Sūkta 165
- Devatā देवता
- 1, 2, 6, 8, 10-15: Maruts; 3-5, 7, 9: Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 3-5, 11, 12); bhurikpaṅkti (6, 7, 10, 14); triṣṭup (2, 8, 9); nicṛttriṣṭup (13); paṅktiḥ (15)
2nd set of styles triṣṭubh
-
Ṛk 1
कया॑ शु॒भा सव॑यसः॒ सनी॑ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः ।
कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्चं॑ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥कया शुभा सवयसः सनीऌआः समान्या मरुतः सम् मिमिक्षुः |
कया मती कुत एतास एते ऽर्चन्ति शुष्मं वृषणो वसूया ||káyā śubhā́ sávayasaḥ sánīḷāḥ samānyā́ marútaḥ sám mimikṣuḥ ǀ
káyā matī́ kúta étāsa eté’rcanti śúṣmam vṛ́ṣaṇo vasūyā́ ǁkayā śubhā savayasaḥ sanīḷāḥ samānyā marutaḥ sam mimikṣuḥ |
kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā ||कया॑ । शु॒भा । सऽव॑यसः । सऽनी॑ळाः । स॒मा॒न्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ ।
कया॑ । म॒ती । कुतः॑ । आऽइ॑तासः । ए॒ते । अर्च॑न्ति । शुष्म॑म् । वृष॑णः । व॒सु॒ऽया ॥कया । शुभा । सऽवयसः । सऽनीळाः । समान्या । मरुतः । सम् । मिमिक्षुः ।
कया । मती । कुतः । आऽइतासः । एते । अर्चन्ति । शुष्मम् । वृषणः । वसुऽया ॥káyā ǀ śubhā́ ǀ sá-vayasaḥ ǀ sá-nīḷāḥ ǀ samānyā́ ǀ marútaḥ ǀ sám ǀ mimikṣuḥ ǀ
káyā ǀ matī́ ǀ kútaḥ ǀ ā́-itāsaḥ ǀ eté ǀ árcanti ǀ śúṣmam ǀ vṛ́ṣaṇaḥ ǀ vasu-yā́ ǁkayā ǀ śubhā ǀ sa-vayasaḥ ǀ sa-nīḷāḥ ǀ samānyā ǀ marutaḥ ǀ sam ǀ mimikṣuḥ ǀ
kayā ǀ matī ǀ kutaḥ ǀ ā-itāsaḥ ǀ ete ǀ arcanti ǀ śuṣmam ǀ vṛṣaṇaḥ ǀ vasu-yā ǁ1.165.1 Aṣṭaka 2.3.24.1Anuvāka 1.23.1
-
Ṛk 2
कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑नः॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त ।
श्ये॒नाँ इ॑व॒ ध्रज॑तो अं॒तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ॥कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुत आ ववर्त |
श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ||kásya bráhmāṇi jujuṣuryúvānaḥ kó adhvaré marúta ā́ vavarta ǀ
śyenā́m̐ iva dhrájato antárikṣe kéna mahā́ mánasā rīramāma ǁkasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta |
śyenāṃ iva dhrajato antarikṣe kena mahā manasā rīramāma ||कस्य॑ । ब्रह्मा॑णि । जु॒जु॒षुः॒ । युवा॑नः । कः । अ॒ध्व॒रे । म॒रुतः॑ । आ । व॒व॒र्त॒ ।
श्ये॒नान्ऽइ॑व । ध्रज॑तः । अ॒न्तरि॑क्षे । केन॑ । म॒हा । मन॑सा । री॒र॒मा॒म॒ ॥कस्य । ब्रह्माणि । जुजुषुः । युवानः । कः । अध्वरे । मरुतः । आ । ववर्त ।
श्येनान्ऽइव । ध्रजतः । अन्तरिक्षे । केन । महा । मनसा । रीरमाम ॥kásya ǀ bráhmāṇi ǀ jujuṣuḥ ǀ yúvānaḥ ǀ káḥ ǀ adhvaré ǀ marútaḥ ǀ ā́ ǀ vavarta ǀ
śyenā́n-iva ǀ dhrájataḥ ǀ antárikṣe ǀ kéna ǀ mahā́ ǀ mánasā ǀ rīramāma ǁkasya ǀ brahmāṇi ǀ jujuṣuḥ ǀ yuvānaḥ ǀ kaḥ ǀ adhvare ǀ marutaḥ ǀ ā ǀ vavarta ǀ
śyenān-iva ǀ dhrajataḥ ǀ antarikṣe ǀ kena ǀ mahā ǀ manasā ǀ rīramāma ǁ1.165.2 Aṣṭaka 2.3.24.2Anuvāka 1.23.2
-
Ṛk 3
कुत॒स्त्वमिं॑द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था ।
सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था |
सम् पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते अस्मे ||kútastvámindra mā́hinaḥ sánnéko yāsi satpate kím ta itthā́ ǀ
sám pṛcchase samarāṇáḥ śubhānáirvocéstánno harivo yátte asmé ǁkutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā |
sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme ||कुतः॑ । त्वम् । इ॒न्द्र॒ । माहि॑नः । सन् । एकः॑ । या॒सि॒ । स॒त्ऽप॒ते॒ । किम् । ते॒ । इ॒त्था ।
सम् । पृ॒च्छ॒से॒ । स॒म्ऽअ॒रा॒णः । शु॒भा॒नैः । वो॒चेः । तत् । नः॒ । ह॒रि॒ऽवः॒ । यत् । ते॒ । अ॒स्मे इति॑ ॥कुतः । त्वम् । इन्द्र । माहिनः । सन् । एकः । यासि । सत्ऽपते । किम् । ते । इत्था ।
सम् । पृच्छसे । सम्ऽअराणः । शुभानैः । वोचेः । तत् । नः । हरिऽवः । यत् । ते । अस्मे इति ॥kútaḥ ǀ tvám ǀ indra ǀ mā́hinaḥ ǀ sán ǀ ékaḥ ǀ yāsi ǀ sat-pate ǀ kím ǀ te ǀ itthā́ ǀ
sám ǀ pṛcchase ǀ sam-arāṇáḥ ǀ śubhānáiḥ ǀ vocéḥ ǀ tát ǀ naḥ ǀ hari-vaḥ ǀ yát ǀ te ǀ asmé íti ǁkutaḥ ǀ tvam ǀ indra ǀ māhinaḥ ǀ san ǀ ekaḥ ǀ yāsi ǀ sat-pate ǀ kim ǀ te ǀ itthā ǀ
sam ǀ pṛcchase ǀ sam-arāṇaḥ ǀ śubhānaiḥ ǀ voceḥ ǀ tat ǀ naḥ ǀ hari-vaḥ ǀ yat ǀ te ǀ asme iti ǁ1.165.3 Aṣṭaka 2.3.24.3Anuvāka 1.23.3
-
Ṛk 4
ब्रह्मा॑णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रिः॑ ।
आ शा॑सते॒ प्रति॑ हर्यंत्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः |
आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो अच्छ ||bráhmāṇi me matáyaḥ śám sutā́saḥ śúṣma iyarti prábhṛto me ádriḥ ǀ
ā́ śāsate práti haryantyukthémā́ hárī vahatastā́ no áccha ǁbrahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ |
ā śāsate prati haryanty ukthemā harī vahatas tā no accha ||ब्रह्मा॑णि । मे॒ । म॒तयः॑ । शम् । सु॒तासः॑ । शुष्मः॑ । इ॒य॒र्ति॒ । प्रऽभृ॑तः । मे॒ । अद्रिः॑ ।
आ । शा॒स॒ते॒ । प्रति॑ । ह॒र्य॒न्ति॒ । उ॒क्था । इ॒मा । हरी॒ इति॑ । व॒ह॒तः॒ । ता । नः॒ । अच्छ॑ ॥ब्रह्माणि । मे । मतयः । शम् । सुतासः । शुष्मः । इयर्ति । प्रऽभृतः । मे । अद्रिः ।
आ । शासते । प्रति । हर्यन्ति । उक्था । इमा । हरी इति । वहतः । ता । नः । अच्छ ॥bráhmāṇi ǀ me ǀ matáyaḥ ǀ śám ǀ sutā́saḥ ǀ śúṣmaḥ ǀ iyarti ǀ prá-bhṛtaḥ ǀ me ǀ ádriḥ ǀ
ā́ ǀ śāsate ǀ práti ǀ haryanti ǀ ukthā́ ǀ imā́ ǀ hárī íti ǀ vahataḥ ǀ tā́ ǀ naḥ ǀ áccha ǁbrahmāṇi ǀ me ǀ matayaḥ ǀ śam ǀ sutāsaḥ ǀ śuṣmaḥ ǀ iyarti ǀ pra-bhṛtaḥ ǀ me ǀ adriḥ ǀ
ā ǀ śāsate ǀ prati ǀ haryanti ǀ ukthā ǀ imā ǀ harī iti ǀ vahataḥ ǀ tā ǀ naḥ ǀ accha ǁ1.165.4 Aṣṭaka 2.3.24.4Anuvāka 1.23.4
-
Ṛk 5
अतो॑ व॒यमं॑त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्वः१॒॑ शुंभ॑मानाः ।
महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विंद्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्वः शुम्भमानाः |
महोभिर् एतां उप युज्महे न्व् इन्द्र स्वधाम् अनु हि नो बभूथ ||áto vayámantamébhiryujānā́ḥ svákṣatrebhistanváḥ śúmbhamānāḥ ǀ
máhobhirétām̐ úpa yujmahe nvíndra svadhā́mánu hí no babhū́tha ǁato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ |
mahobhir etāṃ upa yujmahe nv indra svadhām anu hi no babhūtha ||अतः॑ । व॒यम् । अ॒न्त॒मेभिः॑ । यु॒जा॒नाः । स्वऽक्ष॑त्रेभिः । त॒न्वः॑ । शुम्भ॑मानाः ।
महः॑ऽभिः । एता॑न् । उप॑ । यु॒ज्म॒हे॒ । नु । इन्द्र॑ । स्व॒धाम् । अनु॑ । हि । नः॒ । ब॒भूथ॑ ॥अतः । वयम् । अन्तमेभिः । युजानाः । स्वऽक्षत्रेभिः । तन्वः । शुम्भमानाः ।
महःऽभिः । एतान् । उप । युज्महे । नु । इन्द्र । स्वधाम् । अनु । हि । नः । बभूथ ॥átaḥ ǀ vayám ǀ antamébhiḥ ǀ yujānā́ḥ ǀ svá-kṣatrebhiḥ ǀ tanváḥ ǀ śúmbhamānāḥ ǀ
máhaḥ-bhiḥ ǀ étān ǀ úpa ǀ yujmahe ǀ nú ǀ índra ǀ svadhā́m ǀ ánu ǀ hí ǀ naḥ ǀ babhū́tha ǁataḥ ǀ vayam ǀ antamebhiḥ ǀ yujānāḥ ǀ sva-kṣatrebhiḥ ǀ tanvaḥ ǀ śumbhamānāḥ ǀ
mahaḥ-bhiḥ ǀ etān ǀ upa ǀ yujmahe ǀ nu ǀ indra ǀ svadhām ǀ anu ǀ hi ǀ naḥ ǀ babhūtha ǁ1.165.5 Aṣṭaka 2.3.24.5Anuvāka 1.23.5
-
Ṛk 6
क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ ।
अ॒हं ह्यू१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥क्व स्या वो मरुतः स्वधासीद् यन् माम् एकं समधत्ताहिहत्ये |
अहं ह्य् उग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं वधस्नैः ||kvá syā́ vo marutaḥ svadhā́sīdyánmā́mékam samádhattāhihátye ǀ
ahám hyū́grástaviṣástúviṣmānvíśvasya śátroránamam vadhasnáiḥ ǁkva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye |
ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ ||क्व॑ । स्या । वः॒ । म॒रु॒तः॒ । स्व॒धा । आ॒सी॒त् । यत् । माम् । एक॑म् । स॒म्ऽअध॑त्त । अ॒हि॒ऽहत्ये॑ ।
अ॒हम् । हि । उ॒ग्रः । त॒वि॒षः । तुवि॑ष्मान् । विश्व॑स्य । शत्रोः॑ । अन॑मम् । व॒ध॒ऽस्नैः ॥क्व । स्या । वः । मरुतः । स्वधा । आसीत् । यत् । माम् । एकम् । सम्ऽअधत्त । अहिऽहत्ये ।
अहम् । हि । उग्रः । तविषः । तुविष्मान् । विश्वस्य । शत्रोः । अनमम् । वधऽस्नैः ॥kvá ǀ syā́ ǀ vaḥ ǀ marutaḥ ǀ svadhā́ ǀ āsīt ǀ yát ǀ mā́m ǀ ékam ǀ sam-ádhatta ǀ ahi-hátye ǀ
ahám ǀ hí ǀ ugráḥ ǀ taviṣáḥ ǀ túviṣmān ǀ víśvasya ǀ śátroḥ ǀ ánamam ǀ vadha-snáiḥ ǁkva ǀ syā ǀ vaḥ ǀ marutaḥ ǀ svadhā ǀ āsīt ǀ yat ǀ mām ǀ ekam ǀ sam-adhatta ǀ ahi-hatye ǀ
aham ǀ hi ǀ ugraḥ ǀ taviṣaḥ ǀ tuviṣmān ǀ viśvasya ǀ śatroḥ ǀ anamam ǀ vadha-snaiḥ ǁ1.165.6 Aṣṭaka 2.3.25.1Anuvāka 1.23.6
-
Ṛk 7
भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः ।
भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेंद्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौंस्येभिः |
भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद् वशाम ||bhū́ri cakartha yújyebhirasmé samānébhirvṛṣabha páuṃsyebhiḥ ǀ
bhū́rīṇi hí kṛṇávāmā śaviṣṭhéndra krátvā maruto yádváśāma ǁbhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ |
bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma ||भूरि॑ । च॒क॒र्थ॒ । युज्ये॑भिः । अ॒स्मे इति॑ । स॒मा॒नेभिः॑ । वृ॒ष॒भ॒ । पौंस्ये॑भिः ।
भूरी॑णि । हि । कृ॒णवा॑म । श॒वि॒ष्ठ॒ । इन्द्र॑ । क्रत्वा॑ । म॒रु॒तः॒ । यत् । वशा॑म ॥भूरि । चकर्थ । युज्येभिः । अस्मे इति । समानेभिः । वृषभ । पौंस्येभिः ।
भूरीणि । हि । कृणवाम । शविष्ठ । इन्द्र । क्रत्वा । मरुतः । यत् । वशाम ॥bhū́ri ǀ cakartha ǀ yújyebhiḥ ǀ asmé íti ǀ samānébhiḥ ǀ vṛṣabha ǀ páuṃsyebhiḥ ǀ
bhū́rīṇi ǀ hí ǀ kṛṇávāma ǀ śaviṣṭha ǀ índra ǀ krátvā ǀ marutaḥ ǀ yát ǀ váśāma ǁbhūri ǀ cakartha ǀ yujyebhiḥ ǀ asme iti ǀ samānebhiḥ ǀ vṛṣabha ǀ pauṃsyebhiḥ ǀ
bhūrīṇi ǀ hi ǀ kṛṇavāma ǀ śaviṣṭha ǀ indra ǀ kratvā ǀ marutaḥ ǀ yat ǀ vaśāma ǁ1.165.7 Aṣṭaka 2.3.25.2Anuvāka 1.23.7
-
Ṛk 8
वधीं॑ वृ॒त्रं म॑रुत इंद्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् ।
अ॒हमे॒ता मन॑वे वि॒श्वश्चं॑द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥वधीं वृत्रम् मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् |
अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः ||vádhīm vṛtrám maruta indriyéṇa svéna bhā́mena taviṣó babhūvā́n ǀ
ahámetā́ mánave viśváścandrāḥ sugā́ apáścakara vájrabāhuḥ ǁvadhīṃ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān |
aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ ||वधी॑म् । वृ॒त्रम् । म॒रु॒तः॒ । इ॒न्द्रि॒येण॑ । स्वेन॑ । भामे॑न । त॒वि॒षः । ब॒भू॒वान् ।
अ॒हम् । ए॒ताः । मन॑वे । वि॒श्वऽच॑न्द्राः । सु॒ऽगाः । अ॒पः । च॒क॒र॒ । वज्र॑ऽबाहुः ॥वधीम् । वृत्रम् । मरुतः । इन्द्रियेण । स्वेन । भामेन । तविषः । बभूवान् ।
अहम् । एताः । मनवे । विश्वऽचन्द्राः । सुऽगाः । अपः । चकर । वज्रऽबाहुः ॥vádhīm ǀ vṛtrám ǀ marutaḥ ǀ indriyéṇa ǀ svéna ǀ bhā́mena ǀ taviṣáḥ ǀ babhūvā́n ǀ
ahám ǀ etā́ḥ ǀ mánave ǀ viśvá-candrāḥ ǀ su-gā́ḥ ǀ apáḥ ǀ cakara ǀ vájra-bāhuḥ ǁvadhīm ǀ vṛtram ǀ marutaḥ ǀ indriyeṇa ǀ svena ǀ bhāmena ǀ taviṣaḥ ǀ babhūvān ǀ
aham ǀ etāḥ ǀ manave ǀ viśva-candrāḥ ǀ su-gāḥ ǀ apaḥ ǀ cakara ǀ vajra-bāhuḥ ǁ1.165.8 Aṣṭaka 2.3.25.3Anuvāka 1.23.8
-
Ṛk 9
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः ।
न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥अनुत्तम् आ ते मघवन् नकिर् नु न त्वावां अस्ति देवता विदानः |
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ||ánuttamā́ te maghavannákirnú ná tvā́vām̐ asti devátā vídānaḥ ǀ
ná jā́yamāno náśate ná jātó yā́ni kariṣyā́ kṛṇuhí pravṛddha ǁanuttam ā te maghavan nakir nu na tvāvāṃ asti devatā vidānaḥ |
na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha ||अनु॑त्तम् । आ । ते॒ । म॒घ॒ऽव॒न् । नकिः॑ । नु । न । त्वाऽवा॑न् । अ॒स्ति॒ । दे॒वता॑ । विदा॑नः ।
न । जाय॑मानः । नश॑ते । न । जा॒तः । यानि॑ । क॒रि॒ष्या । कृ॒णु॒हि । प्र॒ऽवृ॒द्ध॒ ॥अनुत्तम् । आ । ते । मघऽवन् । नकिः । नु । न । त्वाऽवान् । अस्ति । देवता । विदानः ।
न । जायमानः । नशते । न । जातः । यानि । करिष्या । कृणुहि । प्रऽवृद्ध ॥ánuttam ǀ ā́ ǀ te ǀ magha-van ǀ nákiḥ ǀ nú ǀ ná ǀ tvā́-vān ǀ asti ǀ devátā ǀ vídānaḥ ǀ
ná ǀ jā́yamānaḥ ǀ náśate ǀ ná ǀ jātáḥ ǀ yā́ni ǀ kariṣyā́ ǀ kṛṇuhí ǀ pra-vṛddha ǁanuttam ǀ ā ǀ te ǀ magha-van ǀ nakiḥ ǀ nu ǀ na ǀ tvā-vān ǀ asti ǀ devatā ǀ vidānaḥ ǀ
na ǀ jāyamānaḥ ǀ naśate ǀ na ǀ jātaḥ ǀ yāni ǀ kariṣyā ǀ kṛṇuhi ǀ pra-vṛddha ǁ1.165.9 Aṣṭaka 2.3.25.4Anuvāka 1.23.9
-
Ṛk 10
एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा ।
अ॒हं ह्यू१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिंद्र॒ इदी॑श एषां ॥एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा |
अहं ह्य् उग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश एषाम् ||ékasya cinme vibhvástvójo yā́ nú dadhṛṣvā́nkṛṇávai manīṣā́ ǀ
ahám hyū́gró maruto vídāno yā́ni cyávamíndra ídīśa eṣām ǁekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā |
ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām ||एक॑स्य । चि॒त् । मे॒ । वि॒ऽभु । अ॒स्तु॒ । ओजः॑ । या । नु । द॒धृ॒ष्वान् । कृ॒णवै॑ । म॒नी॒षा ।
अ॒हम् । हि । उ॒ग्रः । म॒रु॒तः॒ । विदा॑नः । यानि॑ । च्यव॑म् । इन्द्रः॑ । इत् । ई॒शे॒ । ए॒षा॒म् ॥एकस्य । चित् । मे । विऽभु । अस्तु । ओजः । या । नु । दधृष्वान् । कृणवै । मनीषा ।
अहम् । हि । उग्रः । मरुतः । विदानः । यानि । च्यवम् । इन्द्रः । इत् । ईशे । एषाम् ॥ékasya ǀ cit ǀ me ǀ vi-bhú ǀ astu ǀ ójaḥ ǀ yā́ ǀ nú ǀ dadhṛṣvā́n ǀ kṛṇávai ǀ manīṣā́ ǀ
ahám ǀ hí ǀ ugráḥ ǀ marutaḥ ǀ vídānaḥ ǀ yā́ni ǀ cyávam ǀ índraḥ ǀ ít ǀ īśe ǀ eṣām ǁekasya ǀ cit ǀ me ǀ vi-bhu ǀ astu ǀ ojaḥ ǀ yā ǀ nu ǀ dadhṛṣvān ǀ kṛṇavai ǀ manīṣā ǀ
aham ǀ hi ǀ ugraḥ ǀ marutaḥ ǀ vidānaḥ ǀ yāni ǀ cyavam ǀ indraḥ ǀ it ǀ īśe ǀ eṣām ǁ1.165.10 Aṣṭaka 2.3.25.5Anuvāka 1.23.10
-
Ṛk 11
अमं॑दन्मा मरुतः॒ स्तोमो॒ अत्र॒ यन्मे॑ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र ।
इंद्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभिः॑ ॥अमन्दन् मा मरुत स्तोमो अत्र यन् मे नरः श्रुत्यम् ब्रह्म चक्र |
इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे तनूभिः ||ámandanmā marutaḥ stómo átra yánme naraḥ śrútyam bráhma cakrá ǀ
índrāya vṛ́ṣṇe súmakhāya máhyam sákhye sákhāyastanvé tanū́bhiḥ ǁamandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra |
indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ ||अम॑न्दत् । मा॒ । म॒रु॒तः॒ । स्तोमः॑ । अत्र॑ । यत् । मे॒ । न॒रः॒ । श्रुत्य॑म् । ब्रह्म॑ । च॒क्र ।
इन्द्रा॑य । वृष्णे॑ । सुऽम॑खाय । मह्य॑म् । सख्ये॑ । सखा॑यः । त॒न्वे॑ । त॒नूभिः॑ ॥अमन्दत् । मा । मरुतः । स्तोमः । अत्र । यत् । मे । नरः । श्रुत्यम् । ब्रह्म । चक्र ।
इन्द्राय । वृष्णे । सुऽमखाय । मह्यम् । सख्ये । सखायः । तन्वे । तनूभिः ॥ámandat ǀ mā ǀ marutaḥ ǀ stómaḥ ǀ átra ǀ yát ǀ me ǀ naraḥ ǀ śrútyam ǀ bráhma ǀ cakrá ǀ
índrāya ǀ vṛ́ṣṇe ǀ sú-makhāya ǀ máhyam ǀ sákhye ǀ sákhāyaḥ ǀ tanvé ǀ tanū́bhiḥ ǁamandat ǀ mā ǀ marutaḥ ǀ stomaḥ ǀ atra ǀ yat ǀ me ǀ naraḥ ǀ śrutyam ǀ brahma ǀ cakra ǀ
indrāya ǀ vṛṣṇe ǀ su-makhāya ǀ mahyam ǀ sakhye ǀ sakhāyaḥ ǀ tanve ǀ tanūbhiḥ ǁ1.165.11 Aṣṭaka 2.3.26.1Anuvāka 1.23.11
-
Ṛk 12
ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्यः॒ श्रव॒ एषो॒ दधा॑नाः ।
सं॒चक्ष्या॑ मरुतश्चं॒द्रव॑र्णा॒ अच्छां॑त मे छ॒दया॑था च नू॒नं ॥एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः |
संचक्ष्या मरुतश् चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ||evédeté práti mā rócamānā ánedyaḥ śráva éṣo dádhānāḥ ǀ
saṃcákṣyā marutaścandrávarṇā ácchānta me chadáyāthā ca nūnám ǁeved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ |
saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam ||ए॒व । इत् । ए॒ते । प्रति॑ । मा॒ । रोच॑मानाः । अने॑द्यः । श्रवः॑ । आ । इषः॑ । दधा॑नाः ।
स॒म्ऽचक्ष्य॑ । म॒रु॒तः॒ । च॒न्द्रऽव॑र्णाः । अच्छा॑न्त । मे॒ । छ॒दया॑थ । च॒ । नू॒नम् ॥एव । इत् । एते । प्रति । मा । रोचमानाः । अनेद्यः । श्रवः । आ । इषः । दधानाः ।
सम्ऽचक्ष्य । मरुतः । चन्द्रऽवर्णाः । अच्छान्त । मे । छदयाथ । च । नूनम् ॥evá ǀ ít ǀ eté ǀ práti ǀ mā ǀ rócamānāḥ ǀ ánedyaḥ ǀ śrávaḥ ǀ ā́ ǀ íṣaḥ ǀ dádhānāḥ ǀ
sam-cákṣya ǀ marutaḥ ǀ candrá-varṇāḥ ǀ ácchānta ǀ me ǀ chadáyātha ǀ ca ǀ nūnám ǁeva ǀ it ǀ ete ǀ prati ǀ mā ǀ rocamānāḥ ǀ anedyaḥ ǀ śravaḥ ǀ ā ǀ iṣaḥ ǀ dadhānāḥ ǀ
sam-cakṣya ǀ marutaḥ ǀ candra-varṇāḥ ǀ acchānta ǀ me ǀ chadayātha ǀ ca ǀ nūnam ǁ1.165.12 Aṣṭaka 2.3.26.2Anuvāka 1.23.12
-
Ṛk 13
को न्वत्र॑ मरुतो मामहे वः॒ प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः ।
मन्मा॑नि चित्रा अपिवा॒तयं॑त ए॒षां भू॑त॒ नवे॑दा म ऋ॒तानां॑ ॥को न्व् अत्र मरुतो मामहे वः प्र यातन सखींर् अच्छा सखायः |
मन्मानि चित्रा अपिवातयन्त एषाम् भूत नवेदा म ऋतानाम् ||kó nvátra maruto māmahe vaḥ prá yātana sákhīm̐rácchā sakhāyaḥ ǀ
mánmāni citrā apivātáyanta eṣā́m bhūta návedā ma ṛtā́nām ǁko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ |
manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām ||कः । नु । अत्र॑ । म॒रु॒तः॒ । म॒म॒हे॒ । वः॒ । प्र । या॒त॒न॒ । सखी॑न् । अच्छ॑ । स॒खा॒यः॒ ।
मन्मा॑नि । चि॒त्राः॒ । अ॒पि॒ऽवा॒तय॑न्तः । ए॒षाम् । भू॒त॒ । नवे॑दाः । मे॒ । ऋ॒ताना॑म् ॥कः । नु । अत्र । मरुतः । ममहे । वः । प्र । यातन । सखीन् । अच्छ । सखायः ।
मन्मानि । चित्राः । अपिऽवातयन्तः । एषाम् । भूत । नवेदाः । मे । ऋतानाम् ॥káḥ ǀ nú ǀ átra ǀ marutaḥ ǀ mamahe ǀ vaḥ ǀ prá ǀ yātana ǀ sákhīn ǀ áccha ǀ sakhāyaḥ ǀ
mánmāni ǀ citrāḥ ǀ api-vātáyantaḥ ǀ eṣā́m ǀ bhūta ǀ návedāḥ ǀ me ǀ ṛtā́nām ǁkaḥ ǀ nu ǀ atra ǀ marutaḥ ǀ mamahe ǀ vaḥ ǀ pra ǀ yātana ǀ sakhīn ǀ accha ǀ sakhāyaḥ ǀ
manmāni ǀ citrāḥ ǀ api-vātayantaḥ ǀ eṣām ǀ bhūta ǀ navedāḥ ǀ me ǀ ṛtānām ǁ1.165.13 Aṣṭaka 2.3.26.3Anuvāka 1.23.13
-
Ṛk 14
आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्मांच॒क्रे मा॒न्यस्य॑ मे॒धा ।
ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥आ यद् दुवस्याद् दुवसे न कारुर् अस्माञ् चक्रे मान्यस्य मेधा |
ओ षु वर्त्त मरुतो विप्रम् अच्छेमा ब्रह्माणि जरिता वो अर्चत् ||ā́ yádduvasyā́dduváse ná kārúrasmā́ñcakré mānyásya medhā́ ǀ
ó ṣú vartta maruto vípramácchemā́ bráhmāṇi jaritā́ vo arcat ǁā yad duvasyād duvase na kārur asmāñ cakre mānyasya medhā |
o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat ||आ । यत् । दु॒व॒स्यात् । दु॒वसे॑ । न । का॒रुः । अ॒स्मान् । च॒क्रे । मा॒न्यस्य॑ । मे॒धा ।
ओ इति॑ । सु । व॒र्त्त॒ । म॒रु॒तः॒ । विप्र॑म् । अच्छ॑ । इ॒मा । ब्रह्मा॑णि । ज॒रि॒ता । वः॒ । अ॒र्च॒त् ॥आ । यत् । दुवस्यात् । दुवसे । न । कारुः । अस्मान् । चक्रे । मान्यस्य । मेधा ।
ओ इति । सु । वर्त्त । मरुतः । विप्रम् । अच्छ । इमा । ब्रह्माणि । जरिता । वः । अर्चत् ॥ā́ ǀ yát ǀ duvasyā́t ǀ duváse ǀ ná ǀ kārúḥ ǀ asmā́n ǀ cakré ǀ mānyásya ǀ medhā́ ǀ
ó íti ǀ sú ǀ vartta ǀ marutaḥ ǀ vípram ǀ áccha ǀ imā́ ǀ bráhmāṇi ǀ jaritā́ ǀ vaḥ ǀ arcat ǁā ǀ yat ǀ duvasyāt ǀ duvase ǀ na ǀ kāruḥ ǀ asmān ǀ cakre ǀ mānyasya ǀ medhā ǀ
o iti ǀ su ǀ vartta ǀ marutaḥ ǀ vipram ǀ accha ǀ imā ǀ brahmāṇi ǀ jaritā ǀ vaḥ ǀ arcat ǁ1.165.14 Aṣṭaka 2.3.26.4Anuvāka 1.23.14
-
Ṛk 15
ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः |
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ||eṣá vaḥ stómo maruta iyám gī́rmāndāryásya mānyásya kāróḥ ǀ
éṣā́ yāsīṣṭa tanvé vayā́m vidyā́meṣám vṛjánam jīrádānum ǁeṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।
आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।
आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥eṣáḥ ǀ vaḥ ǀ stómaḥ ǀ marutaḥ ǀ iyám ǀ gī́ḥ ǀ māndāryásya ǀ mānyásya ǀ kāróḥ ǀ
ā́ ǀ iṣā́ ǀ yāsīṣṭa ǀ tanvé ǀ vayā́m ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁeṣaḥ ǀ vaḥ ǀ stomaḥ ǀ marutaḥ ǀ iyam ǀ gīḥ ǀ māndāryasya ǀ mānyasya ǀ kāroḥ ǀ
ā ǀ iṣā ǀ yāsīṣṭa ǀ tanve ǀ vayām ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.165.15 Aṣṭaka 2.3.26.5Anuvāka 1.23.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.