Sūkta 59
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (5-7); virāṭtrisṭup (2, 4); nicṛttriṣṭup (1); paṅktiḥ (3)
2nd set of styles triṣṭubh
-
Ṛk 1
व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयंते ।
वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यंथ ॥वया इद् अग्ने अग्नयस् ते अन्ये त्वे विश्वे अमृता मादयन्ते |
वैश्वानर नाभिर् असि क्षितीनां स्थूणेव जनां उपमिद् ययन्थ ||vayā́ ídagne agnáyaste anyé tvé víśve amṛ́tā mādayante ǀ
váiśvānara nā́bhirasi kṣitīnā́m sthū́ṇeva jánām̐ upamídyayantha ǁvayā id agne agnayas te anye tve viśve amṛtā mādayante |
vaiśvānara nābhir asi kṣitīnāṃ sthūṇeva janāṃ upamid yayantha ||व॒याः । इत् । अ॒ग्ने॒ । अ॒ग्नयः॑ । ते॒ । अ॒न्ये । त्वे इति॑ । विश्वे॑ । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ।
वैश्वा॑नर । नाभिः॑ । अ॒सि॒ । क्षि॒ती॒नाम् । स्थूणा॑ऽइव । जना॑न् । उ॒प॒ऽमित् । य॒य॒न्थ॒ ॥वयाः । इत् । अग्ने । अग्नयः । ते । अन्ये । त्वे इति । विश्वे । अमृताः । मादयन्ते ।
वैश्वानर । नाभिः । असि । क्षितीनाम् । स्थूणाऽइव । जनान् । उपऽमित् । ययन्थ ॥vayā́ḥ ǀ ít ǀ agne ǀ agnáyaḥ ǀ te ǀ anyé ǀ tvé íti ǀ víśve ǀ amṛ́tāḥ ǀ mādayante ǀ
váiśvānara ǀ nā́bhiḥ ǀ asi ǀ kṣitīnā́m ǀ sthū́ṇā-iva ǀ jánān ǀ upa-mít ǀ yayantha ǁvayāḥ ǀ it ǀ agne ǀ agnayaḥ ǀ te ǀ anye ǀ tve iti ǀ viśve ǀ amṛtāḥ ǀ mādayante ǀ
vaiśvānara ǀ nābhiḥ ǀ asi ǀ kṣitīnām ǀ sthūṇā-iva ǀ janān ǀ upa-mit ǀ yayantha ǁ1.59.1 Aṣṭaka 1.4.25.1Anuvāka 1.11.10
-
Ṛk 2
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः ।
तं त्वा॑ दे॒वासो॑ऽजनयंत दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती रोदस्योः |
तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिर् इद् आर्याय ||mūrdhā́ divó nā́bhiragníḥ pṛthivyā́ áthābhavadaratī́ ródasyoḥ ǀ
tám tvā devā́so’janayanta devám váiśvānara jyótirídā́ryāya ǁmūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ |
taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya ||मू॒र्धा । दि॒वः । नाभिः॑ । अ॒ग्निः । पृ॒थि॒व्याः । अथ॑ । अ॒भ॒व॒त् । अ॒र॒तिः । रोद॑स्योः ।
तम् । त्वा॒ । दे॒वासः॑ । अ॒ज॒न॒य॒न्त॒ । दे॒वम् । वैश्वा॑नर । ज्योतिः॑ । इत् । आर्या॑य ॥मूर्धा । दिवः । नाभिः । अग्निः । पृथिव्याः । अथ । अभवत् । अरतिः । रोदस्योः ।
तम् । त्वा । देवासः । अजनयन्त । देवम् । वैश्वानर । ज्योतिः । इत् । आर्याय ॥mūrdhā́ ǀ diváḥ ǀ nā́bhiḥ ǀ agníḥ ǀ pṛthivyā́ḥ ǀ átha ǀ abhavat ǀ aratíḥ ǀ ródasyoḥ ǀ
tám ǀ tvā ǀ devā́saḥ ǀ ajanayanta ǀ devám ǀ váiśvānara ǀ jyótiḥ ǀ ít ǀ ā́ryāya ǁmūrdhā ǀ divaḥ ǀ nābhiḥ ǀ agniḥ ǀ pṛthivyāḥ ǀ atha ǀ abhavat ǀ aratiḥ ǀ rodasyoḥ ǀ
tam ǀ tvā ǀ devāsaḥ ǀ ajanayanta ǀ devam ǀ vaiśvānara ǀ jyotiḥ ǀ it ǀ āryāya ǁ1.59.2 Aṣṭaka 1.4.25.2Anuvāka 1.11.11
-
Ṛk 3
आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि ।
या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ॥आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे ऽग्ना वसूनि |
या पर्वतेष्व् ओषधीष्व् अप्सु या मानुषेष्व् असि तस्य राजा ||ā́ sū́rye ná raśmáyo dhruvā́so vaiśvānaré dadhire’gnā́ vásūni ǀ
yā́ párvateṣvóṣadhīṣvapsú yā́ mā́nuṣeṣvási tásya rā́jā ǁā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni |
yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā ||आ । सूर्ये॑ । न । र॒श्मयः॑ । ध्रु॒वासः॑ । वै॒श्वा॒न॒रे । द॒धि॒रे॒ । अ॒ग्ना । वसू॑नि ।
या । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु । या । मानु॑षेषु । असि॑ । तस्य॑ । राजा॑ ॥आ । सूर्ये । न । रश्मयः । ध्रुवासः । वैश्वानरे । दधिरे । अग्ना । वसूनि ।
या । पर्वतेषु । ओषधीषु । अप्ऽसु । या । मानुषेषु । असि । तस्य । राजा ॥ā́ ǀ sū́rye ǀ ná ǀ raśmáyaḥ ǀ dhruvā́saḥ ǀ vaiśvānaré ǀ dadhire ǀ agnā́ ǀ vásūni ǀ
yā́ ǀ párvateṣu ǀ óṣadhīṣu ǀ ap-sú ǀ yā́ ǀ mā́nuṣeṣu ǀ ási ǀ tásya ǀ rā́jā ǁā ǀ sūrye ǀ na ǀ raśmayaḥ ǀ dhruvāsaḥ ǀ vaiśvānare ǀ dadhire ǀ agnā ǀ vasūni ǀ
yā ǀ parvateṣu ǀ oṣadhīṣu ǀ ap-su ǀ yā ǀ mānuṣeṣu ǀ asi ǀ tasya ǀ rājā ǁ1.59.3 Aṣṭaka 1.4.25.3Anuvāka 1.11.12
-
Ṛk 4
बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒३॒॑ न दक्षः॑ ।
स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ॥बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः |
स्वर्वते सत्यशुष्माय पूर्वीर् वैश्वानराय नृतमाय यह्वीः ||bṛhatī́ iva sūnáve ródasī gíro hótā manuṣyó ná dákṣaḥ ǀ
svárvate satyáśuṣmāya pūrvī́rvaiśvānarā́ya nṛ́tamāya yahvī́ḥ ǁbṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ |
svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ ||बृ॒ह॒ती इ॒वेति॑ बृह॒तीऽइ॑व । सू॒नवे॑ । रोद॑सी॒ इति॑ । गिरः॑ । होता॑ । म॒नु॒ष्यः॑ । न । दक्षः॑ ।
स्वः॑ऽवते । स॒त्यऽशु॑ष्माय । पू॒र्वीः । वै॒श्वा॒न॒राय॑ । नृऽत॑माय । य॒ह्वीः ॥बृहती इवेति बृहतीऽइव । सूनवे । रोदसी इति । गिरः । होता । मनुष्यः । न । दक्षः ।
स्वःऽवते । सत्यऽशुष्माय । पूर्वीः । वैश्वानराय । नृऽतमाय । यह्वीः ॥bṛhatī́ ivéti bṛhatī́-iva ǀ sūnáve ǀ ródasī íti ǀ gíraḥ ǀ hótā ǀ manuṣyáḥ ǀ ná ǀ dákṣaḥ ǀ
sváḥ-vate ǀ satyá-śuṣmāya ǀ pūrvī́ḥ ǀ vaiśvānarā́ya ǀ nṛ́-tamāya ǀ yahvī́ḥ ǁbṛhatī iveti bṛhatī-iva ǀ sūnave ǀ rodasī iti ǀ giraḥ ǀ hotā ǀ manuṣyaḥ ǀ na ǀ dakṣaḥ ǀ
svaḥ-vate ǀ satya-śuṣmāya ǀ pūrvīḥ ǀ vaiśvānarāya ǀ nṛ-tamāya ǀ yahvīḥ ǁ1.59.4 Aṣṭaka 1.4.25.4Anuvāka 1.11.13
-
Ṛk 5
दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वं ।
राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥दिवश् चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् |
राजा कृष्टीनाम् असि मानुषीणां युधा देवेभ्यो वरिवश् चकर्थ ||diváścitte bṛható jātavedo váiśvānara prá ririce mahitvám ǀ
rā́jā kṛṣṭīnā́masi mā́nuṣīṇām yudhā́ devébhyo várivaścakartha ǁdivaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam |
rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha ||दि॒वः । चि॒त् । ते॒ । बृ॒ह॒तः । जा॒त॒ऽवे॒दः॒ । वैश्वा॑नर । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वम् ।
राजा॑ । कृ॒ष्टी॒नाम् । अ॒सि॒ । मानु॑षीणाम् । यु॒धा । दे॒वेभ्यः॑ । वरि॑वः । च॒क॒र्थ॒ ॥दिवः । चित् । ते । बृहतः । जातऽवेदः । वैश्वानर । प्र । रिरिचे । महिऽत्वम् ।
राजा । कृष्टीनाम् । असि । मानुषीणाम् । युधा । देवेभ्यः । वरिवः । चकर्थ ॥diváḥ ǀ cit ǀ te ǀ bṛhatáḥ ǀ jāta-vedaḥ ǀ váiśvānara ǀ prá ǀ ririce ǀ mahi-tvám ǀ
rā́jā ǀ kṛṣṭīnā́m ǀ asi ǀ mā́nuṣīṇām ǀ yudhā́ ǀ devébhyaḥ ǀ várivaḥ ǀ cakartha ǁdivaḥ ǀ cit ǀ te ǀ bṛhataḥ ǀ jāta-vedaḥ ǀ vaiśvānara ǀ pra ǀ ririce ǀ mahi-tvam ǀ
rājā ǀ kṛṣṭīnām ǀ asi ǀ mānuṣīṇām ǀ yudhā ǀ devebhyaḥ ǀ varivaḥ ǀ cakartha ǁ1.59.5 Aṣṭaka 1.4.25.5Anuvāka 1.11.14
-
Ṛk 6
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सचं॑ते ।
वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शंब॑रं भेत् ॥प्र नू महित्वं वृषभस्य वोचं यम् पूरवो वृत्रहणं सचन्ते |
वैश्वानरो दस्युम् अग्निर् जघन्वां अधूनोत् काष्ठा अव शम्बरम् भेत् ||prá nū́ mahitvám vṛṣabhásya vocam yám pūrávo vṛtraháṇam sácante ǀ
vaiśvānaró dásyumagnírjaghanvā́m̐ ádhūnotkā́ṣṭhā áva śámbaram bhet ǁpra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante |
vaiśvānaro dasyum agnir jaghanvāṃ adhūnot kāṣṭhā ava śambaram bhet ||प्र । नु । म॒हि॒ऽत्वम् । वृ॒ष॒भस्य॑ । वो॒च॒म् । यम् । पू॒रवः॑ । वृ॒त्र॒ऽहन॑म् । सच॑न्ते ।
वै॒श्वा॒न॒रः । दस्यु॑म् । अ॒ग्निः । ज॒घ॒न्वान् । अधू॑नोत् । काष्ठाः॑ । अव॑ । शम्ब॑रम् । भे॒त् ॥प्र । नु । महिऽत्वम् । वृषभस्य । वोचम् । यम् । पूरवः । वृत्रऽहनम् । सचन्ते ।
वैश्वानरः । दस्युम् । अग्निः । जघन्वान् । अधूनोत् । काष्ठाः । अव । शम्बरम् । भेत् ॥prá ǀ nú ǀ mahi-tvám ǀ vṛṣabhásya ǀ vocam ǀ yám ǀ pūrávaḥ ǀ vṛtra-hánam ǀ sácante ǀ
vaiśvānaráḥ ǀ dásyum ǀ agníḥ ǀ jaghanvā́n ǀ ádhūnot ǀ kā́ṣṭhāḥ ǀ áva ǀ śámbaram ǀ bhet ǁpra ǀ nu ǀ mahi-tvam ǀ vṛṣabhasya ǀ vocam ǀ yam ǀ pūravaḥ ǀ vṛtra-hanam ǀ sacante ǀ
vaiśvānaraḥ ǀ dasyum ǀ agniḥ ǀ jaghanvān ǀ adhūnot ǀ kāṣṭhāḥ ǀ ava ǀ śambaram ǀ bhet ǁ1.59.6 Aṣṭaka 1.4.25.6Anuvāka 1.11.15
-
Ṛk 7
वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ ।
शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥वैश्वानरो महिम्ना विश्वकृष्टिर् भरद्वाजेषु यजतो विभावा |
शातवनेये शतिनीभिर् अग्निः पुरुणीथे जरते सूनृतावान् ||vaiśvānaró mahimnā́ viśvákṛṣṭirbharádvājeṣu yajató vibhā́vā ǀ
śātavaneyé śatínībhiragníḥ puruṇīthé jarate sūnṛ́tāvān ǁvaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā |
śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān ||वै॒श्वा॒न॒रः । म॒हि॒म्ना । वि॒श्वऽकृ॑ष्टिः । भ॒रत्ऽवा॑जेषु । य॒ज॒तः । वि॒भाऽवा॑ ।
शा॒त॒ऽव॒ने॒ये । श॒तिनी॑भिः । अ॒ग्निः । पु॒रु॒ऽनी॒थे । ज॒र॒ते॒ । सू॒नृता॑ऽवान् ॥वैश्वानरः । महिम्ना । विश्वऽकृष्टिः । भरत्ऽवाजेषु । यजतः । विभाऽवा ।
शातऽवनेये । शतिनीभिः । अग्निः । पुरुऽनीथे । जरते । सूनृताऽवान् ॥vaiśvānaráḥ ǀ mahimnā́ ǀ viśvá-kṛṣṭiḥ ǀ bharát-vājeṣu ǀ yajatáḥ ǀ vibhā́-vā ǀ
śāta-vaneyé ǀ śatínībhiḥ ǀ agníḥ ǀ puru-nīthé ǀ jarate ǀ sūnṛ́tā-vān ǁvaiśvānaraḥ ǀ mahimnā ǀ viśva-kṛṣṭiḥ ǀ bharat-vājeṣu ǀ yajataḥ ǀ vibhā-vā ǀ
śāta-vaneye ǀ śatinībhiḥ ǀ agniḥ ǀ puru-nīthe ǀ jarate ǀ sūnṛtā-vān ǁ1.59.7 Aṣṭaka 1.4.25.7Anuvāka 1.11.16
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.