Ṛgveda · Maṇḍala 1 · Sūkta 165
Ṛk 1.165.12
Saṃhitā
ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्यः॒ श्रव॒ एषो॒ दधा॑नाः ।
सं॒चक्ष्या॑ मरुतश्चं॒द्रव॑र्णा॒ अच्छां॑त मे छ॒दया॑था च नू॒नं ॥
एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः |
संचक्ष्या मरुतश् चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ||
evédeté práti mā rócamānā ánedyaḥ śráva éṣo dádhānāḥ ǀ
saṃcákṣyā marutaścandrávarṇā ácchānta me chadáyāthā ca nūnám ǁ
eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ |
saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam ||
Padapāṭha
ए॒व । इत् । ए॒ते । प्रति॑ । मा॒ । रोच॑मानाः । अने॑द्यः । श्रवः॑ । आ । इषः॑ । दधा॑नाः ।
स॒म्ऽचक्ष्य॑ । म॒रु॒तः॒ । च॒न्द्रऽव॑र्णाः । अच्छा॑न्त । मे॒ । छ॒दया॑थ । च॒ । नू॒नम् ॥
एव । इत् । एते । प्रति । मा । रोचमानाः । अनेद्यः । श्रवः । आ । इषः । दधानाः ।
सम्ऽचक्ष्य । मरुतः । चन्द्रऽवर्णाः । अच्छान्त । मे । छदयाथ । च । नूनम् ॥
evá ǀ ít ǀ eté ǀ práti ǀ mā ǀ rócamānāḥ ǀ ánedyaḥ ǀ śrávaḥ ǀ ā́ ǀ íṣaḥ ǀ dádhānāḥ ǀ
sam-cákṣya ǀ marutaḥ ǀ candrá-varṇāḥ ǀ ácchānta ǀ me ǀ chadáyātha ǀ ca ǀ nūnám ǁ
eva ǀ it ǀ ete ǀ prati ǀ mā ǀ rocamānāḥ ǀ anedyaḥ ǀ śravaḥ ǀ ā ǀ iṣaḥ ǀ dadhānāḥ ǀ
sam-cakṣya ǀ marutaḥ ǀ candra-varṇāḥ ǀ acchānta ǀ me ǀ chadayātha ǀ ca ǀ nūnam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.165.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.26.02
- Maṇḍala · Anuvāka · Ṛk
- 1.23.012
- Devatā देवता
- 1, 2, 6, 8, 10-15: Maruts; 3-5, 7, 9: Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.