यः । धावत्ऽभिः । हूयते । यः । च । जिग्युभिः ।
इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्ऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥yáḥ ǀ śū́rebhiḥ ǀ hávyaḥ ǀ yáḥ ǀ ca ǀ bhīrú-bhiḥ ǀ yáḥ ǀ dhā́vat-bhiḥ ǀ hūyáte ǀ yáḥ ǀ ca ǀ jigyúbhiḥ ǀ
índram ǀ yám ǀ víśvā ǀ bhúvanā ǀ abhí ǀ sam-dadhúḥ ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁyaḥ ǀ śūrebhiḥ ǀ havyaḥ ǀ yaḥ ǀ ca ǀ bhīru-bhiḥ ǀ yaḥ ǀ dhāvat-bhiḥ ǀ hūyate ǀ yaḥ ǀ ca ǀ jigyubhiḥ ǀ
indram ǀ yam ǀ viśvā ǀ bhuvanā ǀ abhi ǀ sam-dadhuḥ ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ1.101.6 Aṣṭaka 1.7.12.6Anuvāka 1.15.73
-
Ṛk 7
रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ ।
इंद्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥रुद्राणाम् एति प्रदिशा विचक्षणो रुद्रेभिर् योषा तनुते पृथु ज्रयः |
इन्द्रम् मनीषा अभ्य् अर्चति श्रुतम् मरुत्वन्तं सख्याय हवामहे ||rudrā́ṇāmeti pradíśā vicakṣaṇó rudrébhiryóṣā tanute pṛthú jráyaḥ ǀ
índram manīṣā́ abhyárcati śrutám marútvantam sakhyā́ya havāmahe ǁrudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ |
indram manīṣā abhy arcati śrutam marutvantaṃ sakhyāya havāmahe ||रु॒द्राणा॑म् । ए॒ति॒ । प्र॒ऽदिशा॑ । वि॒ऽच॒क्ष॒णः । रु॒द्रेभिः॑ । योषा॑ । त॒नु॒ते॒ । पृ॒थु । ज्रयः॑ ।
इन्द्र॑म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥रुद्राणाम् । एति । प्रऽदिशा । विऽचक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । ज्रयः ।
इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥rudrā́ṇām ǀ eti ǀ pra-díśā ǀ vi-cakṣaṇáḥ ǀ rudrébhiḥ ǀ yóṣā ǀ tanute ǀ pṛthú ǀ jráyaḥ ǀ
índram ǀ manīṣā́ ǀ abhí ǀ arcati ǀ śrutám ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁrudrāṇām ǀ eti ǀ pra-diśā ǀ vi-cakṣaṇaḥ ǀ rudrebhiḥ ǀ yoṣā ǀ tanute ǀ pṛthu ǀ jrayaḥ ǀ
indram ǀ manīṣā ǀ abhi ǀ arcati ǀ śrutam ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ1.101.7 Aṣṭaka 1.7.13.1Anuvāka 1.15.74
-
Ṛk 8
यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से ।
अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने मादयासे |
अत आ याह्य् अध्वरं नो अच्छा त्वाया हविश् चकृमा सत्यराधः ||yádvā marutvaḥ paramé sadhásthe yádvāvamé vṛjáne mādáyāse ǀ
áta ā́ yāhyadhvarám no ácchā tvāyā́ havíścakṛmā satyarādhaḥ ǁyad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse |
ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ ||यत् । वा॒ । म॒रु॒त्वः॒ । प॒र॒मे । स॒धऽस्थे॑ । यत् । वा॒ । अ॒व॒मे । वृ॒जने॑ । मा॒दया॑से ।
अतः॑ । आ । या॒हि॒ । अ॒ध्व॒रम् । नः॒ । अच्छ॑ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । स॒त्य॒ऽरा॒धः॒ ॥यत् । वा । मरुत्वः । परमे । सधऽस्थे । यत् । वा । अवमे । वृजने । मादयासे ।
अतः । आ । याहि । अध्वरम् । नः । अच्छ । त्वाऽया । हविः । चकृम । सत्यऽराधः ॥yát ǀ vā ǀ marutvaḥ ǀ paramé ǀ sadhá-sthe ǀ yát ǀ vā ǀ avamé ǀ vṛjáne ǀ mādáyāse ǀ
átaḥ ǀ ā́ ǀ yāhi ǀ adhvarám ǀ naḥ ǀ áccha ǀ tvā-yā́ ǀ havíḥ ǀ cakṛma ǀ satya-rādhaḥ ǁyat ǀ vā ǀ marutvaḥ ǀ parame ǀ sadha-sthe ǀ yat ǀ vā ǀ avame ǀ vṛjane ǀ mādayāse ǀ
ataḥ ǀ ā ǀ yāhi ǀ adhvaram ǀ naḥ ǀ accha ǀ tvā-yā ǀ haviḥ ǀ cakṛma ǀ satya-rādhaḥ ǁ1.101.8 Aṣṭaka 1.7.13.2Anuvāka 1.15.75
-
Ṛk 9
त्वा॒येंद्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः ।
अधा॑ नियुत्वः॒ सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश् चकृमा ब्रह्मवाहः |
अधा नियुत्वः सगणो मरुद्भिर् अस्मिन् यज्ञे बर्हिषि मादयस्व ||tvāyéndra sómam suṣumā sudakṣa tvāyā́ havíścakṛmā brahmavāhaḥ ǀ
ádhā niyutvaḥ ságaṇo marúdbhirasmínyajñé barhíṣi mādayasva ǁtvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ |
adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva ||त्वा॒ऽया । इ॒न्द्र॒ । सोम॑म् । सु॒सु॒म॒ । सु॒ऽद॒क्ष॒ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । ब्र॒ह्म॒ऽवा॒हः॒ ।
अध॑ । नि॒यु॒त्वः॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ ॥त्वाऽया । इन्द्र । सोमम् । सुसुम । सुऽदक्ष । त्वाऽया । हविः । चकृम । ब्रह्मऽवाहः ।
अध । नियुत्वः । सऽगणः । मरुत्ऽभिः । अस्मिन् । यज्ञे । बर्हिषि । मादयस्व ॥tvā-yā́ ǀ indra ǀ sómam ǀ susuma ǀ su-dakṣa ǀ tvā-yā́ ǀ havíḥ ǀ cakṛma ǀ brahma-vāhaḥ ǀ
ádha ǀ niyutvaḥ ǀ sá-gaṇaḥ ǀ marút-bhiḥ ǀ asmín ǀ yajñé ǀ barhíṣi ǀ mādayasva ǁtvā-yā ǀ indra ǀ somam ǀ susuma ǀ su-dakṣa ǀ tvā-yā ǀ haviḥ ǀ cakṛma ǀ brahma-vāhaḥ ǀ
adha ǀ niyutvaḥ ǀ sa-gaṇaḥ ǀ marut-bhiḥ ǀ asmin ǀ yajñe ǀ barhiṣi ǀ mādayasva ǁ1.101.9 Aṣṭaka 1.7.13.3Anuvāka 1.15.76
-
Ṛk 10
मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इंद्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ ।
आ त्वा॑ सुशिप्र॒ हर॑यो वहंतू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥मादयस्व हरिभिर् ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने |
आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो जुषस्व ||mādáyasva háribhiryé ta indra ví ṣyasva śípre ví sṛjasva dhéne ǀ
ā́ tvā suśipra hárayo vahantūśánhavyā́ni práti no juṣasva ǁmādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene |
ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva ||मा॒दय॑स्व । हरि॑ऽभिः । ये । ते॒ । इ॒न्द्र॒ । वि । स्य॒स्व॒ । शिप्रे॒ इति॑ । वि । सृ॒ज॒स्व॒ । धेने॒ इति॑ ।
आ । त्वा॒ । सु॒ऽशि॒प्र॒ । हर॑यः । व॒ह॒न्तु॒ । उ॒शन् । ह॒व्यानि॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥मादयस्व । हरिऽभिः । ये । ते । इन्द्र । वि । स्यस्व । शिप्रे इति । वि । सृजस्व । धेने इति ।
आ । त्वा । सुऽशिप्र । हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व ॥mādáyasva ǀ hári-bhiḥ ǀ yé ǀ te ǀ indra ǀ ví ǀ syasva ǀ śípre íti ǀ ví ǀ sṛjasva ǀ dhéne íti ǀ
ā́ ǀ tvā ǀ su-śipra ǀ hárayaḥ ǀ vahantu ǀ uśán ǀ havyā́ni ǀ práti ǀ naḥ ǀ juṣasva ǁmādayasva ǀ hari-bhiḥ ǀ ye ǀ te ǀ indra ǀ vi ǀ syasva ǀ śipre iti ǀ vi ǀ sṛjasva ǀ dhene iti ǀ
ā ǀ tvā ǀ su-śipra ǀ harayaḥ ǀ vahantu ǀ uśan ǀ havyāni ǀ prati ǀ naḥ ǀ juṣasva ǁ1.101.10 Aṣṭaka 1.7.13.4Anuvāka 1.15.77
-
Ṛk 11
म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिंद्रे॑ण सनुयाम॒ वाजं॑ ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥मरुत्स्तोत्रस्य वृजनस्य गोपा वयम् इन्द्रेण सनुयाम वाजम् |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||marútstotrasya vṛjánasya gopā́ vayámíndreṇa sanuyāma vā́jam ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁmarutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||म॒रुत्ऽस्तो॑त्रस्य । वृ॒जन॑स्य । गो॒पाः । व॒यम् । इन्द्रे॑ण । स॒नु॒या॒म॒ । वाज॑म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥मरुत्ऽस्तोत्रस्य । वृजनस्य । गोपाः । वयम् । इन्द्रेण । सनुयाम । वाजम् ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥marút-stotrasya ǀ vṛjánasya ǀ gopā́ḥ ǀ vayám ǀ índreṇa ǀ sanuyāma ǀ vā́jam ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁmarut-stotrasya ǀ vṛjanasya ǀ gopāḥ ǀ vayam ǀ indreṇa ǀ sanuyāma ǀ vājam ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.101.11 Aṣṭaka 1.7.13.5Anuvāka 1.15.78
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.